अध्यायः 113
ऋश्यशृङ्गेण विभाण्डकम्प्रति भ्रमाद्वेश्याकुमार्यां मुनिकुमारत्वव्यपदेशेन तदागमनोक्तिपूर्वकं तदङ्गचेष्टाविलासैस्तस्यामेव स्वचित्तासक्त्युक्तिः ॥ 1 ॥
ऋश्यशृङ्ग उवाच KK03-06-113-001
इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी । KK03-06-113-001a
सुवर्णवर्णः कमलायताक्षः सुतः सुराणामिव शोभमानः ॥ KK03-06-113-001c
समृद्धरूपः सवितेव दीप्तः सुश्लक्ष्णवाक्कृष्णतारश्चकोरात् । KK03-06-113-002a
नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥ KK03-06-113-002c
आधारभूतः पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे । KK03-06-113-003a
द्वौ चास्य पिण्डावधरेण कण्ठादजातरोमौ सुमनोहरौ च ॥ KK03-06-113-003c
विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा । KK03-06-113-004a
तथाऽस्य चीरान्तरतः प्रभाति हिरण्मयी मेखला मे यथेयम् ॥ KK03-06-113-004c
अन्यच्च तस्याद्भुत दर्शनीयं विकूजितं पादयोः सम्प्रभाति । KK03-06-113-005a
पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् ॥ KK03-06-113-005c
विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसीव मत्ताः । KK03-06-113-006a
चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति ॥ KK03-06-113-006c
वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः । KK03-06-113-007a
पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥ KK03-06-113-007c
यथा वनं माधवमासिमध्ये समीरितं श्वसनेनेव भाति । KK03-06-113-008a
तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात ॥ KK03-06-113-008c
सुसंयताश्चापि जटा विभक्ता द्वैधीकृता भाति ललाटदेशे । KK03-06-113-009a
कर्णौ च चित्रैरिव चक्रवाकैः समावृतौ तस्य सुरूपवद्भिः ॥ KK03-06-113-009c
तथा फलं वृत्तमथो विचित्रं समाहतं पाणिना दक्षिणेन । KK03-06-113-010a
तद्भूमिमासाद्य पुनःपुनश्च समुत्पतत्यद्भुतरूपमुच्चैः ॥ KK03-06-113-010c
तच्चाभिहत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णन्। KK03-06-113-011a
तं प्रेक्षतः पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता ॥ KK03-06-113-011c
स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम् । KK03-06-113-012a
वक्त्रेण वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम् ॥ KK03-06-113-012c
न चापि पाद्यं बहुमन्यतेऽसौ फलानि चेमानि मया हृतानि । KK03-06-113-013a
एवंव्रतोस्मीति च मामवोचत्फलानि चान्यानि नवान्यदान्मे ॥ KK03-06-113-013c
मयोपयुक्तानि फलानि यानि नेमानि तुल्यानि रसेन तेषाम् । KK03-06-113-014a
न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् ॥ KK03-06-113-014c
तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः । KK03-06-113-015a
पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत् ॥ KK03-06-113-015c
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः । KK03-06-113-016a
यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः ॥ KK03-06-113-016c
गतेन तेनास्मि कृतो विचेता गात्रं च मे सम्परिदह्यतीव । KK03-06-113-017a
इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम् ॥ KK03-06-113-017c
गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्य । KK03-06-113-018a
इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्यार्यधर्मा ॥ KK03-06-113-018c
चर्तुं तथेच्छा हृदये ममास्ति दुनोति चित्तं यदि तं न पश्ये ॥ KK03-06-113-019ac
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥
3-113-3 आधाररूपा पुनरिति झ. ध. पाठः ॥ 3-113-5 कलापकौ भूषणविशेषौ । स्वार्थे कः । कङ्गणावित्यर्थः । विकुञ्चितं पादयोः सम्प्रभाति इति ध. पाठः ॥ 3-113-10 तथा फलं फलसदृशं कन्दुकम् ॥ 3-113-11 प्रीतिराह्लादः । रतिरासक्तिः ॥