अध्यायः 067
दमयन्तीप्रेषितैर्विप्रैस्तत्रतत्र नलान्वेषणम् ॥ 1 ॥
दमयन्त्युवाच KK03-05-067-001
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते । KK03-05-067-001a
नलस्य नरवीरस्य यतस्वानयने पुनः ॥ KK03-05-067-001c
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता । KK03-05-067-002a
बाष्पेणापिहिता राज्ञी नोत्तरं किञ्चिदब्रवीत् ॥ KK03-05-067-002c
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा । KK03-05-067-003a
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥ KK03-05-067-003c
ततो भीमं महाराजं भार्या वचनामब्रवीत् । KK03-05-067-004a
दमयन्ती नृप भृशं भर्तारमनुशोचति ॥ KK03-05-067-004c
अपकृष्य च लज्जां सा स्वयमुक्तवती विभो । KK03-05-067-005a
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥ KK03-05-067-005c
बृहदश्व उवाच KK03-05-067-006
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः । KK03-05-067-006a
प्राश्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥ KK03-05-067-006c
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा । KK03-05-067-007a
दमयन्तीमथापृच्छ्य प्रस्थितास्ते तथाऽब्रुवन् ॥ KK03-05-067-007c
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः । KK03-05-067-008a
ब्रूत वै जनसंसत्सु तत्रतत्र पुनः पुनः ॥ KK03-05-067-008c
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम । KK03-05-067-009a
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ KK03-05-067-009c
सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी । KK03-05-067-010a
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥ KK03-05-067-010c
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव । KK03-05-067-011a
प्रसादं कुरु वै देव प्रतिवाक्यं वदस्व च ॥ KK03-05-067-011c
एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि । KK03-05-067-012a
वायुना धूयमानो हि वनं दहति पावकः ॥ KK03-05-067-012c
भर्तव्या रक्षणीया च पत्नी पत्या हि नित्यदा । KK03-05-067-013a
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥ KK03-05-067-013c
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान्सदा । KK03-05-067-014a
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥ KK03-05-067-014c
तत्कुरुष्व नरव्याघ्र दयां मयि नरर्षभ । KK03-05-067-015a
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः ॥ KK03-05-067-015c
एवम्ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन । KK03-05-067-016a
स नरः सर्वथा ज्ञेयः कश्चासौ क्वनु वर्तते ॥ KK03-05-067-016c
यश्चैवं वचनं श्रुत्वा बूयात्प्रतिवचो नरः । KK03-05-067-017a
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः ॥ KK03-05-067-017c
यथा च वो न जानीयाच्चरतो भीमशासनात् । KK03-05-067-018a
पुनरागमनं चेह तथा कार्यमतन्द्रितैः ॥ KK03-05-067-018c
यदि वाऽसौ समृद्धः स्याद्यदि वाऽप्यधनो भवेत् । KK03-05-067-019a
यदिऽवाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥ KK03-05-067-019c
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम् । KK03-05-067-020a
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा ॥ KK03-05-067-020c
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाऽऽश्रमान् । KK03-05-067-021a
अन्वेषन्तो नलं राजन्नाधिजग्मुर्दविजातयः ॥ KK03-05-067-021c
तच्च वाक्यं तथा सर्वे तत्रतत्र विशाम्पते । KK03-05-067-022a
श्रावयाञ्चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥ KK03-05-067-022c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥
3-67-7 तथा अब्रुवन्नलान्वेषणाय प्रस्थिताःस्मेति ॥ 3-67-12 वायुनेति शोकाग्निः कालवायुना दिनेदिने वर्धमानो दमयन्तीशरीरवनं दहतीति रूपकेणोक्तम् ॥ 3-67-13 भर्तव्याऽन्नादिना । रक्षणीया दस्युप्रभृतिभ्यः । उभयं रक्षणभरणात्मकम् ॥ 3-67-14 सानुक्रोशः सदयः ॥