अध्यायः 116 अकृतव्रणेन मुनिना युधिष्ठिरम्प्रति परशुरामचरित्रकीर्तनारम्भः ॥ 1 ॥ ऋचीकेन भृगुसुतेन दिव्याश्वसहस्रशुल्कदानेन गाधिकन्यापरिणयनम् ॥ 2 ॥ गाधिसुतया सत्यवत्या भूगुप्रसादाज्जमदग्निनामकतवयोत्पादनम् ॥ 3 ॥
वैशम्पायन उवाच KK03-06-116-001
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः । KK03-06-116-001a
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥ KK03-06-116-001c
लोमशस्तस्य तान्सर्वानाचख्यौ तत्र तापसान् । KK03-06-116-002a
भृगूनङ्गिरसश्चैव वसिष्ठानथ काश्यपान् ॥ KK03-06-116-002c
तान्समेत्य सा राजर्षिरभिवाद्य कृताञ्जलिः । KK03-06-116-003a
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥ KK03-06-116-003c
कदा नु रामो भगवांस्तापसो दर्शयिष्यति । KK03-06-116-004a
तमहं तपसा युक्तं द्रष्टुमिच्छामि भार्गवम् ॥ KK03-06-116-004c
अकृतव्रण उवाच KK03-06-116-005
आयानेवासि विदितो रामस्य विदितात्मनः । KK03-06-116-005a
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥ KK03-06-116-005c
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः । KK03-06-116-006a
अस्यां रात्र्यां व्यतीतायां भवित्री श्वश्चतुर्दशी ॥ KK03-06-116-006c
'ततो द्रक्ष्यसि रामं त्वं कृष्णाजिनजटाधरम्' । KK03-06-116-007a
युधिष्ठिर उवाच KK03-06-116-007
भवाननुगतो रामं जामदग्न्यं महाबलम् । KK03-06-116-007c
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥ KK03-06-116-007e
स भवान्कथयत्वद्य यथा रामेण निर्जिताः । KK03-06-116-008a
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥ KK03-06-116-008c
अकृतव्रण उवाच KK03-06-116-009
[हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । KK03-06-116-009a
भृगूणां राजशार्दूल वंशे जातस्य भारत ॥ KK03-06-116-009c
रामस्य जामदग्न्यस्य चरितं देवसम्मितम् । KK03-06-116-010a
हैहयाधिपतेश्चैव कार्तवीर्यस्य भारत ॥ KK03-06-116-010c
रामेण चार्जुनो नाम हैहयाधिपतिर्हतः । KK03-06-116-011a
तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव ॥ KK03-06-116-011c
दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा । KK03-06-116-012a
ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते ॥ KK03-06-116-012c
अव्याहतगतिश्चैव रथस्तस्य महात्मनः । KK03-06-116-013a
रथेन तेन तु सदा वरदानेन वीर्यवान् ॥ KK03-06-116-013c
ममर्द देवान्यक्षांश्च ऋषींश्चैव समन्ततः । KK03-06-116-014a
भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः ॥ KK03-06-116-014c
ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः । KK03-06-116-015a
देवदेवं सुरारिघ्नं विष्णुं सत्यपराक्रमम् । KK03-06-116-015c
भगवन्भूतरक्षार्थमर्जुनं जहि वै प्रभो ॥ KK03-06-116-015e
विमानेन च दिव्येन हैहयाधिपतिः प्रभुः । KK03-06-116-016a
शचीसहायं क्रीडन्तं धर्षयामास वासवम् ॥ KK03-06-116-016c
ततस्तु भगवान्देवः शक्रेण सहितस्तदा । KK03-06-116-017a
कार्तवीर्यविनाशार्थं मन्त्रयामास भारत ॥ KK03-06-116-017c
यत्तद्भूतहितं कार्यं सुरेन्द्रेण निवेदितम् । KK03-06-116-018a
सम्प्रतिश्रुत्य तत्सर्वं भगवाल्ँलोकपूजितः । KK03-06-116-018c
जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम् ॥ KK03-06-116-018e
एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः ।] KK03-06-116-019a
कान्यकुब्जे महानासीत्पार्थिवः सुमहाबलः । KK03-06-116-019c
गाधीति विश्रुतो लोके वनवासं जगाम ह ॥ KK03-06-116-019e
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा । KK03-06-116-020a
ऋचीको भार्गवस्तां च वरयामास भारत ॥ KK03-06-116-020c
तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम् । KK03-06-116-021a
उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ॥ KK03-06-116-021c
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् । KK03-06-116-022a
सहस्रं वाजिनां शुक्लमिति विद्धि द्विजोत्तम ॥ KK03-06-116-022c
न चापि भगवान्वाच्यो दीयतामिति भार्गव । KK03-06-116-023a
देया मे दुहिता चैव त्वद्विधाय महात्मने ॥ KK03-06-116-023c
ऋचीक उवाच KK03-06-116-024
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् । KK03-06-116-024a
