अध्यायः 115
युधिष्ठिरेण गङ्गासागरसङ्गमादितीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरम्प्रति तत्तत्तीर्थाश्रममहिमानुवर्णनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-06-115-001
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय । KK03-06-115-001a
आनुपूर्व्येण सर्वाणि जगामायतनान्यथ ॥ KK03-06-115-001c
स सागरं समासाद्य गङ्गायाः सङ्गमे नृप । KK03-06-115-002a
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ KK03-06-115-002c
ततः समुद्रतीरेण जगाम वसुधाधिपः । KK03-06-115-003a
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥ KK03-06-115-003c
लोमश उवाच KK03-06-115-004
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी । KK03-06-115-004a
यत्रायजत धर्मोपि देवाञ्शरणमेत्य वै ॥ KK03-06-115-004c
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् । KK03-06-115-005a
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ KK03-06-115-005c
समेन देवयानेन पथा स्वर्गमुपेयुषः । KK03-06-115-006a
अत्रवै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ KK03-06-115-006c
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे । KK03-06-115-007a
पशुमादाय राजेन्द्र भागोयमिति चाब्रवीत् ॥ KK03-06-115-007c
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ । KK03-06-115-008a
मा परस्वमभिद्रोग्धा माधर्म्यान्नीनशः पथः ॥ KK03-06-115-008c
'स्वयं यज्ञेश्वरो भूत्वा कर्मणां फलदायकः । KK03-06-115-009a
यज्ञं विहन्तुं भगवान्नार्हसे जगदीश्वर' ॥ KK03-06-115-009c
इति कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् । KK03-06-115-010a
इष्ट्या चैनं तर्पयित्वा मानयाञ्चक्रिरे तदा ॥ KK03-06-115-010c
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् । KK03-06-115-011a
तत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥ KK03-06-115-011c
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् । KK03-06-115-012a
देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ KK03-06-115-012c
इमां गाथामत्र गायन्नपः स्पृशति यो नरः । KK03-06-115-013a
देवयानोऽस्य पन्थाश्च चक्षुषाऽभिप्रकाशते ॥ KK03-06-115-013c
वैशम्पायन उवाच KK03-06-115-014
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा । KK03-06-115-014a
अवतीर्य महाभागास्तर्पयाञ्चक्रिरे पितॄन् ॥ KK03-06-115-014c
युधिष्ठिर उवाच KK03-06-115-015
उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात् । KK03-06-115-015a
मानुषादस्मि विषयादपेतः पश्य लोमश ॥ KK03-06-115-015c
सर्वाल्ँलोकान्प्रपश्यामि प्रसादात्तव सुव्रत । KK03-06-115-016a
वैखानसानां जपतामेष शब्दो महात्मनाम् ॥ KK03-06-115-016c
लोमश उवाच KK03-06-115-017
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर । KK03-06-115-017a
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशाम्पते ॥ KK03-06-115-017c
एतत्स्वयम्भुवो राजन्वनं दिव्यं प्रकाशते । KK03-06-115-018a
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान् ॥ KK03-06-115-018c
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने । KK03-06-115-019a
सपर्वतवनोद्देशा दक्षिणार्थे स्वयम्भुवा ॥ KK03-06-115-019c
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा । KK03-06-115-020a
उवाच चापि कुपिता लोकश्वरमिदं प्रभुम् ॥ KK03-06-115-020c
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि । KK03-06-115-021a
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥ KK03-06-115-021c
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः । KK03-06-115-022a
प्रसादयाम्बभूवाथ ततो भूमिं विशाम्पते ॥ KK03-06-115-022c
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव । KK03-06-115-023a
पुनरुन्नह्य सलिलाद्वेदीरूपास्थिता बभौ ॥ KK03-06-115-023c
सैषा प्रकाशते राजन्वेदीसंस्थानलक्षणा । KK03-06-115-024a
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ KK03-06-115-024c
सैषा सागरमासाद्य राजन्वेदी समाश्रिता । KK03-06-115-025a
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम् ॥ KK03-06-115-025c
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्य । KK03-06-115-026a
स्पृष्टा हि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ ॥ KK03-06-115-026c
ओन्नमो विश्वगुप्ताय नमो विश्वपराय ते । KK03-06-115-027a
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ॥ KK03-06-115-027c
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः । KK03-06-115-028a
एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाऽधिरोह ॥ KK03-06-115-028c
अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः । KK03-06-115-029a
एवं ब्रुवन्पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥ KK03-06-115-029c
अन्यथा हि कुरुश्रेष्ठ देवयोनिरपाम्पतिः । KK03-06-115-030a
कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः ॥ KK03-06-115-030c
वैशम्पायन उवाच KK03-06-115-031
ततः कृतस्वस्त्ययनो महात्मायुधिष्ठिरः सागरमभ्यगच्छत् । KK03-06-115-031a
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास ॥ KK03-06-115-031c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥
3-115-5 उत्तरन्तीरं वैतरण्याः ॥ 3-115-8 मा परस्वमभिद्रोग्धा परभागस्य नाशं माकुर्वित्यर्थः ॥ 3-115-12 अयातयामं तात्कालिकम् ॥ 3-115-27 समुद्रप्रार्थनामन्त्रमाह ओन्नम इति । विश्वं गुप्तं लीनमस्मिन् प्रलये इति विश्वगुप्तः । विश्वस्मात्पराय श्रेष्ठाय विष्णवे इत्यर्थः । लवणाम्भसि क्षारोदके ॥ 3-115-30 देवयोनिः देवस्थानम् ॥ 3-115-31 युधिष्ठिरः सागरगामगच्छदिति क. ध. पाठः ॥