अध्यायः 108
दिलीपसुतेन भगीरथेन धरणीतलावतरणाय गङ्गाम्प्रति तपश्चरणम् ॥ 1 ॥ तथा धरणीतलमवतरन्त्या गङ्गाया वेगधारणाय तदाज्ञया तपसा शङ्करतोषणम् ॥ 2 ॥
लोमश उवाच KK03-06-108-001
स तु राजा महेष्वासश्चक्रवर्ती महारथः । KK03-06-108-001a
बभूव सर्वलोकस्य मनोनयननन्दनः ॥ KK03-06-108-001c
स शुश्राव महाबाहुः कपिलेन महात्मना । KK03-06-108-002a
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥ KK03-06-108-002c
स राज्यं सचिवे न्यस्य हृदयेन विदूयता । KK03-06-108-003a
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ KK03-06-108-003c
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः । KK03-06-108-004a
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥ KK03-06-108-004c
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम् । KK03-06-108-005a
पवनालम्बिभिर्मेघैः परिषिक्तं समन्ततः ॥ KK03-06-108-005c
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् । KK03-06-108-006a
गुहाकन्दरसल्ँलीनसिंहव्याघ्रनिषेवितम् ॥ KK03-06-108-006c
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । KK03-06-108-007a
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ KK03-06-108-007c
मयूरैः शतपत्रैश्च जीवञ्जीवककोकिलैः । KK03-06-108-008a
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥ KK03-06-108-008c
जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम् । KK03-06-108-009a
सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् ॥ KK03-06-108-009c
किन्नरैरप्सरोभिश्च निषेवितशिलातलम् । KK03-06-108-010a
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम् ॥ KK03-06-108-010c
विद्याधरानुचरितं नानारत्नसमाकुलम् । KK03-06-108-011a
विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् ॥ KK03-06-108-011c
क्वचित्कनकसङ्काशं क्वचिद्रजतसन्निभम् । KK03-06-108-012a
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥ KK03-06-108-012c
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः । KK03-06-108-013a
फलमूलाम्बुसम्भक्षः सहस्रपरिवत्सरान् ॥ KK03-06-108-013c
संवत्सरसहस्रे तु गते दिव्ये महानदी । KK03-06-108-014a
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ KK03-06-108-014c
गङ्गोवाच KK03-06-108-015
किमिच्छसि महाराज मत्तः किञ्च ददानि ते । KK03-06-108-015a
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ KK03-06-108-015c
एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम् । KK03-06-108-016a
'तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः' । KK03-06-108-016c
पितामहा मे वरदे कपिलेन महानदि ॥ KK03-06-108-016e
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् । KK03-06-108-017a
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ॥ KK03-06-108-017c
कपिलं देवमासाद्य क्षणेन निधनं गताः । KK03-06-108-018a
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ॥ KK03-06-108-018c
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि । KK03-06-108-019a
तावत्तेषां गतिर्नास्ति सागराणां महानदि ॥ KK03-06-108-019c
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् । KK03-06-108-020a
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ KK03-06-108-020c
लोमश उवाच KK03-06-108-021
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता । KK03-06-108-021a
भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥ KK03-06-108-021c
करिष्यामि माहाराज वचस्ते नात्र संशयः । KK03-06-108-022a
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ KK03-06-108-022c
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप । KK03-06-108-023a
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ KK03-06-108-023c
तं तोषय महाबाहो तपसा वरदं हरम् । KK03-06-108-024a
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥ KK03-06-108-024c
स करिष्यति ते कामं पितॄणां हितकाम्यया । KK03-06-108-025a
'तपसाऽऽराधितः शम्भुर्भगर्वाल्ँलोकभावनः' ॥ KK03-06-108-025c
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः । KK03-06-108-026a
कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ॥ KK03-06-108-026c
ततस्तेन समागम्य कालयोगेन केनचित् । KK03-06-108-027a
'गङ्गावतरणं राजन्नयाचत महीपतिः ॥ KK03-06-108-027c
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप । KK03-06-108-028a
स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः ॥ KK03-06-108-028c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥
3-108-22 गगनाच्च्युतं यथा भवति तथा पतन्त्याः । गगनाद्भुवमिति झ. पाठः ॥