अध्यायः 074
दमयन्त्या बाहुकस्य केशिन्या स्वगृहानयनम् ॥ 1 ॥ बाहुकदमयन्त्योः संवादः ॥ 2 ॥ बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्दत्तवस्त्रद्वयपरिधाने तस्य निजरूपप्रादुर्भावः ॥ 3 ॥ ततो नलम्प्रत्यभिजानन्त्या दमयन्त्या तत्परिरम्भणम् ॥ 4 ॥
बृहदश्व उवाच KK03-05-074-001
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः । KK03-05-074-001a
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ KK03-05-074-001c
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् । KK03-05-074-002a
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ KK03-05-074-002c
परीक्षितो मे बहुशो बाहुको नलशङ्कया । KK03-05-074-003a
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ॥ KK03-05-074-003c
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि । KK03-05-074-004a
विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ॥ KK03-05-074-004c
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् । KK03-05-074-005a
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ॥ KK03-05-074-005c
सा वै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ । KK03-05-074-006a
'तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्' ॥ KK03-05-074-006c
गच्छ केशिनि शीघ्रं त्वं बाहुकं पितृशासनात् । KK03-05-074-007a
आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ॥ KK03-05-074-007c
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत् । KK03-05-074-008a
भीमस्य शासनात्सूतागताहं विद्धि बाहुक ॥ KK03-05-074-008c
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ । KK03-05-074-009a
बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत । KK03-05-074-009c
प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्' ॥ KK03-05-074-009e
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥ KK03-05-074-010ac
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः । KK03-05-074-011a
आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ॥ KK03-05-074-011c
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा । KK03-05-074-012a
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ KK03-05-074-012c
ततः काषायवसना जटिला मलपङ्किनी । KK03-05-074-013a
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ KK03-05-074-013c
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक । KK03-05-074-014a
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥ KK03-05-074-014c
अनागसं प्रियां भार्यां विजने श्रममोहिताम् । KK03-05-074-015a
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥ KK03-05-074-015c
किमु तस्य मया बाल्यादपराद्धं महीपतेः । KK03-05-074-016a
यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ॥ KK03-05-074-016c
साक्षाद्देवानपाहाय वृतो यः स पुरा मया । KK03-05-074-017a
अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ॥ KK03-05-074-017c
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् । KK03-05-074-018a
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ॥ KK03-05-074-018c
बृहदश्व उवाच KK03-05-074-019
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम । KK03-05-074-019a
शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ॥ KK03-05-074-019c
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् । KK03-05-074-020a
परिस्रवन्नलो राजा शोकार्त इदमब्रवीत् ॥ KK03-05-074-020c
'नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः । KK03-05-074-021a
आविष्टः कलिना भद्रे तेन मोहवशं गतः ॥' KK03-05-074-021c
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् । KK03-05-074-022a
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ KK03-05-074-022c
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा । KK03-05-074-023a
वनस्थया दुःखितया शोचन्त्या मां दिवानिशम् ॥ KK03-05-074-023c
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः । KK03-05-074-024a
त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ॥ KK03-05-074-024c
मम च व्यवसायेन तपसा चैव निर्जितः । KK03-05-074-025a
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ KK03-05-074-025c
विमुच्य मां गतः पापस्ततोऽहमिह चागतः । KK03-05-074-026a
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ KK03-05-074-026c
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् । KK03-05-074-027a
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ KK03-05-074-027c
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् । KK03-05-074-028a
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ KK03-05-074-028c
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः । KK03-05-074-029a
श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ॥ KK03-05-074-029c
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् । KK03-05-074-030a
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ KK03-05-074-030c
न मामर्हसि कल्याण पापेन परिशङ्कितुम् । KK03-05-074-031a
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ KK03-05-074-031c
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः । KK03-05-074-032a
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ KK03-05-074-032c
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव । KK03-05-074-033a
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ KK03-05-074-033c
तेन वाक्ये कृते सम्यक्प्रतिवाक्ये तथा हृते । KK03-05-074-034a
उपायोऽयं मया दृष्टो नैषधानयने तव ॥ KK03-05-074-034c
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते । KK03-05-074-035a
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ KK03-05-074-035c
'तथापि मां महीपाल भजेतां चरणौ तव । KK03-05-074-036a
'स्पृशेयं तेन सत्येन पादावेतौ महीपते । KK03-05-074-036c
यथा नासत्कृतं किञ्चिन्मनसाऽपि चराम्यहम् ॥ KK03-05-074-036e
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः । KK03-05-074-037a
एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ KK03-05-074-037c
यथा चरति तिग्मांशुः परितो भुवनं सदा । KK03-05-074-038a
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ KK03-05-074-038c
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् । KK03-05-074-039a
स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ॥ KK03-05-074-039c
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै । KK03-05-074-040a
विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ॥ KK03-05-074-040c
एवमुक्ते ततो वायुरन्तरिक्षादभाषत । KK03-05-074-041a
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ KK03-05-074-041c
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः । KK03-05-074-042a
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ KK03-05-074-042c
उपायो विहितश्चायं त्वदर्थमतुलोऽनया । KK03-05-074-043a
न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ॥ KK03-05-074-043c
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते । KK03-05-074-044a
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ॥ KK03-05-074-044c
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह । KK03-05-074-045a
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ KK03-05-074-045c
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत । KK03-05-074-046a
दमयन्त्यां विशङ्कां तामुपाकर्षदरिन्दमः ॥ KK03-05-074-046c
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः । KK03-05-074-047a
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ॥ KK03-05-074-047c
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा । KK03-05-074-048a
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ KK03-05-074-048c
भैमीमपि नलो राजा भ्राजमानो यथा पुरा । KK03-05-074-049a
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ KK03-05-074-049c
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना । KK03-05-074-050a
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ KK03-05-074-050c
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम् । KK03-05-074-051a
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ॥ KK03-05-074-051c
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च । KK03-05-074-052a
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ KK03-05-074-052c
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् । KK03-05-074-053a
दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ॥ KK03-05-074-053c
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् । KK03-05-074-054a
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ KK03-05-074-054c
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ । KK03-05-074-055a
वसेतां हृष्टसङ्कल्पौ वैदर्भी च नलश्च ह ॥ KK03-05-074-055c
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया । KK03-05-074-056a
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ KK03-05-074-056c
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम् । KK03-05-074-057a
अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ॥ KK03-05-074-057c
सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा । KK03-05-074-058a
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन ॥ KK03-05-074-058c
इतिश्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥
3-74-10 प्रतिश्रयः गृहम् ॥ 3-74-16 किन्नु तस्य मया चीर्णमपराधमिति ध. पाटः ॥ 3-74-18 अग्नौ पाणिं गृहीत्वा तु देवानामप्रतस्तथेति झ. पाठः ॥ 3-74-33 त्वां दृष्टवान्कोसलेष्विति ध. पाठः ॥ 3-74-37 सदागतिर्वायुः ॥ 3-74-39 चन्द्रमाश्चित्ताभिमानिनी देवता ॥ 3-74-53 कल्ये प्रभाते । कृतार्थं तमहं नलमिति क. ध. पाठः ॥