अध्यायः 096

धनयाचनाय श्रुतर्वादिनृपत्रयमुपगतेनागस्त्येन तद्धनानां समायव्ययतापरिज्ञानेन तैःसह इल्वलम् प्रति गमनम् ॥ 1 ॥

लोमश उवाच KK03-06-096-001
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु । KK03-06-096-001a
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ KK03-06-096-001c
स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम् । KK03-06-096-002a
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥ KK03-06-096-002c
तस्मै चार्घ्यं थान्यायमानीय पृथिवीपतिः । KK03-06-096-003a
प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ॥ KK03-06-096-003c
अगस्त्य उवाच KK03-06-096-004
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते । KK03-06-096-004a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥ KK03-06-096-004c
लोमश उवाच KK03-06-096-005
तत आयव्ययौ पूर्णो तस्मै राजा न्यवेदयत् । KK03-06-096-005a
अतो विद्वन्नुपादत्स्व यदत्र व्यतिरिच्यते ॥ KK03-06-096-005c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । KK03-06-096-006a
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ KK03-06-096-006c
स श्रुतर्वाणमादाय ब्रध्नश्वमगमत्ततः । KK03-06-096-007a
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥ KK03-06-096-007c
तयोरर्घ्यं च पाद्यं च ब्रध्नश्वः प्रत्यवेदयत् । KK03-06-096-008a
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे । KK03-06-096-008c
'वद कामं मुनिश्रेष्ठ धन्योस्म्यागमनेन ते' ॥ KK03-06-096-008e
अगस्त्य उवाच KK03-06-096-009
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते । KK03-06-096-009a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥ KK03-06-096-009c
लोमश उवाच KK03-06-096-010
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् । KK03-06-096-010a
अतो ज्ञात्वा तु गृह्णीतं यदत्र व्यतिरिच्यते ॥ KK03-06-096-010c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । KK03-06-096-011a
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ KK03-06-096-011c
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् । KK03-06-096-012a
अगस्त्यश्च श्रुतर्वा च ब्रध्नश्वश्च महीपतिः ॥ KK03-06-096-012c
त्रसदस्युस्तु तान्दृष्ट्वा प्रत्यगृह्णाद्यथाविधि । KK03-06-096-013a
अभिगम्य महाराज विषयान्ते महामनाः ॥ KK03-06-096-013c
अर्चयित्वा यथान्यायमैक्ष्वाको राजसत्तमः । KK03-06-096-014a
समस्तांश्च ततोऽपृच्छत्प्रयोजनमुपक्रमे ॥ KK03-06-096-014c
अगस्त्य उवाच KK03-06-096-015
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते । KK03-06-096-015a
यथाशक्त्यवीहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ KK03-06-096-015c
लोमश उवाच KK03-06-096-016
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् । KK03-06-096-016a
एतज्ज्ञात्वा ह्युपादद्ध्वं यदत्र व्यतिरिच्यते ॥ KK03-06-096-016c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः । KK03-06-096-017a
सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ KK03-06-096-017c
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् । KK03-06-096-018a
इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥ KK03-06-096-018c
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि । KK03-06-096-019a
तमतिक्रम्य सर्वेऽद्य वयं चार्थामहे वसु ॥ KK03-06-096-019c
लोमश उवाच KK03-06-096-020
तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम् । KK03-06-096-020a
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥ KK03-06-096-020c

3-96-2 विषयान्ते देशसीमान्ते ॥ 3-96-3 आगमने निमित्तभूताम् अर्थिताम् । किमिच्छन्नागतोसीति पप्रच्छेत्यर्थः ॥ 3-96-6 उपादानात् धनग्रहणात् ॥ 3-96-7 वाध्र्यश्वमगमत्तत इति क. ध. पाठः ॥ 3-96-8 उपक्रमे आगमने ॥ 3-96-9 नौ आवाभ्याम् ॥ 3-96-19 वसुमान् धनवान् ॥