अध्यायः 081
पुलस्त्येन भीष्मम्प्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥
पुलस्त्य उवाच KK03-06-081-001
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् । KK03-06-081-001a
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ KK03-06-081-001c
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । KK03-06-081-002a
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ KK03-06-081-002c
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः । KK03-06-081-003a
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ KK03-06-081-003c
दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च । KK03-06-081-004a
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ KK03-06-081-004c
तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर । KK03-06-081-005a
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ KK03-06-081-005c
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते । KK03-06-081-006a
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ KK03-06-081-006c
मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर । KK03-06-081-007a
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ KK03-06-081-007c
गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह । KK03-06-081-008a
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ॥ KK03-06-081-008c
ततश्च मन्तुकं राजन्द्वारपालं महाबलम् । KK03-06-081-009a
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ KK03-06-081-009c
ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम् । KK03-06-081-010a
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः ॥ KK03-06-081-010c
तत्र स्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम् । KK03-06-081-011a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ KK03-06-081-011c
ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । KK03-06-081-012a
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ॥ KK03-06-081-012c
पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत् । KK03-06-081-013a
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ॥ KK03-06-081-013c
दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात् । KK03-06-081-014a
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ॥ KK03-06-081-014c
अग्निष्टोममवाप्नोति नागलोकं च विन्दति । KK03-06-081-015a
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ॥ KK03-06-081-015c
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् । KK03-06-081-016a
ततः पञ्चनदं गत्वा नियतो नियताशनः ॥ KK03-06-081-016c
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् । KK03-06-081-017a
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ॥ KK03-06-081-017c
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् । KK03-06-081-018a
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ॥ KK03-06-081-018c
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् । KK03-06-081-019a
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ॥ KK03-06-081-019c
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः । KK03-06-081-020a
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-081-020c
शतशौचं समासाद्य तीर्थसेवी नराधिप । KK03-06-081-021a
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ॥ KK03-06-081-021c
ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः । KK03-06-081-022a
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ KK03-06-081-022c
तत्रैव च महाराज यक्षिणी लोकविश्रुता । KK03-06-081-023a
तां चाभिगम्य राजेन्द्र सर्वान्कामानवाप्नुयात् ॥ KK03-06-081-023c
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ । KK03-06-081-024a
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥ KK03-06-081-024c
सम्मिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः । KK03-06-081-025a
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ॥ KK03-06-081-025c
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति । KK03-06-081-026a
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ॥ KK03-06-081-026c
तत्र रामेण राजेन्द्र तरसा दीप्ततेजसा । KK03-06-081-027a
क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः ॥ KK03-06-081-027c
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् । KK03-06-081-028a
पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः ॥ KK03-06-081-028c
ततस्ते पितरः प्रीता राममूचुर्नराधिप । KK03-06-081-029a
रामराम महाभाग प्रीताः स्म तव भार्गव ॥ KK03-06-081-029c
अनया पितृभक्त्या च विक्रमेण च ते विभो । KK03-06-081-030a
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ KK03-06-081-030c
एवमुक्तः स राजेन्द्र रामः प्रहरतांवरः । KK03-06-081-031a
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ KK03-06-081-031c
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि । KK03-06-081-032a
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ॥ KK03-06-081-032c
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया । KK03-06-081-033a
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ॥ KK03-06-081-033c
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः । KK03-06-081-034a
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ॥ KK03-06-081-034c
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः । KK03-06-081-035a
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ॥ KK03-06-081-035c
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया । KK03-06-081-036a
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ॥ KK03-06-081-036c
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः । KK03-06-081-037a
ह्रदेषु तेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति ॥ KK03-06-081-037c
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् । KK03-06-081-038a
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ॥ KK03-06-081-038c
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा । KK03-06-081-039a
आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्हितास्ततः ॥ KK03-06-081-039c
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः । KK03-06-081-040a
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः ॥ KK03-06-081-040c
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् । KK03-06-081-041a
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ॥ KK03-06-081-041c
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके । KK03-06-081-042a
