अध्यायः 106
अश्वमेधे दीक्षितसगराज्ञया षष्टिसहस्रैस्तत्पुत्रैर्भुवं सञ्चारितस्याश्वस्य समुद्रतीरेऽन्तर्धानम् ॥ 1 ॥ पित्राज्ञया हयान्वेषणाय समुद्रतीरं खनद्भिः सागरैः पातालतले तपस्यतो भगवतः कपिलस्य तत्समीपचारिणो हयस्य च दर्शनम् ॥ 2 ॥
लोमश उवाच KK03-06-106-001
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः । KK03-06-106-001a
यथोक्तं तच्चराकाथ श्रद्दधद्भरतर्षभ ॥ KK03-06-106-001c
[एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः । KK03-06-106-002a
घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः ॥ KK03-06-106-002c
धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः । KK03-06-106-003a
ततः कालेन महता समुत्तस्थुर्महाबलाः ॥] KK03-06-106-003c
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः । KK03-06-106-004a
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥ KK03-06-106-004c
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः । KK03-06-106-005a
बहुत्वाच्चावजानन्तः सर्वाल्ँलोकान्सहामरान् ॥ KK03-06-106-005c
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् । KK03-06-106-006a
सर्वाणि चैव भूतानि शूरा समरशालिनः ॥ KK03-06-106-006c
वध्यमानास्तदा लोकाः सागरैर्मन्दबुद्धिभिः । KK03-06-106-007a
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ KK03-06-106-007c
तानुवाच महाभागः सर्वलोकपितामहः । KK03-06-106-008a
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥ KK03-06-106-008c
नातिदीर्घेण कालेन सागराणां क्षयो महान् । KK03-06-106-009a
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥ KK03-06-106-009c
एवमुक्तास्तु ते देवा लोकाश्च मनुजेश्वर । KK03-06-106-010a
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥ KK03-06-106-010c
ततः काले बहुतिथे व्यतीते भरतर्षभ । KK03-06-106-011a
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ॥ KK03-06-106-011c
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः । KK03-06-106-012a
'सर्वैरेव महोत्साहैः स्वच्छन्दप्रचरो नृप' ॥ KK03-06-106-012c
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् । KK03-06-106-013a
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥ KK03-06-106-013c
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् । KK03-06-106-014a
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् । KK03-06-106-014c
तेनोक्ता दिक्षु सर्वासु पुत्रा मार्गत वाजिनम् ॥ KK03-06-106-014e
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् । KK03-06-106-015a
अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥ KK03-06-106-015c
ततस्ते सागराः सर्वे समुपेत्य परस्परम् । KK03-06-106-016a
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥ KK03-06-106-016c
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ॥ KK03-06-106-017ac
ससमुद्रवनद्वीपा सनदीनदकन्दरा । KK03-06-106-018a
सपर्वतवनोद्देशा निखिलेन मही नृप ॥ KK03-06-106-018c
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव । KK03-06-106-019a
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥ KK03-06-106-019c
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्च्छितः । KK03-06-106-020a
उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥ KK03-06-106-020c
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् । KK03-06-106-021a
याज्ञियं तं विनाह्यश्वं नागन्तव्यं हि पुत्रकाः ॥ KK03-06-106-021c
प्रतिगृह्य तु सन्देशं पितुस्ते सगरात्मजाः । KK03-06-106-022a
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥ KK03-06-106-022c
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् । KK03-06-106-023a
'समुद्रे पृथिवीपाल पदं मार्गं च वाजिनः' ॥ KK03-06-106-023c
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः । KK03-06-106-024a
कुद्दालैर्मुसलैश्चैव समुद्रं यत्नमास्थिताः ॥ KK03-06-106-024c
स खन्यमानः सहितैः सागरैर्वरुणालयः । KK03-06-106-025a
अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः ॥ KK03-06-106-025c
असुरोरगरक्षांसि सत्वानि विविधानि च । KK03-06-106-026a
आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥ KK03-06-106-026c
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः । KK03-06-106-027a
प्राणिनः समदृश्यन्त शतशोथ सहस्रशः ॥ KK03-06-106-027c
एवं हि खनतां तेषां समुद्रं वरुणालयम् । KK03-06-106-028a
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥ KK03-06-106-028c
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते । KK03-06-106-029a
विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः ॥ KK03-06-106-029c
अपश्यन्त हयं यत्र विचरन्तं महीतले । KK03-06-106-030a
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ॥ KK03-06-106-030c
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम् । KK03-06-106-031a
'दृष्ट्वा हि विस्मिताः सर्वे बभूवुः सगरात्मजाः' ॥ KK03-06-106-031c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥
3-106-29 पूर्वोत्तरे ऐशान्याम् ॥