अध्यायः 105

ब्रह्मणा देवान्प्रति भगीरथेन समुद्रपूरणकथनम् ॥ 1 ॥ युधिष्ठिरेण तत्प्रकारम् पृष्टेन लोमशेन तदुपोद्घाततया सगरस्य भार्याद्वये पुत्रलाभप्रकारकथनम् ॥ 2 ॥

लोमश उवाच KK03-06-105-001
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः । KK03-06-105-001a
'निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा' ॥ KK03-06-105-001c
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् । KK03-06-105-002a
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ॥ KK03-06-105-002c
ज्ञातींश्च कारणं कृत्वा महाराजो भगीरथः । KK03-06-105-003a
'पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम्' ॥ KK03-06-105-003c
पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः । KK03-06-105-004a
कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम् ॥ KK03-06-105-004c
युधिष्ठिर उवाच KK03-06-105-005
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने । KK03-06-105-005a
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ KK03-06-105-005c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । KK03-06-105-006a
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ KK03-06-105-006c
वैशम्पायन उवाच KK03-06-105-007
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना । KK03-06-105-007a
कथयामास माहात्म्यं सगरस्य महात्मनः ॥ KK03-06-105-007c
लोमश उवाच KK03-06-105-008
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः । KK03-06-105-008a
रूपसत्वबलोपेतः स चापुत्रः प्रतापवान् ॥ KK03-06-105-008c
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत । KK03-06-105-009a
वशे च कृत्वा राजन्यान्स्वराज्यमनुशिष्टवान् ॥ KK03-06-105-009c
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते । KK03-06-105-010a
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥ KK03-06-105-010c
सपुत्रकामो नृपतिस्तप्यते स्म महत्तपः । KK03-06-105-011a
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ KK03-06-105-011c
स तप्यमानः सुमहत्तपोयोगसमन्वितः । KK03-06-105-012a
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥ KK03-06-105-012c
शङ्करं भवमीशानं पिनाकिं शूलपाणिनम् । KK03-06-105-013a
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ KK03-06-105-013c
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः । KK03-06-105-014a
प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत ॥ KK03-06-105-014c
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् । KK03-06-105-015a
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ KK03-06-105-015c
षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः । KK03-06-105-016a
एकस्यां सम्भविष्यन्ति पत्न्यां नरवरोत्तम ॥ KK03-06-105-016c
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव । KK03-06-105-017a
एको वंशधरः शूर एकस्यां सम्भविष्यति ॥ KK03-06-105-017c
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत । KK03-06-105-018a
स चापि सगरो राजा जगाम स्वं निवेशनम् ॥ KK03-06-105-018c
पत्नीभ्यां सहितस्तत्र सोऽतिहृष्टमनास्तदा । KK03-06-105-019a
'कालं शम्भुवरप्राप्तं प्रतीक्षन्सगरोऽनयत्' ॥ KK03-06-105-019c
तस्य ते मनुजश्रेष्ठ भार्ये कमललोचने । KK03-06-105-020a
वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः ॥ KK03-06-105-020c
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत । KK03-06-105-021a
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥ KK03-06-105-021c
तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः । KK03-06-105-022a
अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिःस्वनाम् ॥ KK03-06-105-022c
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि । KK03-06-105-023a
अलाबुमध्यान्निष्कृष्य वीजं यत्नेन गोप्यताम् ॥ KK03-06-105-023c
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः । KK03-06-105-024a
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ KK03-06-105-024c
महादेवेन दिष्टं ते पुत्रजन्म नराधिप । KK03-06-105-025a
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ KK03-06-105-025c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