अध्यायः 075

परेद्युः प्रभाते भीमराजेन स्नातालङ्कृतयोर्नलदमयन्त्योर्दर्शनम् ॥ 1 ॥ ऋतुपर्णेन नलं क्षमापयित्वा ततोऽश्वविद्यापरिग्रहणपूर्वकं स्वपुरम्प्रति गमनम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-075-001
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः । KK03-05-075-001a
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥ KK03-05-075-001c
ततोऽभिवादयामास प्रयतः श्वशुरं नलः । KK03-05-075-002a
ततो नु दमयन्ती च ववन्दे पितरं शुभा ॥ KK03-05-075-002c
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा । KK03-05-075-003a
यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ॥ KK03-05-075-003c
नलेन सहितां तत्र दमयन्तीं पतिव्रताम् । KK03-05-075-004a
'अनुजग्राह महता सत्कारेण क्षितीश्वरः' ॥ KK03-05-075-004c
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि । KK03-05-075-005a
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥ KK03-05-075-005c
ततो बभूव नगरे सुमहान्हर्षजः स्वनः । KK03-05-075-006a
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ॥ KK03-05-075-006c
अशोभयच्च नगरीं पताकाध्वजमालिनीम् । KK03-05-075-007a
सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलङ्कृताः ॥ KK03-05-075-007c
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः । KK03-05-075-008a
अर्चितानि च सर्वाणि देवतायतनानि च ॥ KK03-05-075-008c
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् । KK03-05-075-009a
दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ KK03-05-075-009c
तमानाय्य नलं राजा क्षमयामास पार्थिवः । KK03-05-075-010a
स च तं क्षमयामास हेतुभिर्बुद्धिसम्मितः ॥ KK03-05-075-010c
स सत्कृतो महीपालो नैषधं विस्मिताननः । KK03-05-075-011a
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥ KK03-05-075-011c
कच्चित्तु नापराधं ते कृतवानस्मि नैषध । KK03-05-075-012a
अज्ञातवासे वसतो मद्गृहे वसुधाधिप ॥ KK03-05-075-012c
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित् । KK03-05-075-013a
मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ॥ KK03-05-075-013c
नल उवाच KK03-05-075-014
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव । KK03-05-075-014a
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥ KK03-05-075-014c
पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप । KK03-05-075-015a
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥ KK03-05-075-015c
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि । KK03-05-075-016a
न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥ KK03-05-075-016c
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति । KK03-05-075-017a
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥ KK03-05-075-017c
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः । KK03-05-075-018a
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ KK03-05-075-018c
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप । KK03-05-075-019a
निषधाधिपतेश्चापि दत्त्वाऽक्षहृदयं नृपः । KK03-05-075-019c
सूतमन्यमुपादाय ययौ स्वपुरमेव ह ॥ KK03-05-075-019e
ऋतुपर्णे गते राजन्नलो राजा विशाम्पते । KK03-05-075-020a
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥ KK03-05-075-020c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

3-75-6 जनाश्च सर्वे संहृष्टा राजा चोत्सवमाचरदिति ध. पाठः . । 3-75-8 पुष्पभङ्गः पुष्पसम्मर्दः ॥ 3-75-17 उपाकर्तुं दातुम् ॥