अध्यायः 080

पुलस्त्येन भीष्मम्प्रति पुष्करादितीर्थमहिमानुवर्णनम् ॥ 1 ॥

पुलस्त्य उवाच KK03-06-080-001
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । KK03-06-080-001a
सत्येन च महाभाग तुष्टोस्मि तव सुव्रत ॥ KK03-06-080-001c
यस्येदृशस्ते धर्मोऽयं पितृवाक्याश्रितोऽनघ । KK03-06-080-002a
तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि ॥ KK03-06-080-002c
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते । KK03-06-080-003a
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥ KK03-06-080-003c
भीष्म उवाच KK03-06-080-004
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते । KK03-06-080-004a
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ KK03-06-080-004c
यदि त्वहमनुग्राह्यस्तव धर्मभृतांवर । KK03-06-080-005a
सन्देहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि ॥ KK03-06-080-005c
अस्ति मे भगवन्कश्चित्तीर्थानि प्रति संशयः । KK03-06-080-006a
तमहं श्रोतुमिच्छामि तद्भवान्वक्तुमर्हति ॥ KK03-06-080-006c
प्रदक्षिणां यः पृथिवीं करोत्यमरसन्निभ । KK03-06-080-007a
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥ KK03-06-080-007c
पुलस्त्य उवाच KK03-06-080-008
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् । KK03-06-080-008a
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ KK03-06-080-008c
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । KK03-06-080-009a
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ KK03-06-080-009c
प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित् । KK03-06-080-010a
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥ KK03-06-080-010c
अकल्कको निरारम्भो लध्वाहारो जितेन्द्रियः । KK03-06-080-011a
विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते ॥ KK03-06-080-011c
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः । KK03-06-080-012a
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ KK03-06-080-012c
ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम् । KK03-06-080-013a
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ KK03-06-080-013c
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते । KK03-06-080-014a
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ KK03-06-080-014c
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित् । KK03-06-080-015a
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ KK03-06-080-015c
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर । KK03-06-080-016a
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधांवर ॥ KK03-06-080-016c
ऋषीणां परमं गुह्यमिदं भरतसत्तम । KK03-06-080-017a
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ KK03-06-080-017c
अनपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । KK03-06-080-018a
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ KK03-06-080-018c
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । KK03-06-080-019a
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ KK03-06-080-019c
सर्वतीर्थेषु राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् । KK03-06-080-020a
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ KK03-06-080-020c
दशकोटिसहस्राणि तीर्थानां वै महामते । KK03-06-080-021a
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥ KK03-06-080-021c
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । KK03-06-080-022a
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो ॥ KK03-06-080-022c
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । KK03-06-080-023a
'तपोविशेषैर्बहुभिः स्थानान्यापुर्महौजसः' । KK03-06-080-023c
दिव्ययोगा महाराज पुण्येन महताऽन्विताः ॥ KK03-06-080-023e
मनसाभ्येतुकामस्य पुष्कराणि मनस्विनः । KK03-06-080-024a
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ KK03-06-080-024c
तस्मिंस्तीर्थे महाभागो नित्यमेव पितामहः । KK03-06-080-025a
उवास परमप्रीतो देवदानवसत्तमः ॥ KK03-06-080-025c
पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा । KK03-06-080-026a
सिद्धिं समभिसम्प्राप्ताः पुण्येन महताऽन्विताः ॥ KK03-06-080-026c
तत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् । KK03-06-080-027a
सर्वपापविनिर्मुक्तो ब्रह्मलोके च पूज्यते ॥ KK03-06-080-027c
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः । KK03-06-080-028a
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥ KK03-06-080-028c
शाकैर्मूलैः फलैर्वाऽपि येन वर्तयते स्वयम् । KK03-06-080-029a
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः । KK03-06-080-029c
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ KK03-06-080-029e
'अपि वाऽप्युदपात्रेण ब्राह्मणान्स्वस्ति वाचयेत् । KK03-06-080-030a
तेनापि पूजनेनाशु प्रेत्यानन्त्याय कल्पते' ॥ KK03-06-080-030c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम । KK03-06-080-031a
न वै योनौ प्रजायन्ते स्नातास्तीर्थे महात्मनः ॥ KK03-06-080-031c
कार्तिक्यां तु विशेषेण योऽभिगच्छति पुष्करम् । KK03-06-080-032a
'फलं तत्राक्षयं तेन लभते भरतर्षभ' ॥ KK03-06-080-032c
सायम्प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । KK03-06-080-033a
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत । KK03-06-080-033c