कायशोधनमासाद्य तीर्थं भरतसत्तम ॥ KK03-06-081-042c
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः । KK03-06-081-043a
शुद्धदेहश्च संयाति शुभाल्ँलोकाननुत्तमान् ॥ KK03-06-081-043c
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् । KK03-06-081-044a
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ KK03-06-081-044c
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम् । KK03-06-081-045a
स्नात्वा तीर्थवरे राजल्ँलोकानुद्धरते स्वकान् ॥ KK03-06-081-045c
श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः । KK03-06-081-046a
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ॥ KK03-06-081-046c
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः । KK03-06-081-047a
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ॥ KK03-06-081-047c
कपिलानां सहस्रस्य फलं विन्दति मानवः । KK03-06-081-048a
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ KK03-06-081-048c
अर्चयित्वा पितॄन्देवानुपवासपरायणः । KK03-06-081-049a
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ KK03-06-081-049c
गवां भवनासाद्य तीर्थसेवी यथाक्रमम् । KK03-06-081-050a
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ KK03-06-081-050c
शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह । KK03-06-081-051a
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ KK03-06-081-051c
ततो गच्छेत राजेन्द्र द्वारपालमरुन्तुकम् । KK03-06-081-052a
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ KK03-06-081-052c
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् । KK03-06-081-053a
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ॥ KK03-06-081-053c
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् । KK03-06-081-054a
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ॥ KK03-06-081-054c
तत्र सन्निहिता नित्यं पितरो दैवतैः सह । KK03-06-081-055a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ KK03-06-081-055c
अश्वमेधमावाप्नोति पितृलोकं च गच्छति । KK03-06-081-056a
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ॥ KK03-06-081-056c
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम । KK03-06-081-057a
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KK03-06-081-057c
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत । KK03-06-081-058a
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ॥ KK03-06-081-058c
ततः शीतवनं गच्छेन्नियतो नियताशनः । KK03-06-081-059a
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ॥ KK03-06-081-059c
पुनाति गमनादेव कुलमेकं नराधिप । KK03-06-081-060a
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ॥ KK03-06-081-060c
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् । KK03-06-081-061a
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥ KK03-06-081-061c
गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम । KK03-06-081-062a
श्वानलोमापनयने तीर्थे भरतसत्तम ॥ KK03-06-081-062c
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः । KK03-06-081-063a
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् ॥ KK03-06-081-063c
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते । KK03-06-081-064a
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ KK03-06-081-064c
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् । KK03-06-081-065a
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥ KK03-06-081-065c
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः । KK03-06-081-066a
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ॥ KK03-06-081-066c
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते । KK03-06-081-067a
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥ KK03-06-081-067c
आपगा नाम विख्याता नदीसिद्धनिषेविता । KK03-06-081-068a
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः ॥ KK03-06-081-068c
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् । KK03-06-081-069a
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ KK03-06-081-069c
तत्र स्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च । KK03-06-081-070a
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ KK03-06-081-070c
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् । KK03-06-081-071a
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥ KK03-06-081-071c
तत्र सप्तर्षिकुण्डेषु स्नातस्य नरपुङ्गव । KK03-06-081-072a
केदारे चैव राजेन्द्र कपिञ्जलमहामुनेः ॥ KK03-06-081-072c
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः । KK03-06-081-073a
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ KK03-06-081-073c
कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम् । KK03-06-081-074a
अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ॥ KK03-06-081-074c
ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम् । KK03-06-081-075a
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ॥ KK03-06-081-075c
लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति । KK03-06-081-076a
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ॥ KK03-06-081-076c
रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते । KK03-06-081-077a
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ KK03-06-081-077c
तत्र स्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ । KK03-06-081-078a
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ KK03-06-081-078c
किन्दाने च नरः स्नात्वा किञ्जप्ये च महीपते । KK03-06-081-079a
अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ KK03-06-081-079c
कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः । KK03-06-081-080a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ KK03-06-081-080c
शङ्करस्य तु पूर्वेण नारदस्य महात्मनः । KK03-06-081-081a
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ॥ KK03-06-081-081c
तत्र तीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत । KK03-06-081-082a
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमान् ॥ KK03-06-081-082c
शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत् । KK03-06-081-083a
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ॥ KK03-06-081-083c
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् । KK03-06-081-084a
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ॥ KK03-06-081-084c
तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम् । KK03-06-081-085a
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ KK03-06-081-085c
