अध्यायः 089
लोमशेनेन्द्रवचनाद्युधिष्ठिरम्प्रति पार्थस्य पाशुपतादिप्राप्तिकथनपूर्वकमिन्द्रसन्देशनिवेदनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-06-089-001
एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन । KK03-06-089-001a
लोमशः स महातेजा ऋषिस्तत्राजगाम ह ॥ KK03-06-089-001c
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते । KK03-06-089-002a
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ KK03-06-089-002c
समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः । KK03-06-089-003a
पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ KK03-06-089-003c
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः । KK03-06-089-004a
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ KK03-06-089-004c
सञ्चरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया । KK03-06-089-005a
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम् ॥ KK03-06-089-005c
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् । KK03-06-089-006a
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥ KK03-06-089-006c
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् । KK03-06-089-007a
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति ॥ KK03-06-089-007c
सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् । KK03-06-089-008a
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः ॥ KK03-06-089-008c
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन । KK03-06-089-009a
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ॥ KK03-06-089-009c
यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ । KK03-06-089-010a
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो ॥ KK03-06-089-010c
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत् । KK03-06-089-011a
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ॥ KK03-06-089-011c
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् । KK03-06-089-012a
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर ॥ KK03-06-089-012c
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन । KK03-06-089-013a
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ KK03-06-089-013c
विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च । KK03-06-089-014a
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ KK03-06-089-014c
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान् । KK03-06-089-015a
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ KK03-06-089-015c
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् । KK03-06-089-016a
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥ KK03-06-089-016c
भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः । KK03-06-089-017a
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ॥ KK03-06-089-017c
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः । KK03-06-089-018a
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः ॥ KK03-06-089-018c
तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह । KK03-06-089-019a
तपसो हि परं नास्ति तपसा विन्दते महत् ॥ KK03-06-089-019c
अहं च कर्णं जानामि यथावद्भरतर्षभ । KK03-06-089-020a
सत्यसन्धं महोत्साहं महावीर्यं महाबलम् ॥ KK03-06-089-020c
महाहवेष्वप्रतिमं महायुद्धविशारदम् । KK03-06-089-021a
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् ॥ KK03-06-089-021c
महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् । KK03-06-089-022a
तथाऽर्जुनमतिस्कन्धं सहजोल्बणपौरुषम् ॥ KK03-06-089-022c
न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् ॥ KK03-06-089-023ac
यच्चापि ते भयं कर्णान्मनसिस्थमरिन्दम । KK03-06-089-024a
तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ॥ KK03-06-089-024c
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति । KK03-06-089-025a
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम् ॥ KK03-06-089-025c
यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत । KK03-06-089-026a
ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा ॥ KK03-06-089-026c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥
3-89-12 प्रायश्चित्तम् अस्त्राग्निना निरपराधानां दाहे यो दोषस्तस्य शोधनम् । मङ्गलं दग्धानामेवारामादीनां पुनर्विकसनम् । वज्रं वज्रवदप्रतीकार्यं रौद्रमेव ॥ 3-89-14 गीतं लौकिकं गानम् । साम ऋक्षु गानम् ॥ 3-89-18 सुरकार्यं निवातकवचादीनां वधः । कृतार्थः क्षिप्रमर्जुन इति क. थ. पाठः ॥ 3-89-20 रसत्यसन्धं सत्यप्रतिज्ञम् ॥ 3-89-21 वरवर्णिनम् अतिसुन्दरम् ॥ 3-89-22 महेश्वरसुतप्रख्यं स्कन्दतुल्यम् । अतित्कन्धम् उन्नतांसम् ॥ 3-89-24 अपहरिष्यामि कवचकुण्डलापहरणेन ॥ 3-89-26 तत् श्रद्धेयं नत्वन्यथा ग्रहीतव्यमित्यर्थः ॥