अध्यायः 071
ऋतुपर्णे कुण्डिनपुरम् प्रविष्टे तद्रथघोषश्रवणेन दमयन्त्या तत्सारथौ नलसम्भावना ॥ 1 ॥ ततस्तत्वजिज्ञासया नलम्प्रति दूत्याः प्रस्थापनम् ॥ 2 ॥
बृहदश्व उवाच KK03-05-071-001
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् । KK03-05-071-001a
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ KK03-05-071-001c
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् । KK03-05-071-002a
नादयन्रथघोषेण सर्वाः स विदिशो दिशः ॥ KK03-05-071-002c
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः । KK03-05-071-003a
श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ॥ KK03-05-071-003c
दमयन्ती तु शुश्राव रथघोषं नलस्य तम् । KK03-05-071-004a
यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ KK03-05-071-004c
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम् । KK03-05-071-005a
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु । KK03-05-071-005c
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ KK03-05-071-005e
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः । KK03-05-071-006a
हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ॥ KK03-05-071-006c
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा । KK03-05-071-007a
प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ॥ KK03-05-071-007c
दमयन्त्युवाच KK03-05-071-008
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम् । KK03-05-071-008a
ममाह्लादयते चेतो नल एव महीपतिः ॥ KK03-05-071-008c
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि । KK03-05-071-009a
असङ्ख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ॥ KK03-05-071-009c
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् । KK03-05-071-010a
प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ॥ KK03-05-071-010c
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । KK03-05-071-011a
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥ KK03-05-071-011c
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः । KK03-05-071-012a
नाभिगच्छति राजेन्द्रो विनङ्क्ष्यामि न संशयः ॥ KK03-05-071-012c
न स्मराम्यनृतं किञ्चिन्न स्मराम्यपकारताम् । KK03-05-071-013a
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ KK03-05-071-013c
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः । KK03-05-071-014a
अहो नीचानुवर्ती च क्लीबवन्मम नैषध ॥ KK03-05-071-014c
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् । KK03-05-071-015a
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ KK03-05-071-015c
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत । KK03-05-071-016a
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥ KK03-05-071-016c
ततो मध्यमकक्षायां ददर्श रथमास्थितम् । KK03-05-071-017a
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥ KK03-05-071-017c
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् । KK03-05-071-018a
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ KK03-05-071-018c
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः । KK03-05-071-019a
उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥ KK03-05-071-019c
तं भीमः प्रतिजग्राह पूजया परया मुदा । KK03-05-071-020a
स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ॥ KK03-05-071-020c
स तत्र कुण्डिने रम्ये वसमानो महीपतिः । KK03-05-071-021a
न च किञ्चित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः । KK03-05-071-021c
स तु राज्ञा समागम्य विदर्भपतिना तदा ॥ KK03-05-071-021e
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति । KK03-05-071-022a
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत । KK03-05-071-022c
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ KK03-05-071-022e
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः । KK03-05-071-023a
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ॥ KK03-05-071-023c
नैव स्वयंवरकथां न च विप्रसमागमम् । KK03-05-071-024a
'न चान्यं कञ्चिदारम्भं स्वयंवरविधिं प्रति' ॥ KK03-05-071-024c
ततो विगणयद्राजा मनसा कोसलाधिपः । KK03-05-071-025a
आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ॥ KK03-05-071-025c
राजापि च स्मयन्भीमो मनसा समचिन्तयत् । KK03-05-071-026a
अधिकं योजनशतं तस्यागमनकारणम् । KK03-05-071-026c
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ॥ KK03-05-071-026e
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् । KK03-05-071-027a
पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति ॥ KK03-05-071-027c
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् । KK03-05-071-028a
विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ॥ KK03-05-071-028c
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः । KK03-05-071-029a
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥ KK03-05-071-029c
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे । KK03-05-071-030a
बाहुको रथमादाय रथशालामुपागमत् ॥ KK03-05-071-030c
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः । KK03-05-071-031a
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ KK03-05-071-031c
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम् । KK03-05-071-032a
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ KK03-05-071-032c
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः । KK03-05-071-033a
नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ KK03-05-071-033c
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता । KK03-05-071-034a
तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ॥ KK03-05-071-034c
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा । KK03-05-071-035a
यथाऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥ KK03-05-071-035c
एवं सा तर्कयित्वा तु दमयन्ती विशाम्पते । KK03-05-071-036a
दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥ KK03-05-071-036c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
3-71-3 नलाश्वाः विदर्भनगरे ये दमयन्त्याऽपत्याभ्यां सह प्रेषिताः ॥ 3-71-7 शिखिनो मयूराः ॥ 3-71-13 पर्युषितं प्रतिज्ञातकालातिलङ्घि ॥ 3-71-29 दिष्टं निर्दिष्टम् ॥