अध्यायः 092

लोमशेन युधिष्ठिरम्प्रति धर्माधर्मयोः समृद्ध्यसमृद्धिलक्षणोदर्ककारणत्वाभिधानम् ॥ 1 ॥

युधिष्ठिर उवाच KK03-06-092-001
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम । KK03-06-092-001a
तथाऽस्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ॥ KK03-06-092-001c
परांश्च निर्गुणान्मन्ये न च धर्मगतानपि । KK03-06-092-002a
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ॥ KK03-06-092-002c
लोमश उवाच KK03-06-092-003
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन । KK03-06-092-003a
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ॥ KK03-06-092-003c
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति । KK03-06-092-004a
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ KK03-06-092-004c
'यत्र धर्मेण वर्धन्ते राजानो राजसत्तम । KK03-06-092-005a
सर्वान्सपत्नान्बाधन्ते राज्यं चैषां विवर्धते' ॥ KK03-06-092-005c
मया हि दृष्टा दैतेया दानवाश्च महीपते । KK03-06-092-006a
वर्धमाना ह्यधर्मेण क्षयञ्चोपगताः पुनः ॥ KK03-06-092-006c
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो । KK03-06-092-007a
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥ KK03-06-092-007c
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः । KK03-06-092-008a
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥ KK03-06-092-008c
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत । KK03-06-092-009a
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥ KK03-06-092-009c
तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान् । KK03-06-092-010a
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ॥ KK03-06-092-010c
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥ KK03-06-092-011ac
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः । KK03-06-092-012a
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥ KK03-06-092-012c
तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान् । KK03-06-092-013a
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः। KK03-06-092-013c
मानाभिभूतानचिराद्विनाशः समपद्यत ॥ KK03-06-092-013e
निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः । KK03-06-092-014a
'अधर्मरुचयो राजन्नलक्ष्म्या समधिष्ठिताः' ॥ KK03-06-092-014c
देवास्तु सागरांश्चैव सरितश्च सरांसि च । KK03-06-092-016a
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥ KK03-06-092-015c
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव । KK03-06-092-016a
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥ KK03-06-092-016c
एवमादानवन्तश्च निरादानाश्च सर्वशः । KK03-06-092-017a
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥ KK03-06-092-017c
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः । KK03-06-092-018a
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥ KK03-06-092-018c
यथैव हि नृगो राजा शिबिरौशीनरो यथा । KK03-06-092-019a
भगीरथो वसुमना गयः पूरुः पुरूरवाः ॥ KK03-06-092-019c
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते । KK03-06-092-020a
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ॥ KK03-06-092-020c
अलभन्त यशः पुण्यं धनानि च विशाम्पते । KK03-06-092-021a
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ॥ KK03-06-092-021c
यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः । KK03-06-092-022a
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥ KK03-06-092-022c
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् । KK03-06-092-023a
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ॥ KK03-06-092-023c
धार्तराष्ट्रास्त्वधर्मेण मोहेन च वशीकृताः । KK03-06-092-024a
नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ॥ KK03-06-092-024c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

3-92-2 परान् शत्रून् ॥ 3-92-8 विविशुः स्नानार्थमिति शेषः ॥ 3-92-9 अह्रीः अकार्ये प्रवृत्तिः । ततः अलज्जा लज्जा निन्द्यतादोषाद्भयं तस्य नाशः । 3-92-10 नचिरात् शीघ्रमेव ॥ 3-92-17 आदानवन्तः आर्जवादिनियमग्रहणवन्तः । निरादानाः अप्रतिबद्धाः । सर्वशः देवादिभिरपि । एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः इति ध. पाठः ॥ 3-92-18 वेत्स्यसि लप्स्यसे ॥ 3-92-24 धार्तराष्ट्रस्तु दर्पेण इति क. ध. पाठः ॥