अध्यायः 107

कपिलेन हयचोरत्वभ्रमेण स्वजिघांसूनां सर्वसागराणां नयनानलेन भस्मीकरणम् ॥ 1 ॥ सगरनिदेशान्निर्गतेनांशुमता कपिलप्रसादनेन हयानयनपूर्वकं पितामहयज्ञसमापनम् ॥ 2 ॥ सगर इवांशुमत्यपि स्वर्गते तत्सुतेन दिलीपेन गङ्गावतरणाय यतमानेनापि तदपारयतैव त्रिदिवगमनम् ॥ 3 ॥

लोमश उवाच KK03-06-107-001
*ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः । KK03-06-107-001a
अनादृत्य महात्मानं कपिलं कालचोदिताः ॥ KK03-06-107-001c
सङ्क्रुद्धाः सम्प्रधावन्त वाजिग्रहणकाङ्क्षिणः । KK03-06-107-002a
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ॥ KK03-06-107-002c
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् । KK03-06-107-003a
स चक्षुर्विकृतं कृत्वा तेजस्तेषु समुत्सृजन् ॥ KK03-06-107-003c
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् । KK03-06-107-004a
षष्टिं तानि सहस्राणि युगपन्मुनिसत्तमः ॥ KK03-06-107-004c
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः । KK03-06-107-005a
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥ KK03-06-107-005c
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् । KK03-06-107-006a
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ KK03-06-107-006c
'स पुत्रनिधनोत्थेन दुःखेन समभिप्लुतः । KK03-06-107-007a
आत्मानमात्मनाऽऽश्वास्य हयमेवान्वचिन्तयत्' ॥ KK03-06-107-007c
अंशुमन्तं समाहूय असमञ्जसुतं तदा । KK03-06-107-008a
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ KK03-06-107-008c
षष्टिस्तात सहस्राणि पुत्राणाममितौजसाम् । KK03-06-107-009a
कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥ KK03-06-107-009c
तव चापि पिता तात परित्यक्तो मयाऽनघ । KK03-06-107-010a
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥ KK03-06-107-010c
युधिष्ठिर उवाच KK03-06-107-011
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् । KK03-06-107-011a
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ KK03-06-107-011c
लोमश उवाच KK03-06-107-012
असमञ्ज इति ख्यातः सगरस्य सुतो ह्यभूत् । KK03-06-107-012a
यं शैब्या जनयामास पौराणां स हि दारकान् ॥ KK03-06-107-012c
'क्रीडतः सहसाऽऽसाद्य तत्रतत्र महीपते' । KK03-06-107-013a
चूडासु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥ KK03-06-107-013c
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः । KK03-06-107-014a
सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः ॥ KK03-06-107-014c
त्वं नस्त्राता महाराज परचक्रादिभिर्भयात् । KK03-06-107-015a
असमञ्जभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥ KK03-06-107-015c
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः । KK03-06-107-016a
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥ KK03-06-107-016c
असमञ्जः पुरादद्य सुतो मे विप्रवास्यताम् । KK03-06-107-017a
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥ KK03-06-107-017c
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप । KK03-06-107-018a
यथोक्तं त्वरिताश्चक्रुर्यथाऽऽज्ञापितवान्नृपः ॥ KK03-06-107-018c
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना । KK03-06-107-019a
पौराणां हितकामेन सगरेण विवासितः ॥ KK03-06-107-019c
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि । KK03-06-107-020a
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥ KK03-06-107-020c
सगर उवाच KK03-06-107-021
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च । KK03-06-107-021a
