अध्यायः 112

विभाण्डकस्यासन्निधाने तदाश्रमम् प्रविष्टया वेश्यायुवत्या विलासैर्ऋश्यशृङ्गं प्रलोभ्य पुनः स्वावासगमनम् ॥ 1 ॥ आगतेन विभाण्डकेन वेश्याविलासमुग्धचेतसं सुतम्प्रति मोहकारणप्रश्नः ॥ 2 ॥

लोमश उवाच KK03-06-112-001
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये । KK03-06-112-001a
सन्देशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ KK03-06-112-001c
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः । KK03-06-112-002a
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ KK03-06-112-002c
अतीव रमणीयं तदतीव च मनोहरम् । KK03-06-112-003a
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम् ॥ KK03-06-112-003c
ततो निबध्य सा नावमदूरे काश्यपाश्रमात् । KK03-06-112-004a
चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ KK03-06-112-004c
ततो दुहितरं वेश्यां समाधायेतिकार्यताम् । KK03-06-112-005a
दृष्ट्वाऽन्तरं काश्यपस्य प्राहिणोद्बुद्धिसम्मताम् ॥ KK03-06-112-005c
सा तत्र गत्वा कुशला तपोनित्यस्य सन्निधौ । KK03-06-112-006a
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ KK03-06-112-006c
वेश्योवाच KK03-06-112-007
कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् । KK03-06-112-007a
कच्चिद्भवान्रमते चाश्रेऽस्मिंस्त्वां वै द्रष्टुं साम्प्रतमागतास्मि ॥ KK03-06-112-007c
कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः । KK03-06-112-008a
कच्चित्त्वया प्रीयते चैव विप्र कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्ग ॥ KK03-06-112-008c
ऋश्यशृङ्ग उवाच KK03-06-112-009
ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम् । KK03-06-112-009a
पाद्यं वै ते सम्प्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव ॥ KK03-06-112-009c
कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखाय । KK03-06-112-010a
क्व चाश्रमस्तव किं नाम चेदं व्रतम्ब्रह्मंश्चरसि हि देववत्त्वम् ॥ KK03-06-112-010c
वेश्योवाच KK03-06-112-011
ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण । KK03-06-112-011a
तत्रस्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामः ॥ KK03-06-112-011c
भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया । KK03-06-112-012a
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया ॥ KK03-06-112-012c
ऋश्यशृङ्ग उवाच KK03-06-112-013
फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव । KK03-06-112-013a
करूषकानीङ्गुदधन्वनानि प्रियालानां काङ्क्षितं वै कुरुष्व ॥ KK03-06-112-013c
लोमश उवाच KK03-06-112-014
सा तानि सर्वाणि विसर्जयित्वा भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै । KK03-06-112-014a
तान्यृश्यशृङ्गाय महारसानि भृशं सुरूपाणि च मोदकानि ॥ KK03-06-112-014c
ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति । KK03-06-112-015a
पेयानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव ॥ KK03-06-112-015c
सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव । KK03-06-112-016a
गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ KK03-06-112-016c
सर्जानशोकांस्तिलकांश्च वृक्षान्सुपुष्पितानवनाम्यावभज्य । KK03-06-112-017a
विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः ॥ KK03-06-112-017c
अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य । KK03-06-112-018a
अवेक्ष्यमाणा शनकैर्जगाम कृत्वाऽग्निहोत्रस्य तदाऽपदेशम् ॥ KK03-06-112-018c
तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः । KK03-06-112-019a
तामेव भावेन गतेन शून्ये विनिःश्वसन्नार्तरूपो बभूव ॥ KK03-06-112-019c
ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरानखाग्रात् । KK03-06-112-020a
स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत् ॥ KK03-06-112-020c
सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम् । KK03-06-112-021a
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम् ॥ KK03-06-112-021c
न कल्पिताः समिधः किन्नु तात कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य । KK03-06-112-022a
'न संसृष्टं क्रियते द्वारभागे सुवृक्षाणां खण्डने कः प्रवृत्तः' ॥ KK03-06-112-022c
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्साद्य कृता त्वया च । KK03-06-112-023a
'कोप्यागतः शुश्रूषणायेह पुत्र कुतश्चित्रं माल्यमिदं प्रवृद्धम्' ॥ KK03-06-112-023c
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च । KK03-06-112-024a
दीनोतिमात्रं किमिवाद्य खिन्नः पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ KK03-06-112-024c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

3-112-1 सा तु नार्याश्रमं चक्रे इति क. ध.पाठः । नाव्याश्रमं नावा तार्यमाश्रमम् ॥ 3-112-4 मुनेर्विभाण्डकस्य विहारं बहिर्गमनं चारयामास चारैरधिगतवती ॥ 3-112-5 समाधाय बोधयित्वा । इतिकार्यताम् इतिकर्तव्यताम् । अन्तरम् असान्निध्यम् ॥ 3-112-10 कौश्यां बृस्यामास्स्व कुशासने उपविश । यथोपजोषं यथासुखम् ॥ 3-112-14 अनर्हाणि अमूल्यानि ॥ 3-112-16 मूले समीपे । विभज्यमाना अङ्गमोटनादीनि कुर्वाणा ॥ 3-112-18 कायं देहं पीड्य आलिङ्ग्येत्यर्थः । अपदेशं छलम् ॥ 3-112-19 भावेनाभिप्रायेण ॥ 3-112-20 प्रवेष्टितो व्याप्तः ॥ 3-112-23 निर्णिक्तं प्रक्षालितम् । सवत्सा कृता । दोहनायेति शेषः ॥