अध्यायः 094

लोमशेन युधिष्ठिरम्प्रत्यगस्त्यचरितकथनारम्भः ॥ 1 ॥ वातापील्वलवृत्तकथनम् ॥ 2 ॥ तथा लोपामुद्रोत्पत्तिप्रकारकथनम् ॥ 3 ॥

वैशम्पायन उवाच KK03-06-094-001
ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः । KK03-06-094-001a
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ KK03-06-094-001c
तत्रैव लोमशं राजा पप्रच्छ वदतांवरः । KK03-06-094-002a
अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ KK03-06-094-002c
आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः । KK03-06-094-003a
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः ॥ KK03-06-094-003c
लोमश उवाच KK03-06-094-004
इल्वलो नाम दैतेय आसीत्कौरवनन्दन । KK03-06-094-004a
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ KK03-06-094-004c
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः । KK03-06-094-005a
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ KK03-06-094-005c
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसम्मितम् । KK03-06-094-006a
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ KK03-06-094-006c
तदाप्रभृति राजेन्द्र इल्वलो ब्रह्महाऽसुरः । KK03-06-094-007a
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः ॥ KK03-06-094-007c
मेषरूपी च वातापिः कामरूप्यभवत्क्षणात् । KK03-06-094-008a
संस्कृत्य तं भोजयति ततो विप्रं जिघांसति ॥ KK03-06-094-008c
स चाह्वयति यं वाचा गतं वैवस्वतक्षयम् । KK03-06-094-009a
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥ KK03-06-094-009c
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । KK03-06-094-010a
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ KK03-06-094-010c
तामिल्वलेन महता स्वरेण गिरमीरिताम् । KK03-06-094-011a
श्रुत्वाऽतिमायो बलवान्क्षिप्रं ब्राह्मणकण्टकः ॥ KK03-06-094-011c
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः । KK03-06-094-012a
वातापिः प्रहसन्राजन्निश्चक्राम विशाम्पते ॥ KK03-06-094-012c
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः । KK03-06-094-013a
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः ॥ KK03-06-094-013c
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु । KK03-06-094-014a
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥ KK03-06-094-014c
सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किम्पराः । KK03-06-094-015a
'किमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः' । KK03-06-094-015c
सन्तानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः ॥ KK03-06-094-015e
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः । KK03-06-094-016a
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥ KK03-06-094-016c
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् । KK03-06-094-017a
स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ KK03-06-094-017c
स तानुवाच तेजस्वी सत्यधर्मपरायणः । KK03-06-094-018a
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥ KK03-06-094-018c
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः । KK03-06-094-019a
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ KK03-06-094-019c
स तस्य तस्य सत्वस्य तत्तदङ्गमनुत्तमम् । KK03-06-094-020a
सङ्गृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ KK03-06-094-020c
स तां विदर्भराजाय पुत्रकामाय ताम्यते । KK03-06-094-021a
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ KK03-06-094-021c
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा । KK03-06-094-022a
विभ्राजमाना वपुषा व्यवर्धत शुभानना ॥ KK03-06-094-022c
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः । KK03-06-094-023a
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ KK03-06-094-023c
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप । KK03-06-094-024a
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ KK03-06-094-024c
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् । KK03-06-094-025a
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥ KK03-06-094-025c
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः । KK03-06-094-026a
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः ॥ KK03-06-094-026c
सा स्म दासीशतवृता मध्ये कन्याशतस्य च । KK03-06-094-027a
आस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ॥ KK03-06-094-027c
यौवनस्थामपि च तां शीलाचारसमन्विताम् । KK03-06-094-028a
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ KK03-06-094-028c
सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति । KK03-06-094-029a
तोषयामास पितरं शीलेन स्वजनं तथा ॥ KK03-06-094-029c
वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता । KK03-06-094-030a
मनसा चिन्तयामास कस्मै दद्यामिमां सुताम् ॥ KK03-06-094-030c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

3-94-1 दुर्जयायां वातापिपुर्यां मणिमतीसञ्ज्ञायाम् ॥ 3-94-6 नादात् न दत्तवान् ॥ 3-94-8 कामरूपी यथाकामं रूपाणि कर्तुं समर्थः । संस्कृत्य पक्त्वा ॥ 3-94-9 स च इल्वलश्च ॥ 3-94-19 प्रसवसन्तानं सन्ततेरविच्छेदम् ॥ 3-94-20 तस्य तस्य सिंहमृगादेः अङ्गं कटिदृष्ट्यादि । सर्वगुणवतीमित्यर्थः ॥ 3-94-22 जज्ञे जाता । विद्युदिति विशेषणं द्युतिविशेषोपपादनार्थम् ॥ 3-94-24 मुद्राणां तत्तन्मृगादिजातिगतानामसाधारणानां चिह्नानां कमनीयचक्षुष्ट्वानां लोपइव लोपस्तिरस्कारो यया सा लोपामुद्रा । आहिताग्न्यादिवत्पूर्वनिपातः । अन्येष्वपि दृश्यत इति दीर्घः ॥ 3-94-26 वशानुगाः इच्छानुरूपाः ॥