अध्यायः 082
पुलस्त्येन भीष्मम्प्रति नानातीर्थमाहात्म्यकथनम् ॥ 1 ॥
पुलस्त्य उवाच KK03-06-082-001
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम् । KK03-06-082-001a
[यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः ॥ KK03-06-082-001c
तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम् ॥] KK03-06-082-002a
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः । KK03-06-082-002c
आसप्तमं कुलं चैव पुनीते नात्र संशयः ॥ KK03-06-082-002e
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम् । KK03-06-082-003a
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥ KK03-06-082-003c
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः । KK03-06-082-004a
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ KK03-06-082-004c
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः । KK03-06-082-005a
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ KK03-06-082-005c
ततश्चापि सरिच्छ्रेष्ठा नदीनामुत्तमा नदी । KK03-06-082-006a
प्लक्षा देवी स्मृता राजन्पुण्या देवी सरस्वती ॥ KK03-06-082-006c
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले । KK03-06-082-007a
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ KK03-06-082-007c
कवेराध्युषितं नाम तत्र तीर्थं सुदुर्लभम् । KK03-06-082-008a
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ KK03-06-082-008c
कपिलानां सहस्रं च वाजिमेधं च विन्दति । KK03-06-082-009a
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ KK03-06-082-009c
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत । KK03-06-082-010a
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ KK03-06-082-010c
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत । KK03-06-082-011a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । KK03-06-082-011c
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ॥ KK03-06-082-011e
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् । KK03-06-082-012a
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ KK03-06-082-012c
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता । KK03-06-082-013a
आहारं सा कृतवती मासिमासि नराधिप ॥ KK03-06-082-013c
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः । KK03-06-082-014a
आतिथ्यं च कृतं तेषां शाकेन किल भारत । KK03-06-082-014c
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ KK03-06-082-014e
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः । KK03-06-082-015a
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ॥ KK03-06-082-015c
शाकाहारस्य यत्किञ्चिद्वर्षैर्द्वादशभिः कृतम् । KK03-06-082-016a
तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ KK03-06-082-016c
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम् । KK03-06-082-017a
तत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ KK03-06-082-017c
वरांश्च सुबहूल्ँलेभे दैवतेषु सुदुर्लभान् । KK03-06-082-018a
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ KK03-06-082-018c
अपि च त्वं प्रियतरो लोके कृष्ण भविष्यसि । KK03-06-082-019a
त्वन्मुखं च जगत्सर्वं भविष्यति न संशयः ॥ KK03-06-082-019c
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् । KK03-06-082-020a
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ KK03-06-082-020c
धूमावतीं ततो गच्छेत्त्रिरात्रोपोषितो नरः । KK03-06-082-021a
मनसा प्रार्थितान्कामाल्ँलभते नात्र संशयः ॥ KK03-06-082-021c
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप । KK03-06-082-022a
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः । KK03-06-082-022c
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥ KK03-06-082-022e
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ । KK03-06-082-023a
धारां नाम महाप्रात्र सर्वपापप्रमोचनीम् ॥ KK03-06-082-023c
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप । KK03-06-082-024a
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् ॥ KK03-06-082-024c
'अशीतियोजनशतं पुष्करं स्वर्गमुच्यते । KK03-06-082-025a
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः ॥ KK03-06-082-025c
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश । KK03-06-082-026a
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम्' ॥ KK03-06-082-026c
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः । KK03-06-082-027a
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ॥ KK03-06-082-027c
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् । KK03-06-082-028a
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ KK03-06-082-028c
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् । KK03-06-082-029a
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते ॥ KK03-06-082-029c
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः । KK03-06-082-030a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-030c
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप । KK03-06-082-031a
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत् ॥ KK03-06-082-031c
नागराजस्य राजेन्द्र कपिलस्य महात्मनः । KK03-06-082-032a
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥ KK03-06-082-032c
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप । KK03-06-082-033a
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ KK03-06-082-033c
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम् । KK03-06-082-034a
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ KK03-06-082-034c
गङ्गायमुनयोर्मध्ये स्नाति यः सङ्गमे नरः । KK03-06-082-035a
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-082-035c
ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम् । KK03-06-082-036a
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ KK03-06-082-036c
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप । KK03-06-082-037a
तत्र स्नात्वा नरो राजन्स्वर्गलोके च गच्छति ॥ KK03-06-082-037c
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे । KK03-06-082-038a
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-038c
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि । KK03-06-082-039a
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते ॥ KK03-06-082-039c
तत कुब्जावतीं गच्छेत्तीर्थसेवी नराधिप । KK03-06-082-040a
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-040c
