अध्यायः 083
नारदेन युधिष्ठिरम्प्रति भीष्माय पुलस्त्योदिततीर्थमहिमानुवादपूर्वकमिष्टदेशगमनम् ॥ 1 ॥
पुलस्त्य उवाच KK03-06-083-001
अथ सन्ध्यां समासाद्य संवेद्ये तीर्थ उत्तमे । KK03-06-083-001a
उपस्पृश्य नरो विद्यां लभते नात्र संशयः ॥ KK03-06-083-001c
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा । KK03-06-083-002a
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ KK03-06-083-002c
करतोयां समासाद्य त्रिरात्रोपोषितो नरः । KK03-06-083-003a
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः ॥ KK03-06-083-003c
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे । KK03-06-083-004a
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ KK03-06-083-004c
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः । KK03-06-083-005a
त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात् ॥ KK03-06-083-005c
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम् । KK03-06-083-006a
विरजातीर्थमासाद्य विराजति यथा शशी ॥ KK03-06-083-006c
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति । KK03-06-083-007a
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ॥ KK03-06-083-007c
शोणस्य ज्योतिरथ्यायाः सङ्गमे नियतः शुचिः । KK03-06-083-008a
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ KK03-06-083-008c
शोणस्य नर्मदायाश्च प्रभेदे कुरुनन्दन । KK03-06-083-009a
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥ KK03-06-083-009c
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः । KK03-06-083-010a
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ KK03-06-083-010c
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत् । KK03-06-083-011a
वृषभैकादशफलं लभते नात्र संशयः ॥ KK03-06-083-011c
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः । KK03-06-083-012a
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ॥ KK03-06-083-012c
ततो बदरिकातीर्थे स्नात्वा भरतसत्तम । KK03-06-083-013a
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-083-013c
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः । KK03-06-083-014a
दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् ॥ KK03-06-083-014c
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम् । KK03-06-083-015a
वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते ॥ KK03-06-083-015c
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् । KK03-06-083-016a
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ KK03-06-083-016c
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन । KK03-06-083-017a
तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत् ॥ KK03-06-083-017c
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् । KK03-06-083-018a
अश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम् ॥ KK03-06-083-018c
श्रीपर्वते महादेवो देव्या सह महाद्युतिः । KK03-06-083-019a
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह ॥ KK03-06-083-019c
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः । KK03-06-083-020a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-083-020c
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम् । KK03-06-083-021a
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ KK03-06-083-021c
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः । KK03-06-083-022a
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ KK03-06-083-022c
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत् । KK03-06-083-023a
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ KK03-06-083-023c
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् । KK03-06-083-024a
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ KK03-06-083-024c
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । KK03-06-083-025a
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः ॥ KK03-06-083-025c
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा । KK03-06-083-026a
सरितः सागराः शैला उपासन्त उमापतिम् ॥ KK03-06-083-026c
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः । KK03-06-083-027a
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ KK03-06-083-027c
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः ॥ KK03-06-083-028ac
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम् । KK03-06-083-029a
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् । KK03-06-083-029c
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥ KK03-06-083-029e
गायत्रीं पठते यस्तु योनिसङ्करजस्तथा । KK03-06-083-030a
गाथा च गाथिका चापि तस्य सम्पद्यते नृप ॥ KK03-06-083-030c
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥ KK03-06-083-031ac
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् । KK03-06-083-032a
रूपस्य भागी भवति सुभगश्च प्रजायते ॥ KK03-06-083-032c
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः । KK03-06-083-033a
मयूरहंससंयुक्तं विमानं लभते नरः ॥ KK03-06-083-033c
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् । KK03-06-083-034a
गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम् ॥ KK03-06-083-034c
वेणायाः सङ्गमे स्नात्वा वाजिमेधफलं लभेत् । KK03-06-083-035a
वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-083-035c
