अध्यायः 068

नलान्वेषिणा पर्णादनाम्ना विप्रेण ऋतुपर्णनृपगृहे बाहुकनामनिगूढे नले शृण्वति दमयन्तीवचनानुवादः ॥ 1 ॥ बाहुकेन विजने पर्णादम्प्रति दमयन्तीवचनस्योत्तरदानम् ॥ 2 ॥ पर्णादेन विदर्भान्पुनरभ्येत्य दमयन्त्या बाहुकवचननिवेदनम् ॥ 3 ॥ बाहुके नलशङ्किन्या दमयन्त्या प्रेषितेन सुदेवेन अयोध्याङ्गत्वा ऋतुपर्णे श्वोभूते दमयन्त्याः पुनः स्वयंवरो भवितेति कीर्तनम् ॥ 4 ॥

बृहदश्व उवाच KK03-05-068-001
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः । KK03-05-068-001a
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ KK03-05-068-001c
नैषधं मृगयाणेन दमयन्ति दिवानिशम् । KK03-05-068-002a
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः ॥ KK03-05-068-002c
श्रावितश्च मया वाक्यं त्वदीयं स महाजने । KK03-05-068-003a
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ KK03-05-068-003c
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः । KK03-05-068-004a
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत् ॥ KK03-05-068-004c
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् । KK03-05-068-005a
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ KK03-05-068-005c
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः । KK03-05-068-006a
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥ KK03-05-068-006c
स विनिःश्वस्य बहुशो रुदित्वा च पुनःपुनः । KK03-05-068-007a
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ KK03-05-068-007c
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः । KK03-05-068-008a
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ KK03-05-068-008c
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन । KK03-05-068-009a
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ KK03-05-068-009c
विषमस्थेन मूढेन परिभ्रष्टसुखेन च । KK03-05-068-010a
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ KK03-05-068-010c
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । KK03-05-068-011a
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ KK03-05-068-011c
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम् । KK03-05-068-012a
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥ KK03-05-068-012c
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः । KK03-05-068-013a
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय॥ KK03-05-068-013c
एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशाम्पते । KK03-05-068-014a
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ॥ KK03-05-068-014c
अयमर्थो न संवेद्यो भीमे मातः कदाचन । KK03-05-068-015a
त्वत्सन्निधौ नियोक्ष्येऽहं सुदेवं द्विजसत्तमम् ॥ KK03-05-068-015c
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् । KK03-05-068-016a
यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि ॥ KK03-05-068-016c
यथा चाहं समानीता सुदेवेनाशु बान्धवान् । KK03-05-068-017a
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम् ॥ KK03-05-068-017c
समानेतुं नलं मातरयोध्यां नगरीमितः । KK03-05-068-018a
'ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम्' ॥ KK03-05-068-018c
विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम् । KK03-05-068-019a
अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ KK03-05-068-019c
'उवाच चैनं महता सम्पूज्य द्रविणेन वै ।' KK03-05-068-020a
नले चेहागते विप्र भूयो दास्यामि ते वसु ॥ KK03-05-068-020c
त्वया हि मे बहुकृतं यदन्यो न करिष्यति । KK03-05-068-021a
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ KK03-05-068-021c
स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः । KK03-05-068-022a
गृहानुपययौ चापि कृतार्थः सुमहामनाः ॥ KK03-05-068-022c
ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर । KK03-05-068-023a
अब्रवीत्सन्निधौ मातुर्दुःखशोकसमन्विता ॥ KK03-05-068-023c
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् । KK03-05-068-024a
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥ KK03-05-068-024c
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् । KK03-05-068-025a
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ KK03-05-068-025c
तथा च गणितः कालः श्वोभूते स भविष्यति । KK03-05-068-026a
यदि सम्भाविनीयं ते गच्छ शीघ्रमरिन्दम ॥ KK03-05-068-026c
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति । KK03-05-068-027a
न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा ॥ KK03-05-068-027c
एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत् । KK03-05-068-028a
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ KK03-05-068-028c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

3-68-8 गोपायन्ति पालयन्ति । जितः स्वर्गस्ताभिरिति शेषः ॥ 3-68-26 सम्भाविनी सम्भाविता इयम् । गतिरिति शेषः ॥