अध्यायः 098

युधिष्ठिरेण भृगुतीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरम्प्रति परशुरामस्य दाशरथिरामेण तेजोहरणप्रकारकथनम् ॥ 2 ॥ तथा परशुरामस्य पितृनिदेशाद्भृगुतीर्थनिमज्जनेन पुनस्तेजोलाभकथनम् ॥ 3 ॥

[लोमश उवाच KK03-06-098-001
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम् । KK03-06-098-001a
भृगोस्तीर्थं महाराज महर्षिगणसेवितम् ॥ KK03-06-098-001c
यत्रोपस्पृष्टवान्रामो हृतं तेजस्तदाप्तवान् । KK03-06-098-002a
अत्र त्वं भ्रातृभिः सार्धं कृष्णया चैव पाण्डव ॥ KK03-06-098-002c
दुर्योधनहृतं तेजः पुनरादातुमर्हसि । KK03-06-098-003a
कृतवैरेण रामेण यथा चोपहृतं पुनः ॥ KK03-06-098-003c
वैशम्पायन उवाच KK03-06-098-004
स तत्र भ्रातृभिश्चैव कृष्णया चैव पाण्डवः । KK03-06-098-004a
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत ॥ KK03-06-098-004c
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ । KK03-06-098-005a
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ ॥ KK03-06-098-005c
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः । KK03-06-098-006a
भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो । KK03-06-098-006c
कथं प्रत्याहृतं चैव एतदाचक्ष्व पृच्छतः ॥ KK03-06-098-006e
लोमश उवाच KK03-06-098-007
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः । KK03-06-098-007a
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः ॥ KK03-06-098-007c
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै । KK03-06-098-008a
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः ॥ KK03-06-098-008c
ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः । KK03-06-098-009a
तस्य दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः ॥ KK03-06-098-009c
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः । KK03-06-098-010a
धनुरादाय तद्दिव्यं क्षत्त्रियाणां निबर्हणम् । KK03-06-098-010c
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ॥ KK03-06-098-010e
तं वै दशरथः श्रुत्वा विषयान्तमुपागतम् । KK03-06-098-011a
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ॥ KK03-06-098-011c
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् । KK03-06-098-012a
प्रहसन्निव कौन्तेय रामो वचनमब्रवीत् ॥ KK03-06-098-012c
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो । KK03-06-098-013a
समारोपय यत्नेन यदि शक्नोषि पार्थिव ॥ KK03-06-098-013c
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि । KK03-06-098-014a
नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु । KK03-06-098-014c
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् ॥ KK03-06-098-014e
तमेवं वादिनं तत्र रामो वचनमब्रवीत् । KK03-06-098-015a
अलं वै व्यपदेशेन धनुरायच्छ राघव ॥ KK03-06-098-015c
ततो जग्राह रोषेण क्षत्रियर्षभसूदनम् । KK03-06-098-016a
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् ॥ KK03-06-098-016c
धनुरारोपयामास सलील इव भारत । KK03-06-098-017a
ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान् । KK03-06-098-017c
तस्य शब्दस्य भूतानि वित्रसन्त्यशनेरिव ॥ KK03-06-098-017e
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा । KK03-06-098-018a
इदमारोपितं ब्रह्मन्किमन्यत्करवाणि ते ॥ KK03-06-098-018c
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः । KK03-06-098-019a
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥ KK03-06-098-019c
लोमश उवाच KK03-06-098-020
एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना । KK03-06-098-020a
श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव ॥ KK03-06-098-020c
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः । KK03-06-098-021a
पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम् । KK03-06-098-021c
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ॥ KK03-06-098-021e
ततो रामशरीरे वै रामः पश्यति भार्गवः । KK03-06-098-022a
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ॥ KK03-06-098-022c
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा । KK03-06-098-023a
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ॥ KK03-06-098-023c
ऋषयो वालखिल्याश्च ब्रह्मभूताः सनातनाः । KK03-06-098-024a
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ॥ KK03-06-098-024c
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः । KK03-06-098-025a
चेतोमन्ति च सामानि धनुर्वेदश्च भारत । KK03-06-098-025c
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर ॥ KK03-06-098-025e
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह । KK03-06-098-026a
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत ॥ KK03-06-098-026c
पांसुवर्षेण महता मेघवर्षैश्च भूतलम् । KK03-06-098-027a
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि ॥ KK03-06-098-027c
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् । KK03-06-098-028a
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः ॥ KK03-06-098-028c
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् । KK03-06-098-029a
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ॥ KK03-06-098-029c
विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः । KK03-06-098-030a
भीतस्तु तत्र न्यवसद्व्रीडितस्तु महातपाः ॥ KK03-06-098-030c
ततः संवत्सरेऽतीते हृतौजसमवस्थितम् । KK03-06-098-031a
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥ KK03-06-098-031c
न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम् । KK03-06-098-032a
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ॥ KK03-06-098-032c
गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम् । KK03-06-098-033a
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ॥ KK03-06-098-033c
दीप्तोदं नाम तत्तीर्थं यत्र ते प्रतितामहः । KK03-06-098-034a
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ॥ KK03-06-098-034c
तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः । KK03-06-098-035a
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन ॥ KK03-06-098-035c
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा । KK03-06-098-036a
प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा ॥ KK03-06-098-036c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

3-98-2 रामो जामदग्यः । हृतं दाशरथिरामेण ॥ 3-98-5 तस्य युधिष्ठिरस्य । तीर्थस्य तीर्थे स्नातस्य ॥ 3-98-6 वपुः तेजः ॥ 3-98-9 दाशरथेः । कर्मणि षष्ठी ॥ 3-98-15 व्यपदेशेन उक्त्या ॥ 3-98-25 चेतोमन्ति चेतनावन्ति । आर्षं पदत्वप्रयुक्तं रुत्वम् । चेतस्वन्तीत्यपेक्षितम् ॥