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप । KK03-06-082-041a
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः ॥ KK03-06-082-041c
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः । KK03-06-082-042a
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत् ॥ KK03-06-082-042c
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः । KK03-06-082-043a
अश्वमेधमवाप्नोति सोमलोकं च गच्छति ॥ KK03-06-082-043c
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् । KK03-06-082-044a
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥ KK03-06-082-044c
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम् । KK03-06-082-045a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-045c
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् । KK03-06-082-046a
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम् ॥ KK03-06-082-046c
अथ वेदीं समासाद्य नरः परमदुर्गमाम् । KK03-06-082-047a
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ KK03-06-082-047c
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत । KK03-06-082-048a
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ KK03-06-082-048c
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः । KK03-06-082-049a
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते ॥ KK03-06-082-049c
यदि तत्र वसेन्मासं शाकाहारो नराधिप । KK03-06-082-050a
'द्वादशाहस्य यज्ञस्य फलं स लभते नरः' ॥ KK03-06-082-050c
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् । KK03-06-082-051a
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ KK03-06-082-051c
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत । KK03-06-082-052a
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ॥ KK03-06-082-052c
तत्र सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् । KK03-06-082-053a
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ॥ KK03-06-082-053c
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने । KK03-06-082-054a
एककालं निराहारो लोकानावसते शुभान् ॥ KK03-06-082-054c
षष्ठाकालोपवासेन मासमुष्य महालये । KK03-06-082-055a
सर्वपापविशुद्धात्मा विन्देद्बहु सुवर्णकम् । KK03-06-082-055c
दशापरान्दशपूर्वान्नरानुद्धरते कुलम् ॥ KK03-06-082-055e
अथ वेतसिकां गत्वा पितामहनिषेविताम् । KK03-06-082-056a
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ KK03-06-082-056c
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् । KK03-06-082-057a
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ॥ KK03-06-082-057c
ततो वै ब्राह्मणं गत्वा ब्रह्मचारी जितेन्द्रियः । KK03-06-082-058a
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ KK03-06-082-058c
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् । KK03-06-082-059a
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ॥ KK03-06-082-059c
नैमिषं मृगयाणस्य पापस्यार्धं प्रणश्यति । KK03-06-082-060a
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ KK03-06-082-060c
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः । KK03-06-082-061a
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैमिषे ॥ KK03-06-082-061c
कृताभिषेकस्तत्रैव नियतो नियताशनः । KK03-06-082-062a
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत । KK03-06-082-062c
पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ KK03-06-082-062e
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः । KK03-06-082-063a
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ॥ KK03-06-082-063c
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम ॥ KK03-06-082-064ac
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः । KK03-06-082-065a
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा ॥ KK03-06-082-065c
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः । KK03-06-082-066a
सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥ KK03-06-082-066c
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः । KK03-06-082-067a
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते । KK03-06-082-067c
देवसत्रस्य यज्ञस्य फलं प्राप्नोति कौरव ॥ KK03-06-082-067e
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम् । KK03-06-082-068a
पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ॥ KK03-06-082-068c
विमलाशोकमासाद्य ब्रह्मचारी समाहितः । KK03-06-082-069a
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ KK03-06-082-069c
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् । KK03-06-082-070a
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः । KK03-06-082-070c
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा ॥ KK03-06-082-070e
रामस्य च प्रसादेन व्यवसायाच्च भारत । KK03-06-082-071a
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप । KK03-06-082-071c
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ KK03-06-082-071e
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन । KK03-06-082-072a
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ KK03-06-082-072c
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ ॥ KK03-06-082-073ac
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः । KK03-06-082-074a
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ KK03-06-082-074c
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् । KK03-06-082-075a
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ KK03-06-082-075c
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप । KK03-06-082-076a
गोसहस्रफलं विद्यात्तेजस्वी च भवेन्नरः ॥ KK03-06-082-076c
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् । KK03-06-082-077a
कपिलाह्रदे नरः स्नात्वा राजसूयमवाप्नुयात् ॥ KK03-06-082-077c
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह । KK03-06-082-078a
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया ॥ KK03-06-082-078c
प्राणानुत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः । KK03-06-082-079a
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ KK03-06-082-079c
गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते । KK03-06-082-080a
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-082-080c
ततो गयां समासाद्य ब्रह्मचारी समाहितः । KK03-06-082-081a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-082-081c