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ KK03-06-080-033e
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा । KK03-06-080-034a
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ KK03-06-080-034c
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । KK03-06-080-035a
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ KK03-06-080-035c
उष्य द्वादशवर्षाणि पुष्करे नियतः शुचिः । KK03-06-080-036a
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति ॥ KK03-06-080-036c
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते । KK03-06-080-037a
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ KK03-06-080-037c
[त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च । KK03-06-080-038a
पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम् ॥] KK03-06-080-038c
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः । KK03-06-080-039a
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ KK03-06-080-039c
उष्य द्वादशरात्रं तु नियतो नियताशनः । KK03-06-080-040a
प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत् ॥ KK03-06-080-040c
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् । KK03-06-080-041a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ KK03-06-080-041c
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः । KK03-06-080-042a
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥ KK03-06-080-042c
'तत्रगत्वा महाप्राज्ञः कुर्याच्छ्राद्धं दृढव्रतः । KK03-06-080-043a
वाजपेयमवाप्नोति दुष्कृतं चास्य नश्यति' ॥ KK03-06-080-043c
जम्बूमार्गादुपावृत्य गच्छेत्स्थण्डिलकाश्रमम् । KK03-06-080-044a
न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति ॥ KK03-06-080-044c
आगस्त्यं सर आसाद्य पितृदेवार्चने रतः । KK03-06-080-045a
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ KK03-06-080-045c
शाकवृत्तिः फलैर्वाऽपि कौमारं विन्दते पदम् । KK03-06-080-046a
कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकपूजितम् ॥ KK03-06-080-046c
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ । KK03-06-080-047a
यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते ॥ KK03-06-080-047c
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः । KK03-06-080-048a
सर्वकामसमृद्धः स्याद्यज्ञस्य फलमश्नुते ॥ KK03-06-080-048c
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् । KK03-06-080-049a
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥ KK03-06-080-049c
महाकालं ततो गच्छेन्नियतो नियताशनः । KK03-06-080-050a
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ KK03-06-080-050c
ततो गच्छेत धर्मज्ञः स्थाणोस्तीर्थमुमापतेः । KK03-06-080-051a
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ KK03-06-080-051c
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् । KK03-06-080-052a
महादेवप्रसादाच्च गाणपत्यं च विन्दति ॥ KK03-06-080-052c
समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः । KK03-06-080-053a
'राज्ञां चैवाधिपत्यं हि तत्र गत्वा समाप्नुयात् ॥' KK03-06-080-053c
नर्मदां स समासाद्य नदीं त्रैलोक्यविश्रुताम् । KK03-06-080-054a
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ॥ KK03-06-080-054c
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः । KK03-06-080-055a
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ KK03-06-080-055c
चर्मण्वतीं समासाद्य नियतो नियताशनः । KK03-06-080-056a
रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत् ॥ KK03-06-080-056c
ततो गच्छेत धर्मज्ञं हिमवत्सुतमर्बुदम् । KK03-06-080-057a
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ KK03-06-080-057c
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । KK03-06-080-058a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ KK03-06-080-058c
पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः । KK03-06-080-059a
कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते ॥ KK03-06-080-059c
ततो गच्छेत राजेन्द्र प्रभासं लोकविश्रुतम् । KK03-06-080-060a
'तीर्थं देवगणैः पूज्यमृषिभिश्च निषेवितम्' ॥ KK03-06-080-060c
तत्र सन्निहितो नित्यं स्वयमेव हुताशनः । KK03-06-080-061a
देवतानां मुखं वीर ज्वलनोऽनिलसारथिः ॥ KK03-06-080-061c
तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः । KK03-06-080-062a
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ KK03-06-080-062c
ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे । KK03-06-080-063a
गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति । KK03-06-080-063c
प्रभया दीप्यते नित्यमग्निवद्भरतर्षभ ॥ KK03-06-080-063e
तत्र स्नात्वा च राजेन्द्र विमलार्कसमद्युतिः । KK03-06-080-064a
त्रिरात्रमुषितः स्नातस्तर्पयेत्पितृदेवताः । KK03-06-080-064c
प्रभासते यथा सोमः सोश्वमेधं च विन्दति ॥ KK03-06-080-064e
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । KK03-06-080-065a
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर । KK03-06-080-065c
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ॥ KK03-06-080-065e
ततो द्वारवतीं गच्छेन्नियतो नियताशनः । KK03-06-080-066a
पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ KK03-06-080-066c
