अध्यायः 114
पुनर्विभाण्डकासन्निधाने तदाश्रमं गतया गणिकातरुण्या नौकारोपणेन ऋश्यशृङ्गेऽङ्गदेशमानीते महावृष्टेराविर्भावः ॥ 1 ॥ ऋश्यशृङ्गेण लोमपादप्रार्थनया शान्ताभिधायास्तत्सुतायाः परिणयनम् ॥ 2 ॥ लोमपादेन क्रुद्धस्य विभाण्डकस्य प्रसादनम् ॥ 3 ॥ ऋश्यशृङ्गेण पितृशासनादङ्गदेशे तनयोदयावधिनिवासपूर्वकं ततः सहभार्यया निजाश्रमाभिगमनम् ॥ 4 ॥
विभाण्डक उवाच KK03-06-114-001
रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन । KK03-06-114-001a
अतुल्यवीर्याण्यभिरूपवन्ति विघ्नं सदा तपसश्चिन्तयन्ति ॥ KK03-06-114-001c
सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः । KK03-06-114-002a
सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन्वनेषु ॥ KK03-06-114-002c
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथञ्चित् । KK03-06-114-003a
कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तापसस्तान्न पश्येत् ॥ KK03-06-114-003c
असज्जनेनाचरितानि पुत्र पानान्यपेयानि मधूनि तानि । KK03-06-114-004a
माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥ KK03-06-114-004c
रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयाम्बभूव । KK03-06-114-005a
नासादयामास यदा त्र्यहेण तदा स पर्याववृते श्रमाय ॥ KK03-06-114-005c
यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिनाश्रमेऽसौ । KK03-06-114-006a
तदा पुनर्लोभयितुं जगाम सा वेशायोषा मुनिमृश्यशृङ्गम् ॥ KK03-06-114-006c
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् । KK03-06-114-007a
प्रोवाच चैनां भवतः श्रमाय गच्छाव यावन्न पिता ममैति ॥ KK03-06-114-007c
लोमश उवाच KK03-06-114-008
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य वेगेन विमुच्य नावम् । KK03-06-114-008a
प्रलोभयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम् ॥ KK03-06-114-008c
संस्थाप्यतामाश्रमदर्शने तु सन्तारितां नावमथातिशुभ्राम् । KK03-06-114-009a
तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम् ॥ KK03-06-114-009c
अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् । KK03-06-114-010a
ददर्श मेघैः सहसा प्रवृष्टमापूर्यणाणं च जगज्जलेन ॥ KK03-06-114-010c
स रोमपादः परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् । KK03-06-114-011a
क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च ॥ KK03-06-114-011c
विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् । KK03-06-114-012a
समादिशत्पुत्रगृद्धी महर्षिर्विभाण्डकः परिपृच्छेद्यदा वः ॥ KK03-06-114-012c
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च । KK03-06-114-013a
किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः ॥ KK03-06-114-013c
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा । KK03-06-114-014a
अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः ॥ KK03-06-114-014c
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् । KK03-06-114-015a
जगाम चम्पां प्रतिधक्ष्यमाणस्तमङ्गराजं सपुरं सराष्ट्रम् ॥ KK03-06-114-015c
स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान् । KK03-06-114-016a
गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र ॥ KK03-06-114-016c
अवाप्य सत्कारमतीव हृष्टः प्रोवाच कस्य प्रथिताः स्थ गोपाः । KK03-06-114-017a
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य ॥ KK03-06-114-017c
देशेषु देशेषु स पूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान् । KK03-06-114-018a
प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम् ॥ KK03-06-114-018c
स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् । KK03-06-114-019a
शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव ॥ KK03-06-114-019c
ग्रामांश्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः । KK03-06-114-020a
चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेर्नरेन्द्र ॥ KK03-06-114-020c
स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावः । KK03-06-114-021a
जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥ KK03-06-114-021c
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव । KK03-06-114-022a
शान्ता चैनं पर्यचरन्नरेन्द्र खे रोहिणी सोममिवानुकूला ॥ KK03-06-114-022c
अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वा यथा ह्यगस्त्यम् । KK03-06-114-023a
नलस्य वै दमयन्ती यथा भूद्यथा शची वज्रधरस्य चैव ॥ KK03-06-114-023c
नालायनी चेन्द्रसेना बभूव वश्या नित्यं मुद्गलस्याजमीढ । KK03-06-114-024a
'यथा सीता दाशरथेर्महात्मनो यथा तव द्रौपदी पाण्डुपुत्र' । KK03-06-114-024c
तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥ KK03-06-114-024e
तस्याश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन्पुण्यकीर्तिः । KK03-06-114-025a
अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥ KK03-06-114-025c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
3-114-5 श्रमाय आश्रमाय ॥ 3-114-6 विधिना श्रावणेनेति झ. पाठः । वेशयोषा वेश्या ॥ 3-114-9 आश्रमो यत्रस्थैर्दृश्यते तावतिदेशे आश्रमदर्शने । नाव्याश्रमं नामेति झ. पाठः ॥ 3-114-11 गाश्चैव मार्गेषु च कर्षणानीति झ. पाठः ॥