अध्यायः 088
धौम्येन युधिष्ठिरम्प्रत्युदीचीस्थतीर्थकथनम् ॥ 1 ॥
धौम्य उवाच KK03-06-088-001
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै । KK03-06-088-001a
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ KK03-06-088-001c
शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो । KK03-06-088-002a
कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम् ॥ KK03-06-088-002c
सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी । KK03-06-088-003a
समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ KK03-06-088-003c
यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम् । KK03-06-088-004a
यत्रसारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ KK03-06-088-004c
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ । KK03-06-088-005a
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ॥ KK03-06-088-005c
एतस्मिन्नेव चार्थेऽसौ इन्द्रगीता युधिष्ठिर । KK03-06-088-006a
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ KK03-06-088-006c
अग्नयः सहदेवेन ये चिता यमुनामनु । KK03-06-088-007a
ते तस्य कुरुशार्दूल सहस्रशतदक्षिणाः ॥ KK03-06-088-007c
तत्रैव भरतो राजा चक्रवर्ती महायशाः । KK03-06-088-008a
विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ KK03-06-088-008c
कामकृद्यो द्विजातीनां श्रुतस्तात यथा पुरा । KK03-06-088-009a
अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः ॥ KK03-06-088-009c
सरस्वती नदी सद्भिः सततं पार्थ पूजिता । KK03-06-088-010a
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥ KK03-06-088-010c
दृषद्वती महापुण्या यत्र ख्याता युधिष्ठिर । KK03-06-088-011a
न्यग्रोधाख्यस्तु पाञ्चाल्यः पाञ्चाल्यो द्विपदांवर । KK03-06-088-011c
दाल्भ्यघोषश्च दाल्भ्याश्च धरणीस्थो महात्मनः ॥ KK03-06-088-011e
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः । KK03-06-088-012a
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ KK03-06-088-012c
एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप । KK03-06-088-013a
वेदज्ञौ वेदविद्वांसौ वेदविद्याविदामुभौ । KK03-06-088-013c
ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम ॥ KK03-06-088-013e
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा । KK03-06-088-014a
विशाखयूपेऽतप्यन्त तेन पुण्यतमश्च सः ॥ KK03-06-088-014c
ऋषिर्महान्महाभागो जमदग्निर्महायशाः । KK03-06-088-015a
पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः ॥ KK03-06-088-015c
यत्र सर्वाः सरिच्छ्रेष्टाः साक्षात्तमृषिसत्तमम् । KK03-06-088-016a
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ KK03-06-088-016c
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ । KK03-06-088-017a
इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः ॥ KK03-06-088-017c
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः । KK03-06-088-018a
आगम्य सरितो विप्रान्मधुना समतर्पयन् ॥ KK03-06-088-018c
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च सेवितम् । KK03-06-088-019a
किरातकिन्नरावासं शैलं शिखरिणांवरम् ॥ KK03-06-088-019c
बिभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर । KK03-06-088-020a
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ KK03-06-088-020c
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा । KK03-06-088-021a
पर्वतश्च पुरुर्नाम यत्रयातः पुरूरवाः ॥ KK03-06-088-021c
भृगुर्यत्र तपस्तेपे महर्षिगणसेविते । KK03-06-088-022a
राजन्स आश्रमः ख्यातो भृगुतुन्दो महागिरिः ॥ KK03-06-088-022c
यः स भूतं भविष्यच्च भवच्च भरतर्षभ । KK03-06-088-023a
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ KK03-06-088-023c
तस्यातियशसः पुण्यां विशालां बदरीमनु । KK03-06-088-024a
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ KK03-06-088-024c
उष्णतोयवहा गङ्गा शीततोयवहा पुरा । KK03-06-088-025a
सुवर्णसिकता राजन्विशालां बदरीमनु ॥ KK03-06-088-025c
ऋषयो यत्र देवाश्च महाभागा महौजसः । KK03-06-088-026a
प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम् ॥ KK03-06-088-026c
यत्र नाराजणो देवः परमात्मा सनातनः । KK03-06-088-027a
तत्र कृत्स्नं जगत्सर्वं तीर्थान्यायतनानि च ॥ KK03-06-088-027c
तत्पुण्यं परमं ब्रह्म तत्तीर्थं तत्तपोवनम् । KK03-06-088-028a
तत्परं परमं देवं भूतानां परमेश्वरम् ॥ KK03-06-088-028c
शाश्वतं परमं चैव धातारं परमं पदम् । KK03-06-088-029a
यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः ॥ KK03-06-088-029c
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः । KK03-06-088-030a
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ॥ KK03-06-088-030c
पुण्यानामपि तत्पुण्यमत्र ते संशयेस्तु मा । KK03-06-088-031a
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते । KK03-06-088-031c
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥ KK03-06-088-031e
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । KK03-06-088-032a
ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः ॥ KK03-06-088-032c
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः । KK03-06-088-033a
भ्रातृभिश्च महाभागैरुत्कण्ठां विजयिष्यसि ॥ KK03-06-088-033c
3-88-7 शतं शतसहस्राणि सहस्रशतदक्षिणाः इति क. ध. पाठः ॥ 3-88-9 शङ्करस्तत्र विश्रुत इति क. ध. पाठः ॥ 3-88-13 एता कृष्णमृगी तद्वर्णौ कृष्णौ नरनारायणावित्यर्थः । वस्तुतस्त्ववर्णौ वर्णाः लोहितशुक्लकृष्णाः रजःसत्वतमांसि तद्रहितौ । तत्र वैवर्ण्यवर्ण्यौ चेति क. ध. पाठः ॥ 3-88-23 प्रभुर्जिष्णुरिति क. पाठः ॥ 3-88-24 विशालां नामतः । बदरीमनु बदरीसमीपे ॥