अलाभेन तथाऽश्वस्य परितप्यामि पुत्रक ॥ KK03-06-107-021c
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् । KK03-06-107-022a
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥ KK03-06-107-022c
लोमश उवाच KK03-06-107-023
अंशुमानेवमुक्तस्तु सगरेण महात्मना । KK03-06-107-023a
जगाम दुःखात्तं देशं यत्रवै दारिता मही ॥ KK03-06-107-023c
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह । KK03-06-107-024a
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥ KK03-06-107-024c
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् । KK03-06-107-025a
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ KK03-06-107-025c
ततः प्रीतो महाराज कपिलोंऽशुमतोऽभवत् । KK03-06-107-026a
उवाच चैनं धर्मात्मा वरदोस्मीति भारत ॥ KK03-06-107-026c
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् । KK03-06-107-027a
द्वितीयमुदकं वव्रे पितॄणां पावनेच्छया ॥ KK03-06-107-027c
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः । KK03-06-107-028a
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥ KK03-06-107-028c
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् । KK03-06-107-029a
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥ KK03-06-107-029c
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः । KK03-06-107-030a
'शलभत्वं गता ये ते मम क्रोधहुताशने' ॥ KK03-06-107-030c
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति । KK03-06-107-031a
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ KK03-06-107-031c
हयं नयस्व भद्रं ते याज्ञियं नरपुङ्गव । KK03-06-107-032a
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ KK03-06-107-032c
अंशुमानेवमुक्तस्तु कपिलेन महात्मना । KK03-06-107-033a
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ KK03-06-107-033c
सोभिवाद्य ततः पादौ सगरस्य महात्मनः । KK03-06-107-034a
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥ KK03-06-107-034c
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा । KK03-06-107-035a
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ KK03-06-107-035c
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् । KK03-06-107-036a
अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् ॥ KK03-06-107-036c
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः । KK03-06-107-037a
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥ KK03-06-107-037c
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः । KK03-06-107-038a
पौत्रे भारं समवेश्य जगाम त्रिदिवं तदा ॥ KK03-06-107-038c
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् । KK03-06-107-039a
प्रशशास महाराज यथैवास्य पितामहः ॥ KK03-06-107-039c
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् । KK03-06-107-040a
तस्मिन्राज्यं समाधाय अंशुमानपि संस्थितः ॥ KK03-06-107-040c
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् । KK03-06-107-041a
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ KK03-06-107-041c
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः । KK03-06-107-042a
न चावतारयामास चेष्टमानो यथाबलम् ॥ KK03-06-107-042c
तस् पुत्र समभवच्छ्रीमान्धर्मपराणः । KK03-06-107-043a
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ KK03-06-107-043c
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः ॥ KK03-06-107-044ac
