अध्यायः 073
केशिन्या बाहुकस्य जलाग्न्युत्पादनाद्यद्भुतकर्मनिवेदितया दमयन्त्या पुनःपरीक्षणाय तम्प्रति कन्यापुत्रयोः प्रेषणम् ॥ 1 ॥ बाहुकेन सबाष्पं पुत्रयोः परिरम्भणम् । केशिनीम्प्रति स्वकर्मणः कारणान्तरकथनेनापह्नवश्च ॥ 2 ॥
बृहदश्व उवाच KK03-05-073-001
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशाम्पते । KK03-05-073-001a
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ KK03-05-073-001c
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके । KK03-05-073-002a
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ KK03-05-073-002c
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि । KK03-05-073-003a
तत्र सञ्चेष्टमानस्य संलक्षेथा विचेष्टितम् ॥ KK03-05-073-003c
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि । KK03-05-073-004a
याचते न जलं देयं सकृच्चात्वरमाणया । KK03-05-073-004c
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय ॥ KK03-05-073-004e
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् । KK03-05-073-005a
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥ KK03-05-073-005c
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी । KK03-05-073-006a
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ॥ KK03-05-073-006c
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् । KK03-05-073-007a
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ॥ KK03-05-073-007c
केशिन्युवाच KK03-05-073-008
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित् । KK03-05-073-008a
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ॥ KK03-05-073-008c
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित् । KK03-05-073-009a
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् । KK03-05-073-009c
सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ KK03-05-073-009e
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । KK03-05-073-010a
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । KK03-05-073-010c
प्रेषितं तत्र राज्ञा तु मांसं बहु च पाशवम् ॥ KK03-05-073-010e
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः । KK03-05-073-011a
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ॥ KK03-05-073-011c
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः । KK03-05-073-012a
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥ KK03-05-073-012c
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः । KK03-05-073-013a
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ॥ KK03-05-073-013c
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया । KK03-05-073-014a
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ॥ KK03-05-073-014c
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् । KK03-05-073-015a
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ KK03-05-073-015c
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । KK03-05-073-016a
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा । KK03-05-073-016c
भूय एव सुगन्धीनि हृषितानि भवन्ति हि ॥ KK03-05-073-016e
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता । KK03-05-073-017a
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ॥ KK03-05-073-017c
बृहदश्व उवाच KK03-05-073-018
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् । KK03-05-073-018a
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ KK03-05-073-018c
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् । KK03-05-073-019a
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ॥ KK03-05-073-019c
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् । KK03-05-073-020a
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ॥ KK03-05-073-020c
सा दृष्ट्वा बाहुके व्यग्रे तन्मांसमपकृष्य च । KK03-05-073-021a
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी । KK03-05-073-021c
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ KK03-05-073-021e
साऽशिता नलसिद्धस्य मांसस्य बहुशः पुरा । KK03-05-073-022a
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ॥ KK03-05-073-022c
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः । KK03-05-073-023a
मिथुनं प्रेषयामास केशिन्या सह भारत ॥ KK03-05-073-023c
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः । KK03-05-073-024a
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ॥ KK03-05-073-024c
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ । KK03-05-073-025a
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ॥ KK03-05-073-025c
नैषधो दर्शयित्वा तु विकारमसकृत्तदा । KK03-05-073-026a
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ KK03-05-073-026c
इदं च सदृशं भद्रे मिथुनं मम पुत्रयोः । KK03-05-073-027a
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ KK03-05-073-027c
बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः । KK03-05-073-028a
वयं च देशातिथयो गच्छ भद्रे यथासुखम् ॥ KK03-05-073-028c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
3-73-9 द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति । सङ्कटे सङ्कुचिते ॥ 3-73-10 पाशवं पशुसम्बन्धि ॥ 3-73-12 सवितुः सकाशात् । समादधत् उद्दीपितवान् । समादाय ह्याविध्यैनमिति झ. पाठः ॥ 3-73-18 कर्म पाकादि । चेष्टा भूतजयादि ॥ 3-73-22 बहुशः बहुवारम् ॥ 3-73-28 सम्पतन्तीम् आयान्तीम् ॥