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् । KK03-06-081-086a
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥ KK03-06-081-086c
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् । KK03-06-081-087a
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ॥ KK03-06-081-087c
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत । KK03-06-081-088a
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम ॥ KK03-06-081-088c
गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः । KK03-06-081-089a
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः ॥ KK03-06-081-089c
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत । KK03-06-081-090a
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ॥ KK03-06-081-090c
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् । KK03-06-081-091a
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ KK03-06-081-091c
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । KK03-06-081-092a
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ KK03-06-081-092c
ततो व्यासवनं गच्छेन्नियतो नियताशनः । KK03-06-081-093a
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-081-093c
गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः । KK03-06-081-094a
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ॥ KK03-06-081-094c
स देव्या समनुज्ञातो गोसहस्रफलं लभेत् । KK03-06-081-095a
कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत ॥ KK03-06-081-095c
स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते । KK03-06-081-096a
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ॥ KK03-06-081-096c
पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः । KK03-06-081-097a
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ॥ KK03-06-081-097c
अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत् । KK03-06-081-098a
किन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ॥ KK03-06-081-098c
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह । KK03-06-081-099a
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-081-099c
अहश्च सुदिनं चैव द्वे तीर्थे लोकविश्रुते । KK03-06-081-100a
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ KK03-06-081-100c
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् । KK03-06-081-101a
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ॥ KK03-06-081-101c
अर्चयित्वा महादेवमश्वमेधफलं लभेत् । KK03-06-081-102a
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-081-102c
ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् । KK03-06-081-103a
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ॥ KK03-06-081-103c
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति । KK03-06-081-104a
कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं ततः ॥ KK03-06-081-104c
पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम् । KK03-06-081-105a
तत्र स्नात्वा नरव्याघ्र विष्णुलोके महीयते ॥ KK03-06-081-105c
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् । KK03-06-081-106a
अमराणां प्रभावेन स्वर्गलोके महीयते ॥ KK03-06-081-106c
शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि । KK03-06-081-107a
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ KK03-06-081-107c
श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम । KK03-06-081-108a
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ॥ KK03-06-081-108c
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह । KK03-06-081-109a
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ॥ KK03-06-081-109c
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा । KK03-06-081-110a
'तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ।' KK03-06-081-110c
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ॥ KK03-06-081-110e
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् । KK03-06-081-111a
तस्मिन्कुञ्जे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ KK03-06-081-111c
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् । KK03-06-081-112a
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ KK03-06-081-112c
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् । KK03-06-081-113a
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ KK03-06-081-113c
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् । KK03-06-081-114a
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् ॥ KK03-06-081-114c
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् । KK03-06-081-115a
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ॥ KK03-06-081-115c
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः । KK03-06-081-116a
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ॥ KK03-06-081-116c
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् । KK03-06-081-117a
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ KK03-06-081-117c
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत् । KK03-06-081-118a
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ KK03-06-081-118c
ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः । KK03-06-081-119a
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ॥ KK03-06-081-119c
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि । KK03-06-081-120a
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा । KK03-06-081-120c
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ KK03-06-081-120e
भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । KK03-06-081-121a
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥ KK03-06-081-121c
ऋषिरुवाच KK03-06-081-122
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम । KK03-06-081-122a
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ॥ KK03-06-081-122c
यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः । KK03-06-081-123a
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ॥ KK03-06-081-123c
अहं तु विस्मयं विप्र न गच्छामीति पश्य माम् । KK03-06-081-124a
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ॥ KK03-06-081-124c
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ । KK03-06-081-125a
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥ KK03-06-081-125c
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः । KK03-06-081-126a
