युधिष्ठिरेण ऋषभकूटगिरौ नन्दाऽपरनन्दानदीगमनम् || लोमशेन युधिष्ठिरम् प्रति ऋषभमुनेर्नन्दायाश्च महिमकथनम् वैशम्पायन उवाच KK03-06-110-001
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ KK03-06-110-001a
नन्दामपरनन्दां च नद्यौ पापभयापहे KK03-06-110-001c
पर्वतं स समासाद्य हेमकूटमनामयम् KK03-06-110-002a
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः KK03-06-110-002c
वर्षो यत्राभवद्घोर उपलाश्च सहस्रशः KK03-06-110-003a
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः KK03-06-110-003c
वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति KK03-06-110-004a
स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते KK03-06-110-004c
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः KK03-06-110-005a
मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः KK03-06-110-005c
निर्वेदो जायते तत्र गृहाणि स्मरते जनः KK03-06-110-006a
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः KK03-06-110-006c
लोमशं पुनरेवाथ पर्यपृच्छत्तदद्भुतम् KK03-06-110-006e
यदेतद्भगवंश्चित्रं पर्वतेऽस्मिन्महौजसि KK03-06-110-007a
एतन्मे सर्वमाचक्ष्व विस्तरेण महाद्युते KK03-06-110-007c
लोमश उवाच KK03-06-110-008
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन KK03-06-110-008a
तदेकाग्रमना राजन्निबोध गदतो मम KK03-06-110-008c
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः KK03-06-110-009a
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् KK03-06-110-009c
स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह KK03-06-110-010a
य इह व्याहरेत्कश्चिदुपलानुत्सृजेत वा KK03-06-110-010c
वातं चाहूय मा शब्दमित्युवाच स तापसः KK03-06-110-011a
व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते KK03-06-110-011c
एवमेतानि कर्माणि राजंस्तेन महर्षिणा KK03-06-110-012a
कृतानि कानिचित्क्रोधात्प्रतिषिद्धानि कानिचित् KK03-06-110-012c
नन्दां त्वभिगता देवाः पुरा राजन्निति श्रुतिः KK03-06-110-013a
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः KK03-06-110-013c
तेनादर्शनमिच्छन्तो देवाः शक्रपुरोगमाः KK03-06-110-014a
दुर्गं चक्रुरिमं देशं गिरिं प्रत्यूहरूपकम् KK03-06-110-014c
तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा KK03-06-110-015a
नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम् KK03-06-110-015c
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः KK03-06-110-016a
आरोढुं वाऽपि कौन्तेय तस्मान्नियतवाग्भव KK03-06-110-016c
इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान् KK03-06-110-017a
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत KK03-06-110-017c
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् KK03-06-110-018a
यूपप्रकारा बहवो वृक्षाश्चेमे विशाम्पते KK03-06-110-018c
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत KK03-06-110-019a
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः KK03-06-110-019c
इहाप्लुतानां कौन्तेय सद्यः पाप्माऽभिहन्यते KK03-06-110-020a
कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः KK03-06-110-020c
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि KK03-06-110-021a
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् KK03-06-110-021c
वैशम्पायन उवाच KK03-06-110-022
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः KK03-06-110-022a
जगाम कौशिकीं पुण्यां रम्यां शीतजलां शुभाम् KK03-06-110-022c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥ भावान्पदार्थान् वाचालाश्चाभवन्मेद्या इति ध. पाठः न च दृश्यतेऽध्येता निर्वेदो गिरिदर्शने वैराग्यम् मा शब्दं कुर्विति शेषः अन्वपद्यन्त अनुगतवन्तः देवदर्शिनो देवदर्शनार्थिनः प्रत्यूहरूपकं दर्शने विघ्नरूपम्