अध्यायः 079
युधिष्ठिरेण काम्यकवनमुपागतं नारदम्प्रति भूप्रादक्षिण्येन तीर्थयात्राफलप्रश्नः ॥ 1 ॥ नारदेन तत्कथनाय पुलस्त्यभीष्मसंवादानुवादारम्भः ॥ 2 ॥
वैशम्पायन उवाच KK03-06-079-001
'धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः । KK03-06-079-001a
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया' ॥ KK03-06-079-001c
धनञ्जयोत्सुकानां तु भ्रातॄणां कृष्णया सह । KK03-06-079-002a
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत ॥ KK03-06-079-002c
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् । KK03-06-079-003a
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ KK03-06-079-003c
तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट् । KK03-06-079-004a
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने ॥ KK03-06-079-004c
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः । KK03-06-079-005a
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ KK03-06-079-005c
यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन् । KK03-06-079-006a
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ KK03-06-079-006c
'अर्ध्यं पाद्यमथानीय त्वभ्यवादयदच्युतः । KK03-06-079-007a
नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत ॥ KK03-06-079-007c
ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम् । KK03-06-079-008a
यथार्हं पूजयामास विधिवत्कुरुनन्दनः' ॥ KK03-06-079-008c
प्रतिगृह्य च तां पूजां नारदो भगवानृषिः । KK03-06-079-009a
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥ KK03-06-079-009c
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् । KK03-06-079-010a
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते ॥ KK03-06-079-010c
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह । KK03-06-079-011a
उवाच प्राञ्जलिर्भूत्वा नारदं देवसम्मितम् ॥ KK03-06-079-011c
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । KK03-06-079-012a
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ KK03-06-079-012c
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ । KK03-06-079-013a
सन्देहं मे मुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि ॥ KK03-06-079-013c
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः । KK03-06-079-014a
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति ॥ KK03-06-079-014c
नारद उवाच KK03-06-079-015
शृणु राजन्नवहितो यथा भीष्मेण धीमता । KK03-06-079-015a
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ KK03-06-079-015c
पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः । KK03-06-079-016a
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह ॥ KK03-06-079-016c
शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते । KK03-06-079-017a
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते ॥ KK03-06-079-017c
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः । KK03-06-079-018a
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ KK03-06-079-018c
कस्यचित्त्वथ कालस्य जपन्नेव महायशाः । KK03-06-079-019a
ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् ॥ KK03-06-079-019c
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया । KK03-06-079-020a
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ KK03-06-079-020c
उपस्थितं महाभागं पूजयामास भारत । KK03-06-079-021a
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ KK03-06-079-021c
शिरसा चार्घमादाय शुचिः प्रयतमानसः । KK03-06-079-022a
नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ KK03-06-079-022c
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत । KK03-06-079-023a
तव सन्दर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥ KK03-06-079-023c
एवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः । KK03-06-079-024a
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ KK03-06-079-024c
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् । KK03-06-079-025a
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥ KK03-06-079-025c
'ततः स मधुरेणाथ स्वरेण सुमहातपाः । KK03-06-079-026a
उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः' ॥ KK03-06-079-026c
इति श्रीमन्माहाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