अध्यायः 103
लोमशेन युधिष्ठिरम्प्रति विन्ध्यगिरेरभिवृद्धेरगस्त्येन तन्निरोधस्य च हेतुकथनम् ॥ 1 ॥ देवैः समुद्रशोषणं प्रार्थितेनागस्त्येन तैःसह समुद्रम्प्रति गमनम् ॥ 2 ॥
युधिष्ठिर उवाच KK03-06-103-001
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः । KK03-06-103-001a
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ KK03-06-103-001c
लोमश उवाच KK03-06-103-002
अद्रिराजं महाघोरं मेरुं कनकपर्वतम् । KK03-06-103-002a
उदयास्तमने भानुः प्रदक्षिणमवर्तत ॥ KK03-06-103-002c
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् । KK03-06-103-003a
यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥ KK03-06-103-003c
प्रदक्षिणश्च क्रियते मामेवं कुरु भास्कर । KK03-06-103-004a
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत ॥ KK03-06-103-004c
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् । KK03-06-103-005a
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥ KK03-06-103-005c
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाऽचलः । KK03-06-103-006a
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ॥ KK03-06-103-006c
ततो देवाः सहिताः सर्व एव सेन्द्राः समागम्य महाद्रिराजम् । KK03-06-103-007a
निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार ॥ KK03-06-103-007c
अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम् । KK03-06-103-008a
अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते ॥ KK03-06-103-008c
सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा । KK03-06-103-009a
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ॥ KK03-06-103-009c
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम । KK03-06-103-010a
ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥ KK03-06-103-010c
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् । KK03-06-103-011a
सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥ KK03-06-103-011c
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम । KK03-06-103-012a
दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित् ॥ KK03-06-103-012c
यावदागमनं मह्यं तावत्त्वं प्रतिपालय । KK03-06-103-013a
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥ KK03-06-103-013c
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन । KK03-06-103-014a
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥ KK03-06-103-014c
विन्ध्योऽपि तद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते । KK03-06-103-015a
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि ॥ KK03-06-103-015c
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः । KK03-06-103-016a
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥ KK03-06-103-016c
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् । KK03-06-103-017a
किमर्थमभियाताः स्थ वरं मत्तः कमिच्छथ ॥ KK03-06-103-017c
एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन् । KK03-06-103-018a
'सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः' ॥ KK03-06-103-018c
एवं त्वयोच्छाम कृतं हि कार्यं महार्णवं पीयमानं महात्मन् । KK03-06-103-019a
ततो वधिष्याम सहानुबन्धान्कालोपसृष्टान्सुरविद्विषस्तान् ॥ KK03-06-103-019c
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् । KK03-06-103-020a
करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥ KK03-06-103-020c
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरिताम्पतिम् । KK03-06-103-021a
ऋषिभिश्च तपःसिद्धै सार्धं देवैश्च सुव्रत ॥ KK03-06-103-021c
मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा । KK03-06-103-022a
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥ KK03-06-103-022c
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःस्वनम् । KK03-06-103-023a
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥ KK03-06-103-023c
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च । KK03-06-103-024a
तानाग्राहसमाकीर्णं नानाद्विजगणान्वितम् ॥ KK03-06-103-024c
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः । KK03-06-103-025a
ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥ KK03-06-103-025c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