अध्यायः 101

समुद्रान्तर्हितैर्दैत्यै रात्रौ रात्रौ बहिर्निर्गत्याश्रमेषु ऋषिगणेषु निहतेषु देवगणैर्नारायणस्य शरणीकरणम् ॥ 1 ॥

लोमश उवाच KK03-06-101-001
समुद्रं ते समाश्रित्य वरुणं निधिमम्भसः । KK03-06-101-001a
कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ KK03-06-101-001c
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् । KK03-06-101-002a
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥ KK03-06-101-002c
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः । KK03-06-101-003a
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः ॥ KK03-06-101-003c
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् । KK03-06-101-004a
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ KK03-06-101-004c
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा । KK03-06-101-005a
'कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान्' ॥ KK03-06-101-005c
भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः । KK03-06-101-006a
वाय्वाहाराम्बुभक्षाश्च विंशतिः सन्निषूदिताः ॥ KK03-06-101-006c
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा । KK03-06-101-007a
निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात् । KK03-06-101-007c
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ KK03-06-101-007e
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम । KK03-06-101-008a
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ KK03-06-101-008c
'क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् ॥ KK03-06-101-009ac
प्रभाते समदृश्यन्त नियताहारकर्शिताः । KK03-06-101-010a
महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥ KK03-06-101-010c
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः । KK03-06-101-011a
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ KK03-06-101-011c
लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च । KK03-06-101-012a
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ KK03-06-101-012c
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् । KK03-06-101-013a
जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ KK03-06-101-013c
एवं सङ्क्षीयमाणाश्च मानवा मनुजेश्वर । KK03-06-101-014a
आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ॥ KK03-06-101-014c
केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः । KK03-06-101-015a
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् ॥ KK03-06-101-015c
केचिदत्र महेष्वासाः शूराः परमहर्षिताः । KK03-06-101-016a
मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥ KK03-06-101-016c
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् । KK03-06-101-017a
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ KK03-06-101-017c
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये । KK03-06-101-018a
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥ KK03-06-101-018c
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ॥ KK03-06-101-019ac
शरण्यं शरणं देवं नारायणमजं विभुम् । KK03-06-101-020a
तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम् । KK03-06-101-020c
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम् ॥ KK03-06-101-020e
त्वं नः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो । KK03-06-101-021a
त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति । KK03-06-101-021c
'त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते' ॥ KK03-06-101-021e
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण । KK03-06-101-022a
वाराहं वपुराश्रित्य जगदर्थे समुद्धृता ॥ KK03-06-101-022c
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा । KK03-06-101-023a
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ KK03-06-101-023c
अवध्यः सर्वभूतानां बलिश्चापि महासुरः । KK03-06-101-024a
वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ॥ KK03-06-101-024c
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः । KK03-06-101-025a
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ KK03-06-101-025c
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते । KK03-06-101-026a
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ KK03-06-101-026c
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे । KK03-06-101-027a
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् । KK03-06-101-027c
'शरणागतसन्त्राणे त्वमेकोऽसि दृढव्रतः' ॥ KK03-06-101-027e

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥

3-101-1 निश्चित्यैवमसुरा वज्रसंहारदुःखिता इति क. पाठः. कालेयाः कालायाः कश्यपभार्यायाः पुत्राः ॥ 1 ॥ 3-101-7 सृष्टाः मृत्युना ग्रस्ताः ॥ 3-101-16 दानवानां वधायेति शेषः ॥ 3-101-21 इङ्गति चलतीति इङ्गं पचाद्यच् जङ्गमम् । नेङ्गति स्थावरम् ॥