अध्यायः 084

युधिष्ठिरेण धौम्यम्प्रति अर्जुनेन विना स्वस्य काम्यकवनेऽनभिरुचिकथनपूर्वकं निवासाय स्थानान्तरकथनप्रार्थना ॥ 1 ॥

वैशम्पायन उवाच KK03-06-084-001
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः । KK03-06-084-001a
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ KK03-06-084-001c
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः । KK03-06-084-002a
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ KK03-06-084-002c
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधनः । KK03-06-084-003a
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ KK03-06-084-003c
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ । KK03-06-084-004a
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ॥ KK03-06-084-004c
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ । KK03-06-084-005a
नारदोऽपि तथा वेद योप्यशंसत्सदा मम ॥ KK03-06-084-005c
तथाऽहमपि जानामि नरनारायणावृषी । KK03-06-084-006a
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ॥ KK03-06-084-006c
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम् । KK03-06-084-007a
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ KK03-06-084-007c
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः । KK03-06-084-008a
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ॥ KK03-06-084-008c
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा । KK03-06-084-009a
'सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः' । KK03-06-084-009c
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ॥ KK03-06-084-009e
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः । KK03-06-084-010a
योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः । KK03-06-084-010c
रजोधूमोऽस्त्रसम्पातो धार्तराष्ट्रानिलोद्धतः ॥ KK03-06-084-010e
निसृष्ट इव कालेन युगान्तज्वलनो यथा । KK03-06-084-011a
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ KK03-06-084-011c
तं स कृष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान् । KK03-06-084-012a
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ॥ KK03-06-084-012c
संरब्धः शरधाराभिः सुदीप्तं कर्णपावकम् । KK03-06-084-013a
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ KK03-06-084-013c
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः । KK03-06-084-014a
दिव्यान्यस्त्राणि बीभत्सुर्यथावत्प्रतिपत्स्यते ॥ KK03-06-084-014c
अलं स तेषां सर्वेषामिति मे धीयते मतिः । KK03-06-084-015a
नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥ KK03-06-084-015c
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिन्दमम् । KK03-06-084-016a
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ KK03-06-084-016c
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर । KK03-06-084-017a
अवधानं न गच्छामः काम्यके सह कृष्णया ॥ KK03-06-084-017c
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि । KK03-06-084-018a
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ KK03-06-084-018c
यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् । KK03-06-084-019a
प्रतीक्षामोऽर्जुनं वीरं वृष्टिकामा इवाम्बुदम् ॥ KK03-06-084-019c
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान् । KK03-06-084-020a
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ KK03-06-084-020c
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम् । KK03-06-084-021a
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ॥ KK03-06-084-021c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

3-84-7 अनवरोऽन्यूनः ॥ 3-84-10 रजःकार्यं क्रोधः स एव धूमो यस्य । धार्तराष्ट्रैरनिलैरिव उद्धत उद्दीपितः ॥ 3-84-11 कक्षं तृणवनम् ॥ 3-84-12 उल्बणो दुःसहः ॥ 3-84-15 अलं जेतुं पर्याप्तः ॥ 3-84-16 द्रष्टारो द्रक्ष्यामः ॥ 3-84-17 अवधानं स्वास्थ्यम् ॥ 3-84-18 ब्रह्माढ्यं जलवच्छुचीति क. घ. पाठः ॥