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः । KK03-06-080-067a
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम ॥ KK03-06-080-067c
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन । KK03-06-080-068a
महादेवस्य सान्निध्यं तत्र वै पुरुषर्षभ ॥ KK03-06-080-068c
सागरस्य च सिन्धोश्च सङ्गमं प्राप्य दुर्लभम् । KK03-06-080-069a
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ KK03-06-080-069c
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ । KK03-06-080-070a
प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा ॥ KK03-06-080-070c
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर । KK03-06-080-071a
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ KK03-06-080-071c
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ । KK03-06-080-072a
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ KK03-06-080-072c
शमीति नाम्ना विख्यातं सर्वपापप्रणाशनम् । KK03-06-080-073a
तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ KK03-06-080-073c
तत्र स्नात्वाऽर्चयित्वा च रुद्रं देवगणैर्वृतम् । KK03-06-080-074a
जन्मप्रभृति यत्पापं तत्स्नातस्य प्रणश्यति ॥ KK03-06-080-074c
शमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता । KK03-06-080-075a
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ KK03-06-080-075c
गत्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना । KK03-06-080-076a
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ KK03-06-080-076c
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् । KK03-06-080-077a
गमनादेव तस्यां हि हयमेधफलं लभेत् ॥ KK03-06-080-077c
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः । KK03-06-080-078a
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ KK03-06-080-078c
तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ । KK03-06-080-079a
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत् ॥ KK03-06-080-079c
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् । KK03-06-080-080a
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥ KK03-06-080-080c
ब्रह्मतीर्थं समासाद्य शुचिः शीलसमन्वितः । KK03-06-080-081a
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत् ॥ KK03-06-080-081c
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् । KK03-06-080-082a
तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात् ॥ KK03-06-080-082c
रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम् । KK03-06-080-083a
तत्र स्नात्वा भवेद्विप्रो निर्मलश्चन्द्रमा यथा ॥ KK03-06-080-083c
अथ पञ्चनदं गत्वा नियतो नियताशनः । KK03-06-080-084a
पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ KK03-06-080-084c
ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम् । KK03-06-080-085a
तत्र स्नात्वा न योन्यां वै भवेद्भरतसत्तम ॥ KK03-06-080-085c
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलभूषणः । KK03-06-080-086a
गवां शतसहस्रस्य फलं प्राप्नोति मानवः ॥ KK03-06-080-086c
गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् । KK03-06-080-087a
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ KK03-06-080-087c
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् । KK03-06-080-088a
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ KK03-06-080-088c
तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात् । KK03-06-080-089a
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ KK03-06-080-089c
वितस्तां च समासाद्य सन्तर्प्य पितृदेवताः । KK03-06-080-090a
नरः फलमवाप्नोति वाजपेयस्य भारत ॥ KK03-06-080-090c
काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च । KK03-06-080-091a
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ KK03-06-080-091c
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् । KK03-06-080-092a
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ KK03-06-080-092c
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् । KK03-06-080-093a
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ॥ KK03-06-080-093c
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् । KK03-06-080-094a
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ KK03-06-080-094c
ऋषयः पितरो देवा गन्धर्वाप्सरसां गणाः । KK03-06-080-095a
गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः ॥ KK03-06-080-095c
राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप । KK03-06-080-096a
नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम् ॥ KK03-06-080-096c
विष्णोः प्रसादनं कुर्वंश्चरुं च श्रपयंस्तथा । KK03-06-080-097a
सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम् ॥ KK03-06-080-097c
ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः । KK03-06-080-098a
यथाभिलषितानन्यान्कामान्दत्वा महीपते ॥ KK03-06-080-098c
तत्रैवान्तर्दधे देवो विद्युदभ्रेषु वै यथा । KK03-06-080-099a
नाम्ना सप्तचरुं तेन ख्यातं लोकेषु भारत ॥ KK03-06-080-099c
गवां शतसहस्रेण राजसूयशतेन च । KK03-06-080-100a
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषे चरुः ॥ KK03-06-080-100c
ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत् । KK03-06-080-101a
अर्चयित्वा महादेवमश्वमेधफलं लभेत् । KK03-06-080-101c