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः । KK03-06-082-082a
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते ॥ KK03-06-082-082c
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः । KK03-06-082-083a
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ KK03-06-082-083c
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् । KK03-06-082-084a
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥ KK03-06-082-084c
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः । KK03-06-082-085a
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ KK03-06-082-085c
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् । KK03-06-082-086a
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ KK03-06-082-086c
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्भुवम् । KK03-06-082-087a
तत्र चिह्नं महद्राजन्नद्यापि सुमहद्भृशम् ॥ KK03-06-082-087c
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम् । KK03-06-082-088a
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ KK03-06-082-088c
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम । KK03-06-082-089a
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत ॥ KK03-06-082-089c
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः । KK03-06-082-090a
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ KK03-06-082-090c
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् । KK03-06-082-091a
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ KK03-06-082-091c
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम् । KK03-06-082-092a
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ ॥ KK03-06-082-092c
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः । KK03-06-082-093a
उपासिता भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥ KK03-06-082-093c
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ । KK03-06-082-094a
तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् ॥ KK03-06-082-094c
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः । KK03-06-082-095a
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ KK03-06-082-095c
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् । KK03-06-082-096a
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥ KK03-06-082-096c
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप । KK03-06-082-097a
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ KK03-06-082-097c
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः । KK03-06-082-098a
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ KK03-06-082-098c
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा । KK03-06-082-099a
पितॄन्देवांस्तु सन्तर्प्य मुक्तपापो दिवं व्रजेत् ॥ KK03-06-082-099c
मतङ्गस्याश्रमस्तत्र महर्षेर्भावितात्मनः ॥ KK03-06-082-100ac
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम् । KK03-06-082-101a
गवामयनयज्ञस्य फलं प्राप्नोति मानवः ॥ KK03-06-082-101c
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात् ॥ KK03-06-082-102ac
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम् । KK03-06-082-103a
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ । KK03-06-082-103c
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥ KK03-06-082-103e
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप । KK03-06-082-104a
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते ॥ KK03-06-082-104c
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः । KK03-06-082-105a
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया ॥ KK03-06-082-105c
मणिनागं ततो गत्वा गोसहस्रफलं लभेत् ॥ KK03-06-082-106ac
तैर्थिकं भुञ्जते यस्तु मणिनागस्य भारत । KK03-06-082-107a
दष्टस्याशीविषेणापि न तस्य क्रमते विषम् ॥ KK03-06-082-107c
तत्रोष्य रजनीभेकां गोसहस्रफलं लभेत् । KK03-06-082-108a
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं प्रियम् ॥ KK03-06-082-108c
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् । KK03-06-082-109a
अभिगम्याश्रमं राजन्विन्दते श्रियमात्मनः ॥ KK03-06-082-109c
तत्रोदपानं धर्मज्ञ त्रिषु लोकेषु विश्रुतम् । KK03-06-082-110a
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ KK03-06-082-110c
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः । KK03-06-082-111a
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ KK03-06-082-111c
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् । KK03-06-082-112a
वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ KK03-06-082-112c
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् । KK03-06-082-113a
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥ KK03-06-082-113c
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम् । KK03-06-082-114a
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-114c
ततोऽधिवङ्गं धर्मज्ञ समाविश्य ततो वनम् । KK03-06-082-115a
गुह्यकेषु महाराज मोदते नात्र संशयः ॥ KK03-06-082-115c
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम् । KK03-06-082-116a
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति ॥ KK03-06-082-116c
अथ माहेश्वरीं धारां समासाद्य धराधिप । KK03-06-082-117a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-082-117c
दिवौकसां पुष्करिणीं समासाद्य नराधिप । KK03-06-082-118a
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति ॥ KK03-06-082-118c
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः । KK03-06-082-119a
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ KK03-06-082-119c
तत्रकोटी तु तीर्थानां विश्रुता भरतर्षभ । KK03-06-082-120a
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना ॥ KK03-06-082-120c
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना । KK03-06-082-121a
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर ॥ KK03-06-082-121c
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति । KK03-06-082-122a
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य च ॥ KK03-06-082-122c
सदा सन्निहितो यत्र विष्णुर्वसति भारत । KK03-06-082-123a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ KK03-06-082-123c
आदित्या वसवो रुद्रा जनार्दनमुपासते । KK03-06-082-124a
