शङ्करेण भगीरथप्रार्थनया क्षितितलमभिपतन्त्या गङ्गाया धारणम् || भगीरथेन स्वपथानुगतया गङ्गया पितृभ्य उदकदानपूर्वकं सागरपूरणम्

लोमश उवाच KK03-06-109-001
भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् KK03-06-109-001a
एवमस्त्विति राजानं भगवान्प्रत्यभाषत KK03-06-109-001c
धारयिष्ये महाभाग गगनात्प्रच्युतां शिवाम् KK03-06-109-002a
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तमत KK03-06-109-002c
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् KK03-06-109-003a
संवृतः पार्षदैर्घोरैनानाप्रहरणोद्यतैः KK03-06-109-003c
तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह KK03-06-109-004a
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् KK03-06-109-004c
पितॄणां पावनार्थं ते तामहं मनुजाधिप KK03-06-109-005a
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् KK03-06-109-005c
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् KK03-06-109-006a
प्रयतः प्रणतो भूत्वा गङ्गां हि समचिन्तयत् KK03-06-109-006c
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता KK03-06-109-007a
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता KK03-06-109-007c
तां प्रच्युतामथो दृष्ट्वा देवाः सार्धं महर्षिभिः KK03-06-109-008a
गन्धर्वोरगयक्षाश्च समाजग्मुर्दिदृक्षवः KK03-06-109-008c
ततः पपात गगनाद्गङ्गा हिमवतः सुता KK03-06-109-009a
समुद्धान्तमहावर्ता मीनग्राहसमाकुला KK03-06-109-009c
तां दधार हरो राजन्गङ्गां गगनमेखलाम् KK03-06-109-010a
ललाटदेशे पतितां मालां मुक्तामयीमिव KK03-06-109-010c
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा KK03-06-109-011a
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः KK03-06-109-011c
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् KK03-06-109-012a
सा फेनपटसंवीता मत्तेव प्रमदाऽव्रजत् KK03-06-109-012c
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् KK03-06-109-013a
क्वचिदाकाशमावर्तैः सङ्क्षिपन्तीव सर्वशः KK03-06-109-013c
एवम्प्रकारान्सुबहून्कुर्वती गगनाच्च्युता KK03-06-109-014a
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् KK03-06-109-014c
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते KK03-06-109-015a
एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः KK03-06-109-015c
यत्र तानि शरीराणि सागराणां महात्मनाम् KK03-06-109-016a
प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च KK03-06-109-016c
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः KK03-06-109-017a
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह KK03-06-109-017c
समासाद्य समुद्रं च गङ्गया सहितो नृपः KK03-06-109-018a
पूरयामास वेगेन समुद्रं वरुणालयम् KK03-06-109-018c
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् KK03-06-109-019a
पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः KK03-06-109-019c
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा KK03-06-109-020a
पूरणार्थं समुद्रस्य पृथिवीमवतारिता KK03-06-109-020c
कालेयाश्च महाराज त्रिदशैर्विनिपातिताः KK03-06-109-021a
समुद्रश्च यथा पीतः कारणार्थं महात्मना KK03-06-109-021c
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो KK03-06-109-022a
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि KK03-06-109-022c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