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ॥ KK03-06-081-126c
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत् । KK03-06-081-127a
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ॥ KK03-06-081-127c
त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये । KK03-06-081-128a
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ KK03-06-081-128c
त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ । KK03-06-081-129a
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह ॥ KK03-06-081-129c
त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः । KK03-06-081-130a
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ॥ KK03-06-081-130c
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै । KK03-06-081-131a
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ KK03-06-081-131c
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः । KK03-06-081-132a
आश्रमे चेह वत्स्यामि त्वया सह महामुने ॥ KK03-06-081-132c
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् । KK03-06-081-133a
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥ KK03-06-081-133c
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः । KK03-06-081-134a
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ KK03-06-081-134c
पुलस्त्य उवाच KK03-06-081-135
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् । KK03-06-081-135a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ KK03-06-081-135c
कार्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत । KK03-06-081-136a
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ॥ KK03-06-081-136c
कपालमोचनं तीर्थं सर्वपापप्रमोचनम् । KK03-06-081-137a
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ KK03-06-081-137c
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ । KK03-06-081-138a
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ॥ KK03-06-081-138c
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम । KK03-06-081-139a
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ॥ KK03-06-081-139c
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । KK03-06-081-140a
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ KK03-06-081-140c
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः । KK03-06-081-141a
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ KK03-06-081-141c
पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप । KK03-06-081-142a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ KK03-06-081-142c
अज्ञानाज्ज्ञानतो वाऽपि स्त्रिया वा पुरुषेण वा । KK03-06-081-143a
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥ KK03-06-081-143c
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत । KK03-06-081-144a
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ॥ KK03-06-081-144c
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती । KK03-06-081-145a
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ KK03-06-081-145c
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् । KK03-06-081-146a
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ॥ KK03-06-081-146c
गीतं सनत्कुमारेण व्यासेन च महात्मना । KK03-06-081-147a
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ॥ KK03-06-081-147c
पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह । KK03-06-081-148a
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ॥ KK03-06-081-148c
तत्र स्नात्वा दिवं यान्ति येऽपि पापकृतो नराः । KK03-06-081-149a
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ॥ KK03-06-081-149c
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम । KK03-06-081-150a
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ KK03-06-081-150c
ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम् । KK03-06-081-151a
सरस्वत्यारुणायाश्च सङ्गमे लोकविश्रुते ॥ KK03-06-081-151c
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया । KK03-06-081-152a
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ KK03-06-081-152c
आसप्तमं कुलं चैव पुनाति भरतर्षभ । KK03-06-081-153a
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ KK03-06-081-153c
विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मितं पुरा । KK03-06-081-154a
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ॥ KK03-06-081-154c
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः । KK03-06-081-155a
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ । KK03-06-081-155c
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ॥ KK03-06-081-155e
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा । KK03-06-081-156a
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ॥ KK03-06-081-156c
फलानि गोसहस्राणां चतुर्णां विन्दते च सः । KK03-06-081-157a
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ॥ KK03-06-081-157c
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते । KK03-06-081-158a
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-081-158c
दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत् । KK03-06-081-159a
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥ KK03-06-081-159c
तीर्थाभिषेकं कुर्वीत पितृदेवार्चने रतः । KK03-06-081-160a
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ KK03-06-081-160c
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः । KK03-06-081-161a
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥ KK03-06-081-161c
ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः । KK03-06-081-162a
पुण्येन महता युक्तः सतां लोके महीयते ॥ KK03-06-081-162c
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः । KK03-06-081-163a
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ॥ KK03-06-081-163c
तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा । KK03-06-081-164a
यत्र ब्रह्मादिभिर्दैवैर्ऋषिभिश्च तपोधनैः ॥ KK03-06-081-164c
सैनापत्येन देवानामभिषिक्तो गुहस्तदा । KK03-06-081-165a
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥ KK03-06-081-165c
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः । KK03-06-081-166a
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ KK03-06-081-166c
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः । KK03-06-081-167a
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ KK03-06-081-167c
ततो गच्छेदनरकं तीर्थसेवी नराधिप । KK03-06-081-168a
