अध्यायः 095

विदर्भराजेन सन्तानार्थं कन्यां कामयमानायागस्त्याय लोपामुद्राया यथाविधि प्रदानम् ॥ 1 ॥ अगस्त्येन लोपामुद्राया महार्हवसनाभरणत्याजनेन वल्कलादिग्राहणपूर्वकं स्वाश्रमम्प्रत्यानयनम् ॥ 2 ॥ ऋतुकाले समाहूतया तया महार्हवसनाभरणानि याचितेनागस्त्येन तत्सम्पादनाय प्रस्थानम् ॥ 3 ॥

लोमश उवाच KK03-06-095-001
यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति । KK03-06-095-001a
तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ KK03-06-095-001c
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् । KK03-06-095-002a
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ KK03-06-095-002c
एवमुक्तः स मुनिना महीपालो विचेतनः । KK03-06-095-003a
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत ॥ KK03-06-095-003c
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः । KK03-06-095-004a
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ KK03-06-095-004c
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् । KK03-06-095-005a
लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत् ॥ KK03-06-095-005c
न मत्कृते महीपाल पीडामभ्येतुमर्हसि । KK03-06-095-006a
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ KK03-06-095-006c
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने । KK03-06-095-007a
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशाम्पते ॥ KK03-06-095-007c
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत । KK03-06-095-008a
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥ KK03-06-095-008c
ततः सा दर्शनीयानि महार्हाणि तनूनि च । KK03-06-095-009a
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ KK03-06-095-009c
ततश्चीराणि जग्राह वल्कलान्यजिनानि च । KK03-06-095-010a
समानव्रतचर्या च बभूवायतलोचना ॥ KK03-06-095-010c
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः । KK03-06-095-011a
उग्रमातिष्ठत तपः सह पत्न्याऽनुकूलया ॥ KK03-06-095-011c
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा । KK03-06-095-012a
अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः ॥ KK03-06-095-012c
ततो बहुतिथे काले लोपामुद्रां विशाम्पते । KK03-06-095-013a
तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ KK03-06-095-013c
स तस्याः परिचारेण शौचेन च दमेन च । KK03-06-095-014a
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ KK03-06-095-014c
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी । KK03-06-095-015a
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ KK03-06-095-015c
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत । KK03-06-095-016a
पा तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ KK03-06-095-016c
यथा पितुर्गृहे विप्र प्रासादे शयनं मम । KK03-06-095-017a
तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ KK03-06-095-017c
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् । KK03-06-095-018a
उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ KK03-06-095-018c
अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी । KK03-06-095-019a
नैवापवित्रो विप्रर्षे भूषणोयं कथञ्चन ॥ KK03-06-095-019c
अगस्त्य उवाच KK03-06-095-020
न ते धनानि विद्यन्ते लोपामुद्रे तथा मम । KK03-06-095-020a
यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ KK03-06-095-020c
लोपामुद्रोवाच KK03-06-095-021
ईशोसि तपसा सर्वं समाहर्तुं तपोधन । KK03-06-095-021a
क्षणेन जीवलोके यद्वसु किञ्चन विद्यते ॥ KK03-06-095-021c
अगस्त्य उवाच KK03-06-095-022
एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु तत् । KK03-06-095-022a
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥ KK03-06-095-022c
लोपामुद्रोवाच KK03-06-095-023
अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन । KK03-06-095-023a
न चान्यथाऽहमिच्छामि त्वामुपैतुं कथञ्चन ॥ KK03-06-095-023c
न चापि धर्ममिच्छामि विलोप्तुं ते कथञ्चन । KK03-06-095-024a
एवं तु मे यथाकामं सम्पादयितुमर्हसि ॥ KK03-06-095-024c
अगस्त्य उवाच KK03-06-095-025
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः । KK03-06-095-025a
हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता ॥ KK03-06-095-025c

3-95-2 निवेशे विवाहे ॥ 3-95-13 स्नातां ऋताविति शेषः ॥ 3-95-14 परिचारेण सेवया ॥ 3-95-19 भूषणोयं चीरकाषायादिस्तपस्विनां श्लाघ्योयं सामग्रीकलापो भोगसम्पर्केणापवित्रो नैव भवत्विति शेषः ॥ 3-95-21 समाहर्तुं ममेप्सितमिति क. ध. पाठः ॥ 3-95-23 ऋतोः कालः षोडशदिनानि तेषु अल्पोऽवशिष्टः ॥