अध्यायः 070

बाहुकस्य सारथ्यसामर्थ्यविस्मितेन ऋतुपर्णेन तम्प्रति पुञ्जीभूतवस्तुपरिसङ्ख्याने स्वीयसामर्थ्यनिवेदनम् ॥ 1 ॥ वृक्षशाखास्थपर्णेषु तत्परीक्षया विस्मितेन नलेनाश्वहृदयविद्यादानप्रतिज्ञानेन तदीयाक्षहृदयादिविद्यास्वीकरणम् ॥ 2 ॥ ततो नलदेहाद्बहिर्निःसृतेन कलिना नलशापभयात्तस्मै वरदानपूर्वकं विभीतकवृक्षप्रवेशः ॥ 3 ॥

बृहदश्व उवाच KK03-05-070-001
स नदीः पर्वतांश्चैव वनानि च सरांसि च । KK03-05-070-001a
अचिरेणातिचक्राम खेचरः खे चरन्निव ॥ KK03-05-070-001c
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः । KK03-05-070-002a
उत्तरीयमधोपश्यद्धष्टं परपुरञ्जयः ॥ KK03-05-070-002c
ततः स त्वरमाणस्तु पटे निपतिते तदा । KK03-05-070-003a
ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ KK03-05-070-003c
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् । KK03-05-070-004a
वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥ KK03-05-070-004c
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव । KK03-05-070-005a
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ॥ KK03-05-070-005c
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः । KK03-05-070-006a
आससाद वने राजन्फलवन्तं विभीतकम् ॥ KK03-05-070-006c
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत । KK03-05-070-007a
ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ॥ KK03-05-070-007c
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन । KK03-05-070-008a
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥ KK03-05-070-008c
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक । KK03-05-070-009a
पतितान्यपि यान्यत्र तत्रैकमधिकं कृतम् ॥ KK03-05-070-009c
एकपत्राधिकं चात्र फलमेकं च बाहुक । KK03-05-070-010a
फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः । KK03-05-070-010c
'प्रवक्ष्यामि फलान्यत्र यानि सङ्ख्यास्यते भवान् ॥' KK03-05-070-010e
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः । KK03-05-070-011a
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ KK03-05-070-011c
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् । KK03-05-070-012a
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ KK03-05-070-012c
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम् । KK03-05-070-013a
अथ ते गणिते राजन्द्विजानाम्यपरोक्षताम् ॥ KK03-05-070-013c
प्रत्यक्षं ते महाराज गणयिष्ये विभीतकम् । KK03-05-070-014a
अहं हि नाभिजानामि भवेदेवं नवेति वा ॥ KK03-05-070-014c
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप । KK03-05-070-015a
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ KK03-05-070-015c
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् । KK03-05-070-016a
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ KK03-05-070-016c
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान् । KK03-05-070-017a
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ KK03-05-070-017c
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन । KK03-05-070-018a
त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ॥ KK03-05-070-018c
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद । KK03-05-070-019a
शरणं त्वां प्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ॥ KK03-05-070-019c
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक । KK03-05-070-020a
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे । KK03-05-070-020c
अथाब्रवीद्बाहुकस्तं सङ्ख्याय च विभीतकम् । KK03-05-070-021a
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥ KK03-05-070-021c
अकाम इव तं राजा गणयस्वेत्युवाच ह । KK03-05-070-022a
एकदेशं च शाखायाः समादिष्टं मयाऽनघ ॥ KK03-05-070-022c
गणयस्वाश्वतत्वज्ञ ततस्त्वं प्रीतिमावह । KK03-05-070-023a
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ KK03-05-070-023c
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् । KK03-05-070-024a
गणयित्वा यथोक्तानि तावन्त्येव फलानि तु ॥ KK03-05-070-024c
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् । KK03-05-070-025a
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥ KK03-05-070-025c
तमुवाच ततो राजा त्वरितो गमने नृप । KK03-05-070-026a
विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ॥ KK03-05-070-026c
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे । KK03-05-070-027a
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥ KK03-05-070-027c
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् । KK03-05-070-028a
हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः ॥ KK03-05-070-028c
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् । KK03-05-070-029a
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक । KK03-05-070-029c
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥ KK03-05-070-029e
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः । KK03-05-070-030a
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् । KK03-05-070-030c
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ॥ KK03-05-070-030e
स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥ KK03-05-070-031ac
'तं भ्रान्तरूपं निःशोभं सङ्क्लिष्टमकरोत्कलिः' । KK03-05-070-032a
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः । KK03-05-070-032c
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ KK03-05-070-032e
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः । KK03-05-070-033a
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ KK03-05-070-033c
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा । KK03-05-070-034a
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ KK03-05-070-034c
अवसं त्वयि राजेन्द्र सुदुःखमपराजित । KK03-05-070-035a
विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ KK03-05-070-035c
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम । KK03-05-070-036a
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः । KK03-05-070-036c
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ॥ KK03-05-070-036e
'न तेषां मानसं किञ्चिच्छारीरं वाचिकं तथा । KK03-05-070-037a
भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्' । KK03-05-070-037c
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ॥ KK03-05-070-037e
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः । KK03-05-070-038a
ततो भीतः कलिः क्षिप्रं प्रविवेश विभीतकम् । KK03-05-070-038c
कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ॥ KK03-05-070-038e
ततो गतत्वरो राजा नैषधः परवीरहा । KK03-05-070-039a
सम्प्रनष्टे कलौ राजा सङ्ख्यायास्य फलान्युत ॥ KK03-05-070-039c
मुदा परमया युक्तस्तेजसाऽथ परेण वै । KK03-05-070-040a
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥ KK03-05-070-040c
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् । KK03-05-070-041a
'ततः प्रभृति राजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन' ॥ KK03-05-070-041c
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः । KK03-05-070-042a
नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ॥ KK03-05-070-042c
विदर्भाभिमुखो राजा प्रययौ स महायशाः । KK03-05-070-043a
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ॥ KK03-05-070-043c
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः । KK03-05-070-044a
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥ KK03-05-070-044c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

3-70-9 तत्रैकमधिकं शतमिति झ. पाठः ॥ 3-70-10 पञ्चकोट्योऽथ पत्राणामिति झ. पाठः ॥ 3-70-26 अक्षहृदयज्ञम् अक्षाणाम् अक्षाभिमानिदेवताया हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयम् । येन ज्ञातेन द्यूतेऽक्षा अनुकूला भवन्ति । सङ्ख्याने राशीकृतानां पत्रपुष्पफलधान्यादीनां राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्सङ्ख्याकथने ॥ 3-70-30 शापाग्निर्दमयन्तीनिसृष्टः स विषरूपः ॥ 3-70-39 फलानि सङ्ख्याय । अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ॥ 3-70-42 द्विजानिव पक्षिण इव ॥