अध्यायः 066
सुदेवेन दमयन्तीतत्वं निवेदितया राजमात्रा पिप्लुरूपलाञ्छनेन तत्वनिर्धारणपूर्वकं तस्याः पितृपुरम्प्रति प्रापणम् ॥ 1 ॥
सुदेव उवाच KK03-05-066-001
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः । KK03-05-066-001a
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ KK03-05-066-001c
राजा तु नैषधो नाम वीरसेनसुतो नलः । KK03-05-066-002a
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ KK03-05-066-002c
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः । KK03-05-066-003a
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित् ॥ KK03-05-066-003c
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् । KK03-05-066-004a
सेयमासादिता बाला तव देवि निवेशने ॥ KK03-05-066-004c
अस्या रूपेण सदृशी मानुषी न हि विद्यते । KK03-05-066-005a
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥ KK03-05-066-005c
श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया । KK03-05-066-006a
मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः ॥ KK03-05-066-006c
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः । KK03-05-066-007a
प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते ॥ KK03-05-066-007c
न चास्या नश्यते रूपं वपुर्मलसमाचितम् । KK03-05-066-008a
असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम् ॥ KK03-05-066-008c
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता । KK03-05-066-009a
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ KK03-05-066-009c
बृहदश्व उवाच KK03-05-066-010
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशाम्पते । KK03-05-066-010a
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ KK03-05-066-010c
स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत । KK03-05-066-011a
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः ॥ KK03-05-066-011c
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत । KK03-05-066-012a
रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः ॥ KK03-05-066-012c
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् । KK03-05-066-013a
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ॥ KK03-05-066-013c
अहं च तव माता च राजन्यस्य महात्मनः । KK03-05-066-014a
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ KK03-05-066-014c
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः । KK03-05-066-015a
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ KK03-05-066-015c
यथैव ते पितुर्गेहं तथेदमपि भामिति । KK03-05-066-016a
यथैव च ममैश्वर्यं दमयन्ति तथा तव ॥ KK03-05-066-016c
तां प्रहृष्टेन मनसा दमयन्ती विशाम्पते । KK03-05-066-017a
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ KK03-05-066-017c
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि । KK03-05-066-018a
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ KK03-05-066-018c
सुखात्सुखतरो वासो भविष्यति न संशयः । KK03-05-066-019a
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥ KK03-05-066-019c
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ । KK03-05-066-020a
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ KK03-05-066-020c
यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि । KK03-05-066-021a
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥ KK03-05-066-021c
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप । KK03-05-066-022a
गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ KK03-05-066-022c
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना । KK03-05-066-023a
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥ KK03-05-066-023c
ततः सा नचिरादेव विदर्भानगमच्छुभा । KK03-05-066-024a
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत् ॥ KK03-05-066-024c
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ । KK03-05-066-025a
मातरं पितरं चोभौ सर्वं चैव सखीजनम् ॥ KK03-05-066-025c
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी । KK03-05-066-026a
परेण विधिना देवी दमयन्ती विशाम्पते ॥ KK03-05-066-026c
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः । KK03-05-066-027a
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ KK03-05-066-027c
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी । KK03-05-066-028a
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ KK03-05-066-028c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
3-66-5 पिप्लुः रक्ततिलकाकृतिलाञ्छनम् ॥ 3-66-6 स दृष्टो बहुशो नाद्य लक्ष्यतेऽन्तर्हितो मयेति क. पाठः ॥ 3-66-7 चिह्नभूतः सचात्यर्थमिति ध. पाठः ॥ 3-66-8 अस्यास्तु दृश्यते रूपमिति ध. पाठः ॥ 3-66-11 अपकृष्टेन दूरीकृतेन ॥ 3-66-20 दारकौ सुतः सुता च ॥ 3-66-28 व्युष्टा वासङ्कृतवती ॥