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः । KK03-06-080-102a
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ KK03-06-080-102c
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् । KK03-06-080-103a
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ KK03-06-080-103c
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् । KK03-06-080-104a
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ KK03-06-080-104c
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ । KK03-06-080-105a
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ KK03-06-080-105c
कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम् । KK03-06-080-106a
तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत ॥ KK03-06-080-106c
यजनं याजनं चैव तथैव ब्रह्मवालुकम् । KK03-06-080-107a
पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः ॥ KK03-06-080-107c
अर्धयोजनविस्तारां पञ्चयोजनमायताम् । KK03-06-080-108a
एतां हि देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ KK03-06-080-108c
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । KK03-06-080-109a
तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः । KK03-06-080-109c
दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः ॥ KK03-06-080-109e
गमनादेव राजेन्द्र दीर्घसत्रमरिन्दम । KK03-06-080-110a
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥ KK03-06-080-110c
ततो विनशनं गच्छेन्नियतो नियताशनः । KK03-06-080-111a
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती ॥ KK03-06-080-111c
चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते । KK03-06-080-112a
'तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।' KK03-06-080-112c
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥ KK03-06-080-112e
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् । KK03-06-080-113a
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ॥ KK03-06-080-113c
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् । KK03-06-080-114a
शतरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ KK03-06-080-114c
सरस्वत्यां महाराज शतं संवत्सरं च ते । KK03-06-080-115a
दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥ KK03-06-080-115c
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा । KK03-06-080-116a
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ KK03-06-080-116c
कुमारकोटीमासाद्य नियतः कुरुनन्दन । KK03-06-080-117a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ KK03-06-080-117c
गवामयुतमाप्नोति कुलं चैव समुद्धरेत् । KK03-06-080-118a
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥ KK03-06-080-118c
पुरा यत्र महाराज मुनिकोटिः समागता । KK03-06-080-119a
हर्षेण महताऽऽविष्टा रुद्रदर्शनकाङ्क्षया ॥ KK03-06-080-119c
अहम्पूर्वमहम्पूर्वं द्रक्ष्यामि वृषभध्वजम् । KK03-06-080-120a
एवं सम्प्रस्थिता राजन्नृषयः किल भारत ॥ KK03-06-080-120c
ततो योगीश्वरेणापि योगमास्थाय भूपते । KK03-06-080-121a
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ KK03-06-080-121c
स्रष्टा कोटीस्तु रुद्राणामृषीणामग्रतः स्थिता । KK03-06-080-122a
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ KK03-06-080-122c
तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम् । KK03-06-080-123a
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥ KK03-06-080-123c
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति । KK03-06-080-124a
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ KK03-06-080-124c
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् । KK03-06-080-125a
ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम् ॥ KK03-06-080-125c
सरस्वत्या महापुण्यं केशवं समुपासते । KK03-06-080-126a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ KK03-06-080-126c
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् । KK03-06-080-127a
तत्र स्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम् । KK03-06-080-127c
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ KK03-06-080-127e
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप । KK03-06-080-128a
तत्रावसानमासाद्य गोसहस्रफलं लभेत् । KK03-06-080-128c

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

3-80-10 अपावृत्तो निवृत्तः । सन्तुष्टो नियतः शुचिरिति क. ध. पाठः ॥ 3-80-11 अकल्ककः दम्भादिहीनः ॥ 3-80-20 नृलोके देवदेवस्य तीर्थमिति झ. पाठः ॥ 3-80-27 पितृदेवार्चने रतः इति झ. पाठः ॥ 3-80-35 उपस्पृष्टं स्नातं भवेत् ॥ 3-80-33 उष्य वासं कृत्वा ॥ 3-80-36 पुण्यं स्थानमुमापतेरिति ध. पाठः ॥ 3-80-51 पिकतीर्थमिति ध. पाठः ॥ 3-80-59 तस्मिंस्तीर्थे नरः स्नात्वा पुण्यलक्षणलक्षितः इति ध. पाठः ॥ 3-80-67 दमीतीति प्रमीतीति क्रमेण क. ध. पाठः ॥ 3-80-73 भद्रतुङ्गं समासाद्येति झ. पाठः । अवाप्नोति सुकृती विरजानर इति ध. पाठः ॥ 3-80-81 श्रीकुण्डं तुं समासाद्येति झ. पाठः ॥ 3-80-93 ततो गच्छेत बडबामिति झ. पाठः ॥ 3-80-101 भद्रपादमुपविशेदिति ध. पाठः ॥ 3-80-107 पुष्पजायामुपस्पृश्येति ध. पाठः ॥ 3-80-109 दक्षिणाभिर्यतव्रता इति क. ध. पाठः ॥ 3-80-112 चमसे चमसोद्भेदे इति ध. पाठः ॥ 3-80-114 शतह्रदं च राजेन्द्रेति क. ध.पाठः ॥ 3-80-118 गवां मेधमवाप्नोतीति क. ध. पाठः ॥