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः । KK03-06-083-036a
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥ KK03-06-083-036c
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः । KK03-06-083-037a
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥ KK03-06-083-037c
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे । KK03-06-083-038a
जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः । KK03-06-083-038c
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥ KK03-06-083-038e
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत । KK03-06-083-039a
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-083-039c
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम् । KK03-06-083-040a
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ KK03-06-083-040c
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत् । KK03-06-083-041a
गोसहस्रफलं तस्य स्नातमात्रस्य भारत ॥ KK03-06-083-041c
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः । KK03-06-083-042a
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ KK03-06-083-042c
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् । KK03-06-083-043a
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ KK03-06-083-043c
सप्तगोदावरे स्नात्वा नियतो नियताशनः । KK03-06-083-044a
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ KK03-06-083-044c
ततो देवपथं गत्वा नियतो नियताशनः । KK03-06-083-045a
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः ॥ KK03-06-083-045c
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । KK03-06-083-046a
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ KK03-06-083-046c
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः । KK03-06-083-047a
ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम् ॥ KK03-06-083-047c
ओङ्कारेण यथान्यायं सम्यगुच्चारितेन ह । KK03-06-083-048a
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम् ॥ KK03-06-083-048c
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः । KK03-06-083-049a
हरिर्नारायणस्तत्र महादेवस्तथैव च ॥ KK03-06-083-049c
पितामहश्च भगवान्देवैः सह महाद्युतिः । KK03-06-083-050a
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ KK03-06-083-050c
ततः स चक्रे भगवानृषीणां विधिवत्तदा । KK03-06-083-051a
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ KK03-06-083-051c
आज्यभागेन तत्राग्नीं तर्पयित्वा यथाविधि । KK03-06-083-052a
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥ KK03-06-083-052c
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम । KK03-06-083-053a
पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥ KK03-06-083-053c
तत्र मासं वसेद्धीरो नियतो नियताशनः । KK03-06-083-054a
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत् ॥ KK03-06-083-054c
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् । KK03-06-083-055a
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ KK03-06-083-055c
अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् । KK03-06-083-056a
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-083-056c
आत्मानं स्नापयेत्तत्र गिरौ कालञ्जरे नृप । KK03-06-083-057a
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ KK03-06-083-057c
ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते । KK03-06-083-058a
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम् ॥ KK03-06-083-058c
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । KK03-06-083-059a
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ KK03-06-083-059c
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम् । KK03-06-083-060a
यत्र नित्यं महासेनो गुहः सन्निहितो नृप ॥ KK03-06-083-060c
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति । KK03-06-083-061a
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-083-061c
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः । KK03-06-083-062a
अभिगम्य महादेवं विराजति यथा शशी ॥ KK03-06-083-062c
तत्र कूपे महाराज विश्रुता भरतर्षभ । KK03-06-083-063a
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ KK03-06-083-063c
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः । KK03-06-083-064a
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ KK03-06-083-064c
ततो गच्छेत राजेन्द्र शृङ्गवेरपुरं महत् । KK03-06-083-065a
यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥ KK03-06-083-065c
तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते । KK03-06-083-066a
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥ KK03-06-083-066c
विधूतपाप्मा भवति वाजपेयं च विन्दति । KK03-06-083-067a
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः ॥ KK03-06-083-067c
अभिगम्य महादेवमभिवाद्य च भारत । KK03-06-083-068a
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ KK03-06-083-068c
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते । KK03-06-083-069a
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ॥ KK03-06-083-069c
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः । KK03-06-083-070a
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ KK03-06-083-070c
सनत्कुमारप्रमुखास्तथैव परमर्षयः । KK03-06-083-071a
