अध्यायः 111
युधिष्ठिरेण कौशिकीतीरे ऋश्यशृङ्गाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरम्प्रति विभाण्डकान्मृग्यामृश्यशृङ्गोत्पत्तिकथनम् ॥ 2 ॥ लोमपादेनानावृष्टिनिवृत्तये ऋश्यशृङ्गानयनं चोदिताभिर्वेश्याभिस्तद्वनगमनम् ॥ 3 ॥
लोमश उवाच KK03-06-111-001
एषा देवनदी पुण्या कौशिकी भरतर्षभ । KK03-06-111-001a
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥ KK03-06-111-001c
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः । KK03-06-111-002a
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ॥ KK03-06-111-002c
तपसो यः प्रभावेन वर्षयामास वासवम् । KK03-06-111-003a
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥ KK03-06-111-003c
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः । KK03-06-111-004a
विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥ KK03-06-111-004c
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः । KK03-06-111-005a
लोमपादो दुहितरं सावित्रीं सविता यथा ॥ KK03-06-111-005c
युधिष्ठिर उवाच KK03-06-111-006
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः । KK03-06-111-006a
विरुद्धयोनिसंसर्गः कथं च तपसा युतः ॥ KK03-06-111-006c
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः । KK03-06-111-007a
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥ KK03-06-111-007c
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता । KK03-06-111-008a
लोभयामास या चेतो मृगभूतस्य तस्य वै ॥ KK03-06-111-008c
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः । KK03-06-111-009a
कथं वै विषये तस्य नावर्षत्पाकशासनः ॥ KK03-06-111-009c
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् । KK03-06-111-010a
वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस्य चेष्टितम् ॥ KK03-06-111-010c
लोमश उवाच KK03-06-111-011
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः । KK03-06-111-011a
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ॥ KK03-06-111-011c
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् । KK03-06-111-012a
महाह्रदे महातेजा बालः स्थविरसम्मतः ॥ KK03-06-111-012c
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः । KK03-06-111-013a
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसम्मितः ॥ KK03-06-111-013c
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम् । KK03-06-111-014a
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा । KK03-06-111-014c
सह तोयेन तृषिता गर्भिणी चाभवत्ततः ॥ KK03-06-111-014e
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा । KK03-06-111-015a
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ॥ KK03-06-111-015c
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् । KK03-06-111-016a
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः । KK03-06-111-016c
ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ॥ KK03-06-111-016e
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः । KK03-06-111-017a
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥ KK03-06-111-017c
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः । KK03-06-111-018a
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥ KK03-06-111-018c
एतस्मिन्नेव काले तु सखा दशरशस्य वै । KK03-06-111-019a
लोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत् ॥ KK03-06-111-019c
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः । KK03-06-111-020a
'दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत' । KK03-06-111-020c
स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ॥ KK03-06-111-020e
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया । KK03-06-111-021a
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥ KK03-06-111-021c
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः । KK03-06-111-022a
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ॥ KK03-06-111-022c
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम् । KK03-06-111-023a
तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ॥ KK03-06-111-023c
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह । KK03-06-111-024a
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ॥ KK03-06-111-024c
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव । KK03-06-111-025a
ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ॥ KK03-06-111-025c
स चेदवतरेद्राजन्विषयं ते महातपाः । KK03-06-111-026a
सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ॥ KK03-06-111-026c
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः । KK03-06-111-027a
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥ KK03-06-111-027c
राजानमागतं ज्ञात्वा प्रतिसञ्जगृहुः प्रजाः । KK03-06-111-028a
'स च ताः प्रतिजग्राह पितेव हितकृत्सदा' ॥ KK03-06-111-028c
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् । KK03-06-111-029a
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥ KK03-06-111-029c
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः । KK03-06-111-030a
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ॥ KK03-06-111-030c
ततश्चानाययामास वारमुख्या महीपतिः । KK03-06-111-031a
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ॥ KK03-06-111-031c
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः । KK03-06-111-032a
लोभयित्वाऽभिविश्वास्य विषयं मम शोभनाः ॥ KK03-06-111-032c
ता राजभयभीताश्च शापभीताश्च योषितः । KK03-06-111-033a
अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ॥ KK03-06-111-033c
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् । KK03-06-111-034a
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥ KK03-06-111-034c
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि । KK03-06-111-035a
ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ॥ KK03-06-111-035c
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः । KK03-06-111-036a
धनं च प्रददौ भूरि रत्नानि विविधानि च ॥ KK03-06-111-036c
ततो रूपेण सम्पन्ना वयसा च महीपते । KK03-06-111-037a
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥ KK03-06-111-037c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥
3-111-2 काश्यपस्य विभाण्डकस्य ॥ 3-111-3 हर्षयामास वासवमिति ध. पाठः ॥ 3-111-10 शुश्रूषोर्मे इति सम्बन्धः ॥ 3-111-15 सूय प्रसूय ॥ 3-111-16 विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ॥ 3-111-19 अङ्गानां देशानाम् ॥ 3-111-20 मिथ्याकृतः मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ॥ 3-111-24 निष्कृतिं प्रायश्चित्तम् ॥ 3-111-25 मुनिसुतमाह्वयस्व चेति क. पाठः ॥ 3-111-31 सर्वत्र परवञ्चनादौ निष्णाताः कुशलाः ॥ 3-111-34 जरद्योषा वृद्धास्त्री ॥ 3-111-36 अन्वजानात् अजुज्ञातवान् ॥