अध्यायः 078
अर्जुनविनाभावेन काम्यकवने निवासमरोचयानैः पाण्डवैस्तस्मान्निर्गमननिर्धारणम् ॥ 1 ॥
जनमेजय उवाच KK03-06-078-001
भगवान्काम्यकात्पार्थे गते मे प्रपितामहे । KK03-06-078-001a
पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम् ॥ KK03-06-078-001c
स हि तेषां महेष्वासो गतिरासीदनीकजित् । KK03-06-078-002a
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥ KK03-06-078-002c
तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना । KK03-06-078-003a
विनाभूता वने वीराः कथमासन्पितामहाः ॥ KK03-06-078-003c
वैशम्पायन उवाच KK03-06-078-004
गते तु पाण्डवे तात काम्यकात्सव्यसाचिनि । KK03-06-078-004a
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥ KK03-06-078-004c
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इवाण्डजाः । KK03-06-078-005a
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥ KK03-06-078-005c
वनं तु तदभूत्तेन हीनमक्लिष्टकर्मणा । KK03-06-078-006a
कुबेरेण यथाहीनं वनं चैत्ररथं तथा ॥ KK03-06-078-006c
तमृते ते नरव्याघ्राः पाण्डवा जनमेजय । KK03-06-078-007a
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥ KK03-06-078-007c
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः । KK03-06-078-008a
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥ KK03-06-078-008c
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिन्दमाः । KK03-06-078-009a
प्रविसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥ KK03-06-078-009c
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः । KK03-06-078-010a
अहृष्टमनसः सर्वे गते राजन्धनञ्जये ॥ KK03-06-078-010c
अथ विप्रोषितं राजन्पाञ्चाली मध्यमं पतिम् । KK03-06-078-011a
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ KK03-06-078-011c
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना । KK03-06-078-012a
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥ KK03-06-078-012c
शून्यामिव प्रपश्यामि तत्रतत्र महीमिमाम् । KK03-06-078-013a
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ॥ KK03-06-078-013c
न तथा रमणीयं वै तमृते सव्यसाचिनम् । KK03-06-078-014a
नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम् ॥ KK03-06-078-014c
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे । KK03-06-078-015a
यस्य वा धनुषो घोषः श्रूयते चाशनिस्वनः । KK03-06-078-015c
न लभे शर्म वै राजन्स्मरन्ती सव्यसाचिनम् ॥ KK03-06-078-015e
तथा लालप्यमानां तां निशाम्य परवीरहा । KK03-06-078-016a
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥ KK03-06-078-016c
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे । KK03-06-078-017a
तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ॥ KK03-06-078-017c
यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ । KK03-06-078-018a
मौर्वीकृतकिणौ वृत्तौ खड्गायुधधनुर्धरौ ॥ KK03-06-078-018c
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ । KK03-06-078-019a
तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम् ॥ KK03-06-078-019c
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा । KK03-06-078-020a
सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥ KK03-06-078-020c
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः । KK03-06-078-021a
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ KK03-06-078-021c
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् । KK03-06-078-022a
पश्यामि च दिशः सर्वास्तिमिरेणावृता इव ॥ KK03-06-078-022c
ततोऽब्रवीत्साश्रुकण्ठो नकुलः पाण्डुनन्दनः । KK03-06-078-023a
यस्मिन्दिव्यानि कर्माणि कथयन्ति रणाजिरे । KK03-06-078-023c
देवा अपि युधांश्रेष्ठं तमृते का रतिर्वने ॥ KK03-06-078-023e
उदीचीं यो दिशं गत्वा जित्वा युधि महाबलान् । KK03-06-078-024a
गन्धर्वमुख्याञ्शतशो हर्याँल्लेबे महाद्युतिः ॥ KK03-06-078-024c
राज्ञे तित्तिरिकल्माषाञ्श्रीमतोऽनिलरंहसः । KK03-06-078-025a
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥ KK03-06-078-025c
तमृते भीमधन्वानं भीमादवरजं वने । KK03-06-078-026a
कामये काम्यके वासं नेदानीममरोपमम् ॥ KK03-06-078-026c
सहदेव उवाच KK03-06-078-027
यो धनानि न कन्याश्च युधि हित्वा महाबलान् । KK03-06-078-027a
'शतशो घातयित्वाऽरीन्पृतनामध्यगस्तदा' । KK03-06-078-027c
आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥ KK03-06-078-027e
यः समेतान्मृधे जित्वा यादवानमितद्युतिः । KK03-06-078-028a
सुभद्रामाजहारैको वासुदेवस्य सम्मते ॥ KK03-06-078-028c
'येनार्धराज्यमाच्छिद्य द्रुपदस्य महात्मनः । KK03-06-078-029a
आचार्यदक्षिणा दत्ता रणे द्रोणस्य भारत' ॥ KK03-06-078-029c
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामिव निवेशने । KK03-06-078-030a
हृदयं मे महाराज न शाम्यति कदाचन ॥ KK03-06-078-030c
वनादस्माद्विवासं तु रोचयेऽहमरिन्दम । KK03-06-078-031a
न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥ KK03-06-078-031c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥
3-78-5 आक्षिप्तसूत्राश्छिन्नसूत्राः । अण्डजाः पक्षिणः ॥ 3-78-8 मेध्यान् यज्ञार्हान् ॥ 3-78-18 किणम् आघातचिह्नम् ॥ 3-78-19 निष्काङ्गदकृतापीडौ साष्टशतं सुवर्णाः निष्कः तत्कृतेनाङ्गदेन कृतभूषणौ ॥ 3-78-30 बृसीम् आसनम् ॥