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः ॥ KK03-06-083-071c
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा । KK03-06-083-072a
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च ॥ KK03-06-083-072c
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः । KK03-06-083-073a
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी ॥ KK03-06-083-073c
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता । KK03-06-083-074a
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥ KK03-06-083-074c
यमुना गङ्गया सार्धं सङ्गता लोकपावनी । KK03-06-083-075a
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् ॥ KK03-06-083-075c
प्रयागं जघनस्थानमुपस्थमृषयो विदुः । KK03-06-083-076a
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ॥ KK03-06-083-076c
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः । KK03-06-083-077a
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ॥ KK03-06-083-077c
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः । KK03-06-083-078a
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥ KK03-06-083-078c
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत । KK03-06-083-079a
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो ॥ KK03-06-083-079c
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि । KK03-06-083-080a
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते ॥ KK03-06-083-080c
तत्राभिषेकं यः कुर्यात्सङ्गमे लोकविश्रुते । KK03-06-083-081a
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ KK03-06-083-081c
एषा यजनभूमिर्हि देवानामभिसंस्कृता । KK03-06-083-082a
तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ॥ KK03-06-083-082c
न वेदवचनात्तात न लोकवचनादपि । KK03-06-083-083a
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ KK03-06-083-083c
दशतीर्थसहस्राणि षष्टिः कोट्यस्तथाऽपराः । KK03-06-083-084a
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन ॥ KK03-06-083-084c
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् । KK03-06-083-085a
स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे ॥ KK03-06-083-085c
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् । KK03-06-083-086a
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत् ॥ KK03-06-083-086c
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् । KK03-06-083-087a
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ KK03-06-083-087c
कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता । KK03-06-083-088a
विशेषो वै कनखले प्रयागे परमं महत् ॥ KK03-06-083-088c
यद्यकार्यशतं कृत्वा कृतं गङ्गावसेचनम् । KK03-06-083-089a
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥ KK03-06-083-089c
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् । KK03-06-083-090a
द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता ॥ KK03-06-083-090c
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये । KK03-06-083-091a
मलये त्वग्निमारोहेद्भृगुतुन्दे त्वनाशनम् ॥ KK03-06-083-091c
पुष्करे तु कुरुक्षेत्रे गङ्गायां मगधेषु च । KK03-06-083-092a
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा ॥ KK03-06-083-092c
पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति । KK03-06-083-093a
अवगाढा च पीता च पुनात्यासप्तमं कुलम् ॥ KK03-06-083-093c
यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् । KK03-06-083-094a
तावत्स पुरुषो राजन्स्वर्गलोके महीपते ॥ KK03-06-083-094c
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च । KK03-06-083-095a
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक् ॥ KK03-06-083-095c
न गङ्गासदृशं तीर्थं न देवः केशवात्परः । KK03-06-083-096a
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ॥ KK03-06-083-096c
यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । KK03-06-083-097a
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ KK03-06-083-097c
इदं सत्यं द्विजातीनां साधूनामात्मनोपि च । KK03-06-083-098a
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ KK03-06-083-098c
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् । KK03-06-083-099a
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ KK03-06-083-099c
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् । KK03-06-083-100a
अधीत्य द्विजमध्ये च निर्मलः स्वर्गमाप्नुयात् ॥ KK03-06-083-100c
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् । KK03-06-083-101a
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम् ॥ KK03-06-083-101c
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् । KK03-06-083-102a
शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन् । KK03-06-083-102c
महीं विजयते राजा वैश्यो धनमवाप्नुयात् ॥ KK03-06-083-102e
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः । KK03-06-083-103a
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ KK03-06-083-103c
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च । KK03-06-083-104a
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ KK03-06-083-104c
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । KK03-06-083-105a
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः ॥ KK03-06-083-105c
