अध्यायः 104
अगस्त्येन समुद्रसलिले निपीते देवैर्दैत्यहननम् ॥ 1 ॥ देवैः पुनरर्णवपूरणाय पीतोदकोत्सर्जनम् प्रार्थितेनागस्त्येन तस्य स्वेन जीर्णीकरणोक्तौ तदर्थं ब्रह्माणम्प्रति प्रार्थनम् ॥ 2 ॥
लोमश उवाच KK03-06-104-001
समुद्रं स समासाद्य वारुणिर्भगवानृषिः । KK03-06-104-001a
उवाच सहितान्देवानृषींश्चैव समागतान् ॥ KK03-06-104-001c
एष लोकहितार्थं वै पिबामि वरुणालयम् । KK03-06-104-002a
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ KK03-06-104-002c
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः । KK03-06-104-003a
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥ KK03-06-104-003c
पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदाऽमराः । KK03-06-104-004a
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ KK03-06-104-004c
त्वं नस्त्राता विधाता च लोकानां लोकभावन । KK03-06-104-005a
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥ KK03-06-104-005c
स पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः । KK03-06-104-006a
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार ॥ KK03-06-104-006c
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः । KK03-06-104-007a
प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्वाः ॥ KK03-06-104-007c
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगिभिरुन्नदद्भिः । KK03-06-104-008a
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम् ॥ KK03-06-104-008c
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः । KK03-06-104-009a
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ॥ KK03-06-104-009c
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः । KK03-06-104-010a
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ KK03-06-104-010c
तेहेमनिष्काभरणाः कुण्डलाङ्गदधारिणः । KK03-06-104-011a
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ KK03-06-104-011c
हतशेषास्ततः केचित्कालेया मनुजोत्तम । KK03-06-104-012a
विदार्य वसुधां देवीं पातालतलमास्थिताः ॥ KK03-06-104-012c
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् । KK03-06-104-013a
तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन् ॥ KK03-06-104-013c
त्वत्प्रसादान्महाबाहो लोकैः प्राप्तं महत्सुखम् । KK03-06-104-014a
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥ KK03-06-104-014c
पूरस्व महाबाहो समुद्रं लोकभावन । KK03-06-104-015a
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥ KK03-06-104-015c
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः । KK03-06-104-016a
'तांस्तदा सहितान्देवानगस्त्यःसपुरन्दरान्' ॥ KK03-06-104-016c
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् । KK03-06-104-017a
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥ KK03-06-104-017c
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः । KK03-06-104-018a
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ KK03-06-104-018c
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् । KK03-06-104-019a
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥ KK03-06-104-019c
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् । KK03-06-104-020a
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥ KK03-06-104-020c
ते धातारमुपागम्य त्रिदशाः सह विष्णुना । KK03-06-104-021a
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ KK03-06-104-021c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