अध्यायः 100

इन्द्रेण वृत्रहननम् ॥ 1 ॥ ततो देवगणाभिपीडनात्समुद्रं प्रविष्टैर्दैत्यैर्जगद्विनाशनाध्यवसायः ॥ 2 ॥

लोमश उवाच KK03-06-100-001
ततः स वज्री बलभिद्दैवतैरभिरक्षितः । KK03-06-100-001a
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ KK03-06-100-001c
कालकेयैर्महाकायैः समन्तादभिरक्षितम् । KK03-06-100-002a
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ KK03-06-100-002c
ततो युद्धं समभवद्देवानां दानवैः सह । KK03-06-100-003a
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ KK03-06-100-003c
उद्यतप्रतिविद्धानां खड्गानां वीरबाहुभिः । KK03-06-100-004a
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥ KK03-06-100-004c
शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम् । KK03-06-100-005a
तालैरिव महाराज वृन्ताद्भ्रष्टैरदृश्यत ॥ KK03-06-100-005c
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः । KK03-06-100-006a
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ KK03-06-100-006c
तेषां वेगवतां वेगं सहितानां प्रधावताम् । KK03-06-100-007a
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ KK03-06-100-007c
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः । KK03-06-100-008a
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ KK03-06-100-008c
तं शक्तं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः । KK03-06-100-009a
जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम् ॥ KK03-06-100-009c
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः । KK03-06-100-010a
स्वतेजो व्यदधच्छक्रे बलमस्य विवर्धयन् ॥ KK03-06-100-010c
विष्णुना गोपितं शक्रं दृष्ट्वा देवगणास्ततः । KK03-06-100-011a
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ KK03-06-100-011c
स समाप्यायितः शक्रो विष्णुना दैवतैः सह । KK03-06-100-012a
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ KK03-06-100-012c
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् । KK03-06-100-013a
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ KK03-06-100-013c
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् । KK03-06-100-014a
भये निमग्नस्त्वरितो मुमोच वज्रं महत्तस्य वधाय राजन् ॥ KK03-06-100-014c
स चक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी । KK03-06-100-015a
यथा महाशैलवरः पुरस्तात्स मन्दरो विष्णुकराद्विमुक्तः ॥ KK03-06-100-015c
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् । KK03-06-100-016a
वज्रं न मेने स्वकराद्विमुक्तं वृत्रं भयाच्चापि हतं न मेने ॥ KK03-06-100-016c
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः । KK03-06-100-017a
'वृत्रं हतं सन्ददृशुः पृथिव्यां वज्राहतं शैलमिवावदीर्णम् ॥ KK03-06-100-017c
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् । KK03-06-100-018a
ते वध्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः ॥ KK03-06-100-018c
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च । KK03-06-100-019a
तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिप्रयत्नात् ॥ KK03-06-100-019c
तत्रस्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपयानुपवर्णयन्ति । KK03-06-100-020a
तेषां तु तत्र क्रमकालयोगाद्घोरा मतिश्चिन्तयतां बभूव ॥ KK03-06-100-020c
ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः । KK03-06-100-021a
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ॥ KK03-06-100-021c
ये सन्ति केचिच्च वसुन्धरायां तपस्विनो धर्मविदश्च तज्ज्ञाः । KK03-06-100-022a
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ KK03-06-100-022c
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः । KK03-06-100-023a
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥ KK03-06-100-023c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि शततमोऽध्यायः ॥ 100 ॥

3-100-1 रोदसी द्यावापृथिव्यौ ॥ 3-100-5 तालैस्तालफलैः ॥ 3-100-10 व्यदधत् निहितवान् ॥ 3-100-13 बलस्थं बलवन्तम् ॥ 3-100-16 हतमपि वृत्रं भयात् न हतमिव मेने ॥ 3-100-21 ध्रियन्ते जीवन्ति ॥ 3-100-23 गतबुद्धिभावाः प्राप्तधीनिश्चयाः । वरुणस्यालयं समुद्रम् ॥