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत । KK03-06-083-106a
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धयन् ॥ KK03-06-083-106c
भाषितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् । KK03-06-083-107a
प्राप्यन्ते तानि तीर्थानि सद्भिः शास्त्रार्थदर्शिभिः । KK03-06-083-107c
सद्भिः शास्त्रार्थतत्वज्ञैर्ब्राह्मणैः सह गम्यताम् ॥ KK03-06-083-107e
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः । KK03-06-083-108a
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ KK03-06-083-108c
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना । KK03-06-083-109a
'पितरस्तात सर्वे च तारिताः प्रपितामहाः' ॥ KK03-06-083-109c
पिता पितामहश्चैव सर्वे च प्रपितामहाः । KK03-06-083-110a
पितामहपुरोगाश्च देवाः सर्षिगणा नृप । KK03-06-083-110c
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥ KK03-06-083-110e
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम । KK03-06-083-111a
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुवि शाश्वतीं ॥ KK03-06-083-111c
नारद उवाच KK03-06-083-112
एवमुक्त्वाऽभ्यनुज्ञाय पुलस्त्यो भगवानृषिः । KK03-06-083-112a
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ KK03-06-083-112c
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् । KK03-06-083-113a
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे ॥ KK03-06-083-113c
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता । KK03-06-083-114a
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥ KK03-06-083-114c
अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति । KK03-06-083-115a
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति ॥ KK03-06-083-115c
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् । KK03-06-083-116a
भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान् ॥ KK03-06-083-116c
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् । KK03-06-083-117a
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत । KK03-06-083-117c
अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन ॥ KK03-06-083-117e
इदं देवर्षिचरितं सर्वतीर्थाभिसंवृतम् । KK03-06-083-118a
यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ KK03-06-083-118c
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः । KK03-06-083-119a
आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः ॥ KK03-06-083-119c
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः । KK03-06-083-120a
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ KK03-06-083-120c
शौनकः सह पुत्रेण व्यासश्च तपतांवरः । KK03-06-083-121a
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ॥ KK03-06-083-121c
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः । KK03-06-083-122a
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ KK03-06-083-122c
एष ते लोमशो नाम महर्षिरमितद्युतिः । KK03-06-083-123a
समेष्यति महाराज तेन सार्धमनुव्रज ॥ KK03-06-083-123c
मयाऽपि सह धर्मज्ञ तीर्थान्येतान्यनुक्रमात् । KK03-06-083-124a
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषक् ॥ KK03-06-083-124c
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः । KK03-06-083-125a
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ KK03-06-083-125c
यथा भगीरथो राजा यथा रामश्च विश्रुतः । KK03-06-083-126a
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ KK03-06-083-126c
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः । KK03-06-083-127a
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः ॥ KK03-06-083-127c
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा । KK03-06-083-128a
त्रैलोक्यं पालयामास देवराड्विगतज्वरः ॥ KK03-06-083-128c
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि । KK03-06-083-129a
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन । KK03-06-083-129c
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥ KK03-06-083-129e
वैशम्पायन उवाच KK03-06-083-130
एवमाश्वास्य राजानं नारदो भगवानृषिः । KK03-06-083-130a
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ॥ KK03-06-083-130c
युधिष्ठिरोपि धर्मात्मा तमेवार्थं विचिन्तयन् । KK03-06-083-131a
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत् ॥ KK03-06-083-131c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
3-83-4 अश्वमेधाद्दशगुणमिति क. पाठः ॥ 3-83-29 निदर्शनमुदाहरणम् ॥ 3-83-30 यो योनिसङ्करजः स चेत्तत्र गायत्रीं पठति तस्य सम्यक् पठतोपि तीर्थमाहात्म्यात्सा गायत्री गाथा स्वरनियमहीना गद्यवन्मुखान्निःसरति । गाथिका ग्राम्यगीतवत् स्वरवर्णविकृता ॥ 3-83-31 अब्राह्मणस्य तु प्राक्सिद्धापि तत्र न स्फुरतीति भावः ॥ 3-83-33 ततो वेण्णां समासाद्येति क. ध. पाठः ॥ 3-83-73 चक्रचराः सूर्यादयः ॥ 3-83-75 स्त्रीरूपायाः पृथिव्याः मेरुपृष्ठशीर्षाया हरिद्वारादरभ्य जघनं नाभेरधोभागः ॥ 3-83-77 नदी प्रोक्ता प्रजापतेरिति ध. पाठः ॥ 3-83-83 प्रयागगमनं प्रतीति क. पाठः ॥ 3-83-85 चातुर्वेद्ये च यत्पुण्यमिति क. पाठः ॥ 3-83-103 कैलासे सत्यलोके नाकपृष्ठे च मोदत इति क. पाठः ॥ 3-83-104 अगमानि अगम्यानि । समीक्षया दर्शनेच्छया ॥ 3-83-107 करणैः इन्द्रियैः ॥ 3-83-108 अकृतात्मा अवशीकृतचित्तः ॥ 3-83-114 प्रतिष्ठाने प्रयागे । प्रतिष्ठिता समाप्ता ॥ 3-83-124 महाभिषक् शन्तनुरूपेणावतीर्णः ॥ 3-83-126 रश्मिवान् सूर्यः ॥