अध्यायः 102

विष्णुना समुद्रान्तर्हितदैत्यनिधने समुद्रशोपणस्योपायत्वं ज्ञापितैर्देवैर्ब्रह्मलोकगमनम् ॥ 1 ॥ ब्रह्मचोदनया देवैरगस्त्यमेत्य सागरशोषणप्रार्थनम् ॥ 2 ॥

देवा ऊचुः KK03-06-102-001
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः । KK03-06-102-001a
ता भाविता भावयनति हव्यकव्यैर्दिवौकसः ॥ KK03-06-102-001c
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः । KK03-06-102-002a
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ KK03-06-102-002c
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् । KK03-06-102-003a
न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः ॥ KK03-06-102-003c
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति । KK03-06-102-004a
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ KK03-06-102-004c
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते । KK03-06-102-005a
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ KK03-06-102-005c
विष्णुरुवाच KK03-06-102-006
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् । KK03-06-102-006a
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ KK03-06-102-006c
कालेया इति विख्याता गणाः परमदारुणाः । KK03-06-102-007a
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम् ॥ KK03-06-102-007c
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता । KK03-06-102-008a
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ KK03-06-102-008c
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् । KK03-06-102-009a
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह ॥ KK03-06-102-009c
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते । KK03-06-102-010a
समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् ॥ KK03-06-102-010c
'एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम् । KK03-06-102-011a
विष्णुमेव पुरस्कृत्य ब्रह्माणं समुपस्थिताः ॥ KK03-06-102-011c
ततस्ते प्रणता भूत्वा तमेवार्थं न्यवेदयन् । KK03-06-102-012a
सर्वलोकविनाशार्थं कालेयाः कृतनिश्चयाः ॥ KK03-06-102-012c
एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः । KK03-06-102-013a
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः ॥ KK03-06-102-013c
विदितं मे सुराः सर्वे दानवानां विचेष्टितम् । KK03-06-102-014a
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः ॥ KK03-06-102-014c
क्षयस्तेषामनुप्राप्तः कालेनोपहताश्च ये । KK03-06-102-015a
उपायं सम्प्रवक्ष्यामि समुद्रस्य विशोषणे ॥ KK03-06-102-015c
अगस्त्य इति विख्यातो वारुणिः सुसमाहितः । KK03-06-102-016a
तमुपागम्य सहिता इममर्थं प्रयाचत ॥ KK03-06-102-016c
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम्' । KK03-06-102-017a
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥ KK03-06-102-017c
अन्यथा हि न शक्यास्ते विना सागरशोषणम् । KK03-06-102-018a
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ ॥ KK03-06-102-018c
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः । KK03-06-102-019a
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ॥ KK03-06-102-019c
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् । KK03-06-102-020a
उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥ KK03-06-102-020c
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् । KK03-06-102-021a
आश्रमस्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः ॥ KK03-06-102-021c
देवा ऊचुः KK03-06-102-022
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा । KK03-06-102-022a
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ KK03-06-102-022c
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः । KK03-06-102-023a
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ KK03-06-102-023c
तमसा चावृते लोके मृत्युनाऽभ्यर्दिताः प्रजाः । KK03-06-102-024a
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ KK03-06-102-024c
अस्माकं भयभीतानां नित्यशो भगवान्गतिः । KK03-06-102-025a
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि ॥ KK03-06-102-025c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

3-102-1 चतुर्विधाः सुरनरतिर्यक्स्थावराः । दिवौकसः देवान् ॥ 3-102-20 वारुणिं मैत्रावरुणपुत्रम् ॥ 3-102-23 कोधात्प्रवृद्धस्तरसा भास्करस्य नगोतम इति झ. पाठः ॥