अध्यायः 086

धौम्येन युधिष्टिरम्प्रति दक्षिणदिक्स्थ नानातीर्थानुकीर्तनम् ॥ 1 ॥

धौम्य उवाच KK03-06-086-001
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत । KK03-06-086-001a
विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै ॥ KK03-06-086-001c
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी । KK03-06-086-002a
बह्वारामा बहुजला तापसाचरिता शिवा ॥ KK03-06-086-002c
वेणा भीमरथी चैव नद्यौ पापभयापहे । KK03-06-086-003a
मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ KK03-06-086-003c
राजर्षेस्तस्य च सरिन्नृगस्य भरतर्षभ । KK03-06-086-004a
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ KK03-06-086-004c
अपि चात्र महायोगी मार्कण्डेयो महायशाः । KK03-06-086-005a
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥ KK03-06-086-005c
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् । KK03-06-086-006a
'मरुतः परिवेष्टारः सदस्याश्च दिवौकसः' ॥ KK03-06-086-006c
पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे । KK03-06-086-007a
उद्धृतं भूतलस्थं वायुना समुदीरितम् । KK03-06-086-007c
पयोष्ण्या हरते तोयं पापमामरणान्तिकम् ॥ KK03-06-086-007e
स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः । KK03-06-086-008a
स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् ॥ KK03-06-086-008c
एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः । KK03-06-086-009a
पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम ॥ KK03-06-086-009c
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् । KK03-06-086-010a
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥ KK03-06-086-010c
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा । KK03-06-086-011a
तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥ KK03-06-086-011c
वेदी शूर्पारके तात जमदग्नेर्महात्मनः । KK03-06-086-012a
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥ KK03-06-086-012c
अशोकतीर्थं तत्रैव कौन्ते य बहुलाश्रमम् । KK03-06-086-013a
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ KK03-06-086-013c
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ । KK03-06-086-014a
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ KK03-06-086-014c
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे । KK03-06-086-015a
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ KK03-06-086-015c
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः । KK03-06-086-016a
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ KK03-06-086-016c
तत्र वृक्षतृणाद्यैश्च सम्पन्नः फलमूलवान् । KK03-06-086-017a
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसहे गिरौ ॥ KK03-06-086-017c
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः । KK03-06-086-018a
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ KK03-06-086-018c
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च । KK03-06-086-019a
आश्रमान्सरितश्चैव सरांसि च नराधिप ॥ KK03-06-086-019c
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत । KK03-06-086-020a
प्रभासं चोदधौ तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ KK03-06-086-020c
तत्र पिण्डारकं नाम तापसाचरितं शिवम् । KK03-06-086-021a
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ KK03-06-086-021c
तत्र देवर्षिवीरेण नारदेनानुकीर्तितः । KK03-06-086-022a
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ KK03-06-086-022c
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते । KK03-06-086-023a
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ KK03-06-086-023c
'एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः । KK03-06-086-024a
नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम्' ॥ KK03-06-086-024c
पुण्या द्वारवती तत्र यत्रासौ मधुसूदनः । KK03-06-086-025a
साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः ॥ KK03-06-086-025c
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । KK03-06-086-026a
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ KK03-06-086-026c
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते । KK03-06-086-027a
पुण्यानामपि पुण्योसौ मङ्गालानां च मङ्गलम् । KK03-06-086-027c
त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः ॥ KK03-06-086-027e
अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः । KK03-06-086-028a
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ KK03-06-086-028c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षडशीतितमोऽष्यायः ॥

3-86-5 अनुवंश्यां वंशानूरूपां तु नृगमात्रानुरूपाम् ॥ 3-86-13 अशोकतीर्थं मत्स्येष्विति ध. पाठः ॥ 3-86-15 महत् मोक्षफलम् ॥ 3-86-23 तप्ताङ्ग कृततपस्कः ॥