दास्याम्यश्वसहस्रं ते मम भार्या सुताऽस्तु ते ॥ KK03-06-116-024c
'गाधिरुवाच KK03-06-116-025
ददास्यश्वसहस्रं मे तव भार्या सुताऽस्तु मे' ॥ KK03-06-116-025ac
अकृतव्रण उवाच KK03-06-116-026
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् । KK03-06-116-026a
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् । KK03-06-116-026c
सहस्रं वाजिनामेकं शुल्कार्थं प्रतिदीयताम् ॥ KK03-06-116-026e
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा । KK03-06-116-027a
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥ KK03-06-116-027c
गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा । KK03-06-116-028a
ततो गाधिः सुतां चास्मै जन्याश्चासन्सुरास्तदा ॥ KK03-06-116-028c
लब्धं हयसहस्रं तु तां च दृष्ट्वा दिवौकसः । KK03-06-116-029a
'विस्मयं परमं जग्मुस्तमेव दिवि संस्तुवन्' ॥ KK03-06-116-029c
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः । KK03-06-116-030a
यथाकामं यथाजोषं तया रेमे सुमध्यया ॥ KK03-06-116-030c
तं विवाहे कृते राजन्सभार्यमवलोककः । KK03-06-116-031a
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ KK03-06-116-031c
भार्यापती तमासीनं भृगुं सुरगणार्चितम् । KK03-06-116-032a
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥ KK03-06-116-032c
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् । KK03-06-116-033a
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥ KK03-06-116-033c
सा वै प्रसादयाभास तं गुरुं पुत्रकारणात् । KK03-06-116-034a
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ KK03-06-116-034c
भृगुरुवाच KK03-06-116-035
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै । KK03-06-116-035a
आलिङ्गेतां पृथग्वृक्षौ साऽस्वत्थं त्वमुदुम्बरम् ॥ KK03-06-116-035c
चरुद्वयमिदं भद्रे जनन्याश्च तवैव च । KK03-06-116-036a
विश्वमावर्तयित्वा तु मया यत्नेन साधितम् ॥ KK03-06-116-036c
प्राशितव्यं प्रयत्नेन तेत्युक्त्वाऽदर्शनं गतः । KK03-06-116-037a
आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम् ॥ KK03-06-116-037c
ततः पुन स भगवान्काले बहुतिथे गते । KK03-06-116-038a
दिव्यज्ञानाद्विदित्वा तु भगवानागतः पुनः ॥ KK03-06-116-038c
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् ॥ KK03-06-116-039ac
उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम् । KK03-06-116-040a
विपरीतेन ते सुभ्रूर्मात्रा चैवासि वञ्चिता ॥ KK03-06-116-040c
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् । KK03-06-116-041a
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥ KK03-06-116-041c
ततः प्रसादयामास श्वशुरं सा पुनःपुनः । KK03-06-116-042a
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥ KK03-06-116-042c
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता । KK03-06-116-043a
क्रालं प्रतीक्षती गर्भं धारयामास यत्नतः ॥ KK03-06-116-043c
जमदग्निं ततः पुत्रं जज्ञे सा काल आगते । KK03-06-116-044a
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥ KK03-06-116-044c
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन च । KK03-06-116-045a
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥ KK03-06-116-045c
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ । KK03-06-116-046a
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥ KK03-06-116-046c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
3-116-4 तापसान्दर्शयिष्यति । तेनैवाहं प्रसङ्गेनेति झ. पाठः ॥ 3-116-5 आयान् आगच्छन् ॥ 3-116-28 जन्याः वरपक्षीयाः । ततो गाधिः सुतां तस्मै ददौ कन्यां नृपोत्तमेति क. पाठः ॥ 3-116-29 लब्ध्वा हयसहस्रं तद्देवानां सन्निधौ तदेति क. पाठः ॥ 3-116-31 अवलोककः अवलोकनार्थी ॥ 3-116-36 विश्वं विराट्पुरुषं आवर्तयित्वा मुहुर्मुहुरनुसन्धाय एतयोश्चर्वोर्भक्षणेन विश्वस्रष्टृतुल्यौ पुत्रौ भविष्यत इति भावः ॥ 3-116-37 ते उभे प्रति इत्युक्त्वेतीकारलोपः सन्धिर्वा आर्षः । आलिङ्गने अश्वत्थोदुम्बरयोः ॥