अध्यायः 093
युधिष्ठिरादिभिः क्रमेण ब्रह्मसरस्तीर्थगमनम् ॥ 1 ॥ तत्र शमठेन युधिष्ठिरादीन्प्रति गययज्ञवर्णनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-06-093-001
ते तथा सहिता वीरा वसन्तस्तत्रतत्र ह । KK03-06-093-001a
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ KK03-06-093-001c
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप । KK03-06-093-002a
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ KK03-06-093-002c
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः । KK03-06-093-003a
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ॥ KK03-06-093-003c
कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः । KK03-06-093-004a
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ KK03-06-093-004c
प्रयागे देवयजने देवानां पृथिवीपते । KK03-06-093-005a
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ KK03-06-093-005c
गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः । KK03-06-093-006a
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥ KK03-06-093-006c
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः । KK03-06-093-007a
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ KK03-06-093-007c
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् । KK03-06-093-008a
सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ KK03-06-093-008c
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् । KK03-06-093-009a
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥ KK03-06-093-009c
नगो गयशिरो यत्र पुण्या चैव महानदी । KK03-06-093-010a
वानीरमालिनी रम्या नदी पुलिनशोभिता ॥ KK03-06-093-010c
दिव्यं पवित्रकूटं च पवित्रधरणीधरम् । KK03-06-093-011a
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम् ॥ KK03-06-093-011c
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति । KK03-06-093-012a
उवास च स्वयं तत्र धर्मराजः सनातनः ॥ KK03-06-093-012c
सर्वासां सरितां चैव समुद्भेदो विशाम्पते । KK03-06-093-013a
यत्र सन्निहितो नित्यं महादेवः पिनाकधृक् ॥ KK03-06-093-013c
'परिपूर्णः परञ्ज्योतिः परमात्मा सनातनः । KK03-06-093-014a
ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः ॥ KK03-06-093-014c
तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम् । KK03-06-093-015a
सिद्धिक्षेत्रमिदं मत्वा सर्वेषां मोक्षकाङ्क्षिणाम् ॥ KK03-06-093-015c
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे । KK03-06-093-016a
ऋषियज्ञेन महता यत्राक्षयवटो महान् । KK03-06-093-016c
अक्षये देवयजने अक्षयं यत्र वै फलम् ॥ KK03-06-093-016e
ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः । KK03-06-093-017a
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः ॥ KK03-06-093-017c
चातुर्मास्येनायजन्त आर्षेण विधिना तदा । KK03-06-093-018a
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः । KK03-06-093-018c
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम् ॥ KK03-06-093-018e
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः । KK03-06-093-019a
शमठोऽकथयद्राजन्नाधूर्तरजसं गयम् ॥ KK03-06-093-019c
शमठ उवाच KK03-06-093-020
आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः । KK03-06-093-020a
पुण्यानि तस्य कर्माणि तानि मे शृणु भारत ॥ KK03-06-093-020c
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः । KK03-06-093-021a
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ KK03-06-093-021c
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा । KK03-06-093-022a
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ KK03-06-093-022c
अहन्यहनि चाप्येवं याचतां सम्प्रदीयते । KK03-06-093-023a
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ KK03-06-093-023c
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः । KK03-06-093-024a
न च प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत ॥ KK03-06-093-024c
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा । KK03-06-093-025a
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ KK03-06-093-025c
यत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ । KK03-06-093-026a
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ KK03-06-093-026c
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः । KK03-06-093-027a
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ KK03-06-093-027c
न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे । KK03-06-093-028a
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ KK03-06-093-028c
कथं तु देवा हविषा गयेन परितर्पिताः । KK03-06-093-029a
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ KK03-06-093-029c
सिकता वा यथा लोके यथा वा दिवि तारकाः । KK03-06-093-030a
यथा वा वर्षतोधारा असङ्ख्येयाः स्म केनचित् । KK03-06-093-030c
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः ॥ KK03-06-093-030e
एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः । KK03-06-093-031a
बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ KK03-06-093-031c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥
3-93-10 वानीरमालिनी वेत्रपङ्क्तियुक्ता । सरो गयशिरो यत्रेति क. ध. पाठः ॥ 3-93-24 ब्रह्मशब्देन वेदध्वनिना ॥