अध्यायः 099
वृत्रासुरनिपीडितशक्रादिभिर्ब्रह्मवचनाद्वज्रनिर्माणाय दधीचम्प्रति तच्छरीरास्थिप्रार्थनम् ॥ 1 ॥ त्वष्ट्रा दधीचास्थिभिर्वज्रायुधनिर्माणम् ॥ 2 ॥
युधिष्ठिर उवाच KK03-06-099-001
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः । KK03-06-099-001a
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ॥ KK03-06-099-001c
लोमश उवाच KK03-06-099-002
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् । KK03-06-099-002a
अगस्त्यस्य महाराज प्रभावममितौजसः ॥ KK03-06-099-002c
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः । KK03-06-099-003a
कालकेया इति ख्याता गणाः परमदारुणाः ॥ KK03-06-099-003c
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः । KK03-06-099-004a
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ KK03-06-099-004c
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा । KK03-06-099-005a
पुरन्दरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥ KK03-06-099-005c
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह । KK03-06-099-006a
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ KK03-06-099-006c
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ । KK03-06-099-007a
दधीच इति विख्यातो महानृषिरुदारधीः ॥ KK03-06-099-007c
तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत । KK03-06-099-008a
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ KK03-06-099-008c
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः । KK03-06-099-009a
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ॥ KK03-06-099-009c
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति । KK03-06-099-010a
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम् ॥ KK03-06-099-010c
महच्छत्रुहणं घोरं षडश्रं भीमनिःस्वनम् । KK03-06-099-011a
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ॥ KK03-06-099-011c
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् । KK03-06-099-012a
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ॥ KK03-06-099-012c
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः । KK03-06-099-013a
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ॥ KK03-06-099-013c
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव । KK03-06-099-014a
पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् ॥ KK03-06-099-014c
महिषैश्च वराहैश्च सृमरैश्चमरैरपि । KK03-06-099-015a
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ KK03-06-099-015c
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः । KK03-06-099-016a
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ KK03-06-099-016c
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् । KK03-06-099-017a
अपरैश्चापि सल्ँलीनैर्गुहाकन्दरशायिभिः ॥ KK03-06-099-017c
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् । KK03-06-099-018a
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ KK03-06-099-018c
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् । KK03-06-099-019a
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम् ॥ KK03-06-099-019c
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च । KK03-06-099-020a
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ KK03-06-099-020c
ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच । KK03-06-099-021a
करोमि यद्वो हितमद्य देवाः स्वं चापि देहं स्वयमुत्सृजामि ॥ KK03-06-099-021c
स एवमुक्त्वा द्विपदांवरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज । KK03-06-099-022a
ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम् ॥ KK03-06-099-022c
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः । KK03-06-099-023a
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ KK03-06-099-023c
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः । KK03-06-099-024a
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ KK03-06-099-024c
ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः । KK03-06-099-025a
त्वष्ट्रा तथोक्तस्तु पुरन्दरस्तद्वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात् ॥ KK03-06-099-025c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥
3-99-3 कालेया इति विख्याता इति क. पाटः ॥ 3-99-8 स वो दास्यति ईप्सितमिति शेषः . । 3-99-11 षडश्रं षट्रकोणम् ॥ 3-99-16 करेणुभिर्हस्तिनीभिः प्रभिन्नं मदस्राविकरटामदोद्भेदस्थानं गण्डस्थलैकदेशस्तस्य मुखमुपरिभागो तेषां तैः ॥ 3-99-18 त्रिविष्टपसमप्रख्यं स्वर्गतुल्यप्रकाशम् ॥ 3-99-22 परासोः गतप्राणस्य ॥