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ KK03-06-081-168c
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते । KK03-06-081-169a
अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः ॥ KK03-06-081-169c
सान्निध्यं तत्र राजेन्द्र रुद्रपत्न्याः कुरूद्वह । KK03-06-081-170a
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ KK03-06-081-170c
तत्रैव च महाराज विश्वेश्वरमुमापतिम् । KK03-06-081-171a
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ KK03-06-081-171c
नारायणं चाभिगम्य पद्मनाभमरिन्दम । KK03-06-081-172a
राजमानो महाराज विष्णुलोकं च गच्छति ॥ KK03-06-081-172c
तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ । KK03-06-081-173a
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ॥ KK03-06-081-173c
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप । KK03-06-081-174a
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ॥ KK03-06-081-174c
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः । KK03-06-081-175a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत ॥ KK03-06-081-175c
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ । KK03-06-081-176a
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ KK03-06-081-176c
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते । KK03-06-081-177a
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ KK03-06-081-177c
गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत् । KK03-06-081-178a
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ KK03-06-081-178c
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् । KK03-06-081-179a
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ॥ KK03-06-081-179c
बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः । KK03-06-081-180a
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ॥ KK03-06-081-180c
त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप । KK03-06-081-181a
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ KK03-06-081-181c
अहोरात्रोपवासेन शक्रलोके महीयते । KK03-06-081-182a
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ KK03-06-081-182c
नियतः सत्यवादी च ब्रह्मलोके महीयते । KK03-06-081-183a
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ KK03-06-081-183c
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः । KK03-06-081-184a
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्॥ KK03-06-081-184c
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् । KK03-06-081-185a
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ॥ KK03-06-081-185c
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः । KK03-06-081-186a
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥ KK03-06-081-186c
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् । KK03-06-081-187a
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ॥ KK03-06-081-187c
तस्मिंस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् । KK03-06-081-188a
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ KK03-06-081-188c
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् । KK03-06-081-189a
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ॥ KK03-06-081-189c
लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति । KK03-06-081-190a
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ॥ KK03-06-081-190c
तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । KK03-06-081-191a
मासिमासि समायान्ति पुण्येन महताऽन्विताः ॥ KK03-06-081-191c
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । KK03-06-081-192a
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ॥ KK03-06-081-192c
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च । KK03-06-081-193a
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ॥ KK03-06-081-193c
उदपानानि वाप्यश्च तीर्थान्यायतनानि च । KK03-06-081-194a
निःसंशयममावास्यां समेष्यन्ति नराधिप ॥ KK03-06-081-194c
मासिमासि नरव्याघ्र सन्निहत्यां न संशयः । KK03-06-081-195a
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ॥ KK03-06-081-195c
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते । KK03-06-081-196a
अमावास्यां तु तत्रैव राहुग्रस्ते दिवाकरे ॥ KK03-06-081-196c
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु । KK03-06-081-197a
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ॥ KK03-06-081-197c
स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः । KK03-06-081-198a
यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषेण वा ॥ KK03-06-081-198c
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः । KK03-06-081-199a
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ KK03-06-081-199c
अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम् । KK03-06-081-200a
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ॥ KK03-06-081-200c
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम । KK03-06-081-201a
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ॥ KK03-06-081-201c
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः । KK03-06-081-202a
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥ KK03-06-081-202c
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । KK03-06-081-203a
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ॥ KK03-06-081-203c
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् । KK03-06-081-204a
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥ KK03-06-081-204c
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे । KK03-06-081-205a
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । KK03-06-081-205c
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥ KK03-06-081-205e
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् । KK03-06-081-206a
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथञ्चन ॥ KK03-06-081-206c
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च । KK03-06-081-207a
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥ KK03-06-081-207c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥
3-81-7 कुत्सितं रौतीति कुरु पापं तस्य क्षेपणात्त्रायत इति कुरुक्षेत्रं पापनिवर्तकम् ॥ 3-81-9 ततश्च मन्दुकं राजन्निति ध. पाठः । ततो मचक्रुकं नामेति झ. पाठः ॥ 3-81-63 प्राणायामैर्हरन्तीह श्वानलोमा द्विजोत्तमा इति ध. पाठः ॥ 3-81-125 हिमसन्निभम् अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ॥ 3-81-192 सन्निहत्यां कुरुक्षेत्रे ॥