अध्यायः 090
लोमशेन युधिष्ठिरम्प्रति स्वसाहित्येन तीर्थयात्राविधायकपार्थवचननिवेदनम् ॥ 1 ॥ युधिष्ठिरेण लोमशाशयाऽधिकपरिजनविसर्जनम् ॥ 2 ॥
लोमश उवाच KK03-06-090-001
धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर । KK03-06-090-001a
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया धिया ॥ KK03-06-090-001c
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन । KK03-06-090-002a
श्रीमतां चापि जानासि धर्मं राज्ञां सनातनम् ॥ KK03-06-090-002c
स भवान्परमं वेद पावनं पुरुषं प्रति । KK03-06-090-003a
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान् ॥ KK03-06-090-003c
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः । KK03-06-090-004a
तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत् ॥ KK03-06-090-004c
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः । KK03-06-090-005a
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ KK03-06-090-005c
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् । KK03-06-090-006a
तथा रक्षस्व कौन्तेयान्राक्षसेभ्यो द्विजोत्तम ॥ KK03-06-090-006c
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः । KK03-06-090-007a
त्वयाऽभिगुप्तान्कौन्तेयान्न विवर्तेयुरन्तिकम् ॥ KK03-06-090-007c
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च । KK03-06-090-008a
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वा सह ॥ KK03-06-090-008c
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन । KK03-06-090-009a
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ KK03-06-090-009c
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर । KK03-06-090-010a
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥ KK03-06-090-010c
नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत् । KK03-06-090-011a
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ KK03-06-090-011c
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः । KK03-06-090-012a
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ KK03-06-090-012c
यथा भगीरथो राजा राजानश्च गयादयः । KK03-06-090-013a
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ KK03-06-090-013c
युधिष्ठिर उवाच KK03-06-090-014
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् । KK03-06-090-014a
यन्मां स्मरति देवेशः किं नामाभ्यधिकं ततः ॥ KK03-06-090-014c
भवता सङ्गमो यस्य भ्राता चैव धनञ्जयः । KK03-06-090-015a
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ॥ KK03-06-090-015c
यच्च मां भगवानाह तीर्थानां गमनं प्रति । KK03-06-090-016a
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ KK03-06-090-016c
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने । KK03-06-090-017a
तदैव गन्तास्मि तीर्थान्येष मे निश्चयः परः ॥ KK03-06-090-017c
वैशम्पायन उवाच KK03-06-090-018
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् । KK03-06-090-018a
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ KK03-06-090-018c
युधिष्ठिर उवाच KK03-06-090-019
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये ॥ KK03-06-090-019ac
क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः । KK03-06-090-020a
ते सर्वे विनिवर्तन्तां ये च मृष्टभुजो द्विजाः ॥ KK03-06-090-020c
पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः । KK03-06-090-021a
तेऽपि सर्वे निवर्तन्तां ये च सूदानुयायिनः । KK03-06-090-021c
मया यथोचिताऽऽजीव्यैः संविभक्ताश्च वृत्तिभिः ॥ KK03-06-090-021e
ये चाप्यनुगताः पौरा राजभक्तिपुरःसराः । KK03-06-090-022a
धृतराष्ट्रं महाराजमभिगच्छन्तु ते च वै । KK03-06-090-022c
स दास्यति यथाकालमुचिता यस्य या भृतिः ॥ KK03-06-090-022e
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः । KK03-06-090-023a
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ॥ KK03-06-090-023c
वैशम्पायन उवाच KK03-06-090-024
ततो भूयिष्ठशः पौरा गुरौ भारे समाहिते । KK03-06-090-024a
विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति ॥ KK03-06-090-024c
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाऽम्बिकासुतः । KK03-06-090-025a
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ KK03-06-090-025c
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह । KK03-06-090-026a
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ KK03-06-090-026c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवतितमोऽध्यायः ॥ 90 ॥
3-90-3 पुरुषम्प्रति पुरुषस्येत्यर्थः ॥ 3-90-9 द्विः द्विवारम् । तृतीयं तृतीयवारम् ॥ 3-90-10 तीर्थयात्रा शुभावहेति क ध. पाठः ॥ 3-90-11 नानृती नाकृतात्मा चेति क. ध. पाठः ॥ 3-90-18 लघुरल्पपरिवारः ॥ 3-90-21 विकल्पकाः मृष्टामृष्टविभाजकाः । आजीव्यैर्भृत्यादिभिः । वृत्तिभिर्जीवनहेतुभिरन्नादिभिः ॥ 3-90-23 पाञ्चाल्यो द्रुपदः ॥