अध्यायः 065

भीमराजेन नलदमयन्त्यन्वेषणाय नानादेशेषु ब्राह्मणानां प्रस्थापनम् ॥ 1 ॥ सुदेवनाम्ना विप्रेण चेदिराजगृहे दमयन्तीदर्शनम् ॥ 2 ॥ विप्रेण सह सबाष्पं भाषमाणां दमयन्तीं दृष्ट्वा राजमात्रा विप्रम्प्रति दमयन्तीकुलशीलादिप्रश्नः ॥ 3 ॥

बृहदश्व उवाच KK03-05-065-001
हृतराज्ये नले भीमः सभार्येऽदर्शनं गते । KK03-05-065-001a
'चिन्तयामास बहुशः सहामात्यैर्नराधिपः ॥ KK03-05-065-001c
समाहूय द्विजान्सर्वानिदं वचनमब्रवीत् । KK03-05-065-002a
अग्रहारं च दास्यामि ग्रामं नगरसम्मितम् ॥ KK03-05-065-002c
दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः । KK03-05-065-003a
गवां शतसहस्राणि दाता तस्मै द्विजातये ॥ KK03-05-065-003c
इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान् । KK03-05-065-004a
प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया' ॥ KK03-05-065-004c
सन्दिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् । KK03-05-065-005a
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ KK03-05-065-005c
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे । KK03-05-065-006a
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥ KK03-05-065-006c
अग्रहारांश्च दास्यामि ग्रामं नगरसम्मितम् । KK03-05-065-007a
हिरण्यं च सुवर्णं च दासीदासं तथैव ॥ KK03-05-065-007c
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा । KK03-05-065-008a
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥ KK03-05-065-008c
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम् । KK03-05-065-009a
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया । KK03-05-065-009c
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् ॥ KK03-05-065-009e
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः । KK03-05-065-010a
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥ KK03-05-065-010c
तयैव राजमाता च ब्राह्मणान्पर्यवेषयत् । KK03-05-065-011a
भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह ॥ KK03-05-065-011c
कृशां विवर्णां मलिनां भर्तृशोकपरायणