अध्यायः 076

नलेन पुनः स्वपुरम्प्रत्यागमनम् ॥ 1 ॥ तथा पुनर्द्यूतेन पुष्करं पराजित्य तस्य तत्पुरम् प्रतियापनम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-076-001
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः । KK03-05-076-001a
पुरादल्पपरीवारो जगाम निषधान्प्रति ॥ KK03-05-076-001c
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः । KK03-05-076-002a
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ KK03-05-076-002c
स कम्पयन्निव महीं त्वरमाणो महापुरीम् । KK03-05-076-003a
प्रविवेशाथ संरब्धस्तरसैव महामनाः ॥ KK03-05-076-003c
ततः पुष्करमासाद्य वीरसेनसुतो नलः । KK03-05-076-004a
उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ॥ KK03-05-076-004c
दमयन्ती च यच्चान्यन्मम किञ्चन विद्यते । KK03-05-076-005a
एष वै मम सन्न्यासस्तव राज्यं तु पुष्कर ॥ KK03-05-076-005c
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः । KK03-05-076-006a
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ KK03-05-076-006c
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु । KK03-05-076-007a
प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ॥ KK03-05-076-007c
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् । KK03-05-076-008a
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ KK03-05-076-008c
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा । KK03-05-076-009a
येनकेनाप्युपायेन वृद्धानामिति शासनम् ॥ KK03-05-076-009c
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर । KK03-05-076-010a
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ॥ KK03-05-076-010c
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव । KK03-05-076-011a
ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ॥ KK03-05-076-011c
दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध । KK03-05-076-012a
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ॥ KK03-05-076-012c
दिष्ट्या वै प्रीयसे राजन्मम लाभाय नैषध । KK03-05-076-013a
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ॥ KK03-05-076-013c
धनेनानेन वै भैमी जितेन समलङ्कृता । KK03-05-076-014a
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ KK03-05-076-014c
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध । KK03-05-076-015a
देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ॥ KK03-05-076-015c
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् । KK03-05-076-016a
कृतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ॥ KK03-05-076-016c
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः । KK03-05-076-017a
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥ KK03-05-076-017c
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः । KK03-05-076-018a
पणावः किं व्याहरसे जितो न व्याहरिष्यसि ॥ KK03-05-076-018c
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च । KK03-05-076-019a
एकपाणेन भद्रं ते नलेन स पराजितः ॥ KK03-05-076-019c
स रत्नकोशनिचयैः प्राणेन पणितोपि च । KK03-05-076-020a
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ॥ KK03-05-076-020c
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् । KK03-05-076-021a
वैदर्भी न त्वया शक्या राजापशद वीक्षितम् । KK03-05-076-021c
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ KK03-05-076-021e
न त्वया तत्कृतं कर्म येनाहं विजितः पुरा । KK03-05-076-022a
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥ KK03-05-076-022c
नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन । KK03-05-076-023a
यथासुखं वै जीवत्वं प्राणानवसृजामि ते ॥ KK03-05-076-023c
तथैव सर्वसम्भारं स्वमंशं वितरामि ते । KK03-05-076-024a
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ KK03-05-076-024c
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति । KK03-05-076-025a
पुष्कर त्वं हि मे भ्राता सञ्जीव शरदः शतम् ॥ KK03-05-076-025c
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः । KK03-05-076-026a
वचनैस्तोषयामास परिष्वज्य पुनः पुनः ॥ KK03-05-076-026c
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् । KK03-05-076-027a
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ KK03-05-076-027c
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी । KK03-05-076-028a
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ KK03-05-076-028c
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः । KK03-05-076-029a
प्रययौ पुष्करो हृष्टः स्वपुरं स्वजनावृतः ॥ KK03-05-076-029c
महत्या सेनया सार्धं विनीतैः परिचारकैः । KK03-05-076-030a
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥ KK03-05-076-030c
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् । KK03-05-076-031a
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ॥ KK03-05-076-031c
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः । KK03-05-076-032a
'हितेषु चैषां सततं पितेवावहितोऽभवत्' ॥ KK03-05-076-032c
पौरा जानपदाश्चापि सम्प्रहृष्टतनूरुहाः । KK03-05-076-033a
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ॥ KK03-05-076-033c
अद्य स्म निर्वृता राजन्पुरे जनपदेऽपि च । KK03-05-076-034a
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ॥ KK03-05-076-034c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76॥

3-76-1 उष्य वासं कृत्वा ॥ 3-76-5 दमयन्त्या च यच्चान्यज्जय त्वं सुसमार्जितमिति ध. पाठः . । 3-76-6 राज्यम् एकपाणेनैव मम तु दमयन्त्यादि च प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्थः ॥ 3-76-7 प्राणो हि धनमुच्यते इति ध. पाठः ॥ 3-76-9 परहस्तगतं राज्यम् इति ध. पाठः ॥ 3-76-13 दिष्ट्या च ध्रियसे राजन्सदारोऽद्य महाभुजेति झ. पाठः ॥ 3-76-18 पणाय किं व्याहरसे शीघ्रं द्यूतं प्रवर्ततामिति क. पाठः ॥