तपःसिद्धिसमायोगात्स राजा भरतर्षभ । KK03-06-107-045a
वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥ KK03-06-107-045c
[ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः । KK03-06-107-046a
अनादृत्य महात्मानं कपिलं कालचोदिताः । KK03-06-107-046c
सङ्क्रुद्धाः समधावन्त कपिलं हन्तुमुद्यताः ॥ KK03-06-107-046e
तान्दृष्ट्वा हन्तुमुद्युक्तान्कपिलो रोषमूर्च्छितः । KK03-06-107-047a
सगरस्यात्मजान्सर्वान्ददाह क्षणतो नृप ॥ KK03-06-107-047c
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः । KK03-06-107-048a
सगरान्तिकमागत्य तच्च तस्मै न्यवेदयत् ॥ KK03-06-107-048c
एतच्छ्रुत्वा वचो राजा घोरं मुनिमुखोद्गतम् । KK03-06-107-049a
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ KK03-06-107-049c
अंशुमन्तं प्रेषयित्वा हयमानाय्य यत्नतः । KK03-06-107-050a
यज्ञं समाप्य विधिवन्सगरो भृशदुःखितः । KK03-06-107-050c
कृत्वांऽशुमति तद्राज्यं वनमेवान्वपद्यत ॥ KK03-06-107-050e
अंशुमानकरोद्राज्यं प्रजा धर्मेण रञ्जयन् । KK03-06-107-051a
दिलीपे राज्यमाधाय वनमेवान्वपद्यत ॥ KK03-06-107-051c
दिलीपोपि महाराज चिरं राज्यमकारयत् ॥ KK03-06-107-052ac
तस्य पुत्रो महीपाल भगीरथ इति श्रुतः । KK03-06-107-053a
धर्मज्ञश्च कृतज्ञश्च प्रजानामनुरञ्जकः ॥ KK03-06-107-053c
पितरि स्वर्गते राजन्दिलीपे पुण्यशालिनि । KK03-06-107-054a
भगीरथो महानासीद्राजा परमधार्मिकः ॥ KK03-06-107-054c
स चिरं तप आतिष्ठन्महादेवप्रसादतः । KK03-06-107-055a
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाश्रितावनिः ॥ KK03-06-107-055c
वायुभक्षो निराहारो भक्तियुक्तेन चेतसा । KK03-06-107-056a
तत आविरभूद्देवः पिनाकी वृषभध्वजः ॥ KK03-06-107-056c
परं ब्रह्म परं धाम परमात्मा सनातनः । KK03-06-107-057a
आनादिमध्यनिधनः शङ्करः सर्वपूजितः ॥ KK03-06-107-057c
भगीरथोपि तं दृष्ट्वा भगवन्तमुमापतिम् । KK03-06-107-058a
प्रणिपत्य महादेवमस्तौषीद्विविधैः स्तवैः ॥ KK03-06-107-058c
स्तुत्वा च विविधै स्तोत्रैः कृताञ्जलिपुटो नृपः । KK03-06-107-059a
अयाचत वरं देवं गङ्गाया धारणं प्रति ॥ KK03-06-107-059c
भगवंस्तपसा तुष्टो ब्रह्मा मे स्वर्गवासिनीम् । KK03-06-107-060a
गङ्गां सम्प्रेषयामीति ददौ वरमनुत्तमम् ॥ KK03-06-107-060c
तां वै धारयितुं शक्तं नान्यं पश्यामि शूलिनः । KK03-06-107-061a
तं तोषय महाराजेत्येवमुक्त्वा दिवं गतः ॥ KK03-06-107-061c
भवत्प्रसादसिद्ध्यर्थं तपस्तप्तं मया विभो । KK03-06-107-062a
भवता धृतया देव गङ्गया पूतया मम । KK03-06-107-062c
पितामहाश्च लोकाश्च सर्वे सद्गतिमाप्नुयुः ॥ KK03-06-107-063a
एवं सम्प्रार्थितो देवस्तथा चक्रे महेश्वरः ॥ KK03-06-107-063c
ब्रह्मणा समनुज्ञता गङ्गाऽपि क्रोधमूर्च्छिता । KK03-06-107-064a
विशाम्यहं तु पातालं स्रोतसा गृह्य शङ्करम् ॥ KK03-06-107-064c
इत्याग्रहान्महाराज शिवे शिवशिरस्युत । KK03-06-107-065a
पतित्वा तव बभ्राम बहून्वर्षान्विमोहिता । KK03-06-107-065c
तृणेऽवश्यायकणिका यथा तद्वत्स्थिता क्वचित् ॥ KK03-06-107-065e
तामदृष्ट्वाऽथ भूपालस्तोषयामास शङ्करम् । KK03-06-107-066a
पुनश्च व्यसृजद्देवो गङ्गां वै गूहितां नृप ॥ KK03-06-107-066c
प्रणिपत्य महादेवं पुरा राजा भगीरथः । KK03-06-107-067a
पितॄनाप्लावयामास सागरं चाप्यपूरयत् ॥ KK03-06-107-067c
तेऽपि स्वर्गं गता राजन्सगरस्यात्मजाः क्षणात् । KK03-06-107-068a
पितृभ्यश्चोदकं तत्र ददौ पूर्णमनोरथः ॥ KK03-06-107-068c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । KK03-06-107-069a
एवं स सागरो राजन्पूरितोऽगस्त्यदूषितः ॥] KK03-06-107-069c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