अध्यायः 069

ऋतुपर्णेन दमयन्तीस्वयंवराय बाहुकं सारथ्ये नियोज्य वार्ष्णेयेन सह विदर्भान्प्रति प्रस्थानम् ॥ 1 ॥ वार्ष्णेयेन बाहुके सारथ्यकौशलेन नलत्वसम्भावना ॥ 2 ॥

बृहदश्व उवाच KK03-05-069-001
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः । KK03-05-069-001a
'सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः । KK03-05-069-001c
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥ KK03-05-069-001e
बाहुकं च समाहूय दमयन्त्याः स्वयंवरम्' । KK03-05-069-002a
सान्त्वयञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ KK03-05-069-002c
विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम् । KK03-05-069-003a
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ KK03-05-069-003c
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह । KK03-05-069-004a
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ KK03-05-069-004c
दमयन्ती भवेदेवं किन्नु दुःखेन मोहिता । KK03-05-069-005a
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥ KK03-05-069-005c
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी । KK03-05-069-006a
मया क्षुद्रेण निकृता कृपणा पापबुद्धिना । KK03-05-069-006c
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥ KK03-05-069-006e
स्यादेवमपि कुर्यात्सा विवासाद्गतसौहृदा । KK03-05-069-007a
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा । KK03-05-069-007c
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥ KK03-05-069-007e
यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम् । KK03-05-069-008a
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ KK03-05-069-008c
इति निश्चित्य मनसा बाहुको दीनमानसः । KK03-05-069-009a
कृताञ्जलिरुवाचेदमृतुपर्णं जनाधिपम् ॥ KK03-05-069-009c
प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप । KK03-05-069-010a
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप । KK03-05-069-010c
'तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥ KK03-05-069-010e
एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव । KK03-05-069-011a
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥ KK03-05-069-011c
बाहुक उवाच KK03-05-069-012
यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम्' ॥ KK03-05-069-012ac
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः । KK03-05-069-013a
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥ KK03-05-069-013c
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः । KK03-05-069-014a
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः । KK03-05-069-014c
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ KK03-05-069-014e
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् । KK03-05-069-015a
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ KK03-05-069-015c
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः । KK03-05-069-016a
'दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि' ॥ KK03-05-069-016c
तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः । KK03-05-069-017a
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वयम् ॥ KK03-05-069-017c
कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम् । KK03-05-069-018a
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥ KK03-05-069-018c
बाहुक उवाच KK03-05-069-019
[एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः । KK03-05-069-019a
द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥] KK03-05-069-019c
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः । KK03-05-069-020a
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामि ते ॥ KK03-05-069-020c
ऋतुपर्ण उवाच KK03-05-069-021
त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक । KK03-05-069-021a
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥ KK03-05-069-021c
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् । KK03-05-069-022a
योजयामास कुशलो जवयुक्तान्रथे नलः ॥ KK03-05-069-022c
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः । KK03-05-069-023a
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ KK03-05-069-023c
ततो नरवरः श्रीमान्नलो राजा विशाम्पते । KK03-05-069-024a
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ KK03-05-069-024c
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः । KK03-05-069-025a
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ KK03-05-069-025c
ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः । KK03-05-069-026a
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥ KK03-05-069-026c
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः । KK03-05-069-027a
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥ KK03-05-069-027c
रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् । KK03-05-069-028a
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ KK03-05-069-028c
किन्नु स्यान्मातलिरयं देवराजस्य सारथिः । KK03-05-069-029a
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥ KK03-05-069-029c
शालिहोत्रोऽथ किन्नु स्याद्धयानां कुलतत्त्ववित् । KK03-05-069-030a
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥ KK03-05-069-030c
उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः । KK03-05-069-031a
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥ KK03-05-069-031c
अथवाऽयं नलात्प्राप्तो विद्यां तामेव बाहुकः । KK03-05-069-032a
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ KK03-05-069-032c
अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च । KK03-05-069-033a
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥ KK03-05-069-033c
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् । KK03-05-069-034a
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥ KK03-05-069-034c
भवेन्न मतिभेदो मे गात्रवैरूप्यतां प्रति । KK03-05-069-035a
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥ KK03-05-069-035c
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः । KK03-05-069-036a
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ KK03-05-069-036c
एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत् । KK03-05-069-037a
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ KK03-05-069-037c
ऋतुपर्णश्च राजेन्द्रो बाहुकस्य हयज्ञताम् । KK03-05-069-038a
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ KK03-05-069-038c
ऐकाग्र्यं च तथोत्साहं हयसङ्ग्रहणं च तत् । KK03-05-069-039a
कौशलं चापि सम्प्रेक्ष्य परां मुदमवाप ह ॥ KK03-05-069-039c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

3-69-7 सापत्या अपत्यसहिता ॥ 3-69-15 प्रोथं नासिका । हनुः अधरं मुखफलकम् ॥ 3-69-16 सिन्धुजान् सिन्धुदेशजान् ॥ 3-69-18 बलं भारसहिष्णुता । प्राणो वेगवत्ता । वक्ष्यन्ति वहनं करिष्यन्ति ॥ 3-69-19 प्रयाणे पृष्ठभागे ॥ 3-69-30 शालिहोत्रः अश्वशास्त्रप्रणेता आचार्यः ॥ 3-69-34 विधिना युक्ताः संयुक्ताश्च विरूपणैरिति क. पाठः ॥ 3-69-35 भवेत्तु मतिभेदो मे इति क. पाठः ॥ 3-69-36 अन्ततः निर्णयेन ॥