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः ॥ KK03-06-082-124c
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् । KK03-06-082-125a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ KK03-06-082-125c
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम् । KK03-06-082-126a
समुद्रास्तत्र चत्वारः कूपे सन्निहिताः सदा । KK03-06-082-126c
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ KK03-06-082-126e
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् । KK03-06-082-127a
विराजति यथा सोमो मेघैर्मुक्तो नराधिप ॥ KK03-06-082-127c
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः । KK03-06-082-128a
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ॥ KK03-06-082-128c
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् । KK03-06-082-129a
ईप्सिताल्ँलभते कामानुपवासान्न संशयः ॥ KK03-06-082-129c
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् । KK03-06-082-130a
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ KK03-06-082-130c
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम् ॥ KK03-06-082-131ac
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम् । KK03-06-082-132a
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ KK03-06-082-132c
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम् । KK03-06-082-133a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ KK03-06-082-133c
अथ जेष्ठिलमासाद्य तीर्थं परमदुर्लभम् । KK03-06-082-134a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ KK03-06-082-134c
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् । KK03-06-082-135a
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ । KK03-06-082-135c
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ॥ KK03-06-082-135e
कन्यासंवेद्यमासाद्य नियतो नियताशनः । KK03-06-082-136a
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ॥ KK03-06-082-136c
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत । KK03-06-082-137a
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ॥ KK03-06-082-137c
ततो निर्वीरमासाद्य त्रिषु लोकेषु विश्रुतम् । KK03-06-082-138a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ KK03-06-082-138c
ये त्विन्धनं प्रयच्छन्ति निर्वीरासङ्गमे नराः । KK03-06-082-139a
ते यान्ति नरशार्दूल शक्रलोकमनामयम् ॥ KK03-06-082-139c
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । KK03-06-082-140a
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ KK03-06-082-140c
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् । KK03-06-082-141a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ KK03-06-082-141c
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् । KK03-06-082-142a
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ॥ KK03-06-082-142c
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ । KK03-06-082-143a
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ KK03-06-082-143c
सर्वतीर्थवरे चैव यो वसेत महाह्रदे । KK03-06-082-144a
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ॥ KK03-06-082-144c
कुमारमभिगम्याथ वीराश्रमनिवासिनम् । KK03-06-082-145a
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ KK03-06-082-145c
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् । KK03-06-082-146a
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ KK03-06-082-146c
अभिगम्य महादेवं वरदं विष्णुमव्ययम् । KK03-06-082-147a
पितामहसरो गत्वा शैलराजसमीपतः । KK03-06-082-147c
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ KK03-06-082-147e
पितामहस्य सरसः प्रस्रुता लोकपावनी । KK03-06-082-148a
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ KK03-06-082-148c
यत्र स्नात्वा कृतार्थोस्मीत्यात्मानमवगच्छति । KK03-06-082-149a
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ KK03-06-082-149c
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः । KK03-06-082-150a
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ॥ KK03-06-082-150c
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत् । KK03-06-082-151a
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् ॥ KK03-06-082-151c
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । KK03-06-082-152a
हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ KK03-06-082-152c
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः । KK03-06-082-153a
अश्वमेधमवाप्नोति ब्रह्मलोकं च गच्छति ॥ KK03-06-082-153c
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम् । KK03-06-082-154a
नरमेधस्य यत्पुण्यं तदाप्नोति नराधिप ॥ KK03-06-082-154c
कालिकासङ्गमे स्नात्वा कौशिक्यरुणयोर्गतः । KK03-06-082-155a
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते ॥ KK03-06-082-155c
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः । KK03-06-082-156a
कुम्भकर्णाश्रमं गत्वा पूज्यते भुवि मानवः ॥ KK03-06-082-156c
कोकामुखमुपस्पृश्य ब्रह्मचारी यतव्रतः । KK03-06-082-157a
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः ॥ KK03-06-082-157c
प्राङ्नदीं च समासाद्य कृतात्मा भवति द्विजः । KK03-06-082-158a
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ KK03-06-082-158c
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम् । KK03-06-082-159a
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ KK03-06-082-159c
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् । KK03-06-082-160a
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते ॥ KK03-06-082-160c
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । KK03-06-082-161a
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ KK03-06-082-161c
अथ पम्पां समासाद्य भागीरथ्यां कृतोदकः । KK03-06-082-162a
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत् ॥ KK03-06-082-162c
'ततो लेवलिकां गच्छेत्पुण्यां पुण्योपसेविताम् । KK03-06-082-163a
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते' ॥ KK03-06-082-163c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥
3-82-8 शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स बलवताक्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु ॥ 3-82-9 पुरातने भविष्यपुराणादौ ॥ 3-82-16 छन्देन इच्छया ॥ 3-82-19 त्वमुखं त्वत्प्रधानम् ॥ 3-82-56 औशनसीं गतिं शुक्रत्वम् ॥ 3-82-71 व्यवसायान्निश्चयात् ॥ 3-82-105 नैत्यकं नैवेद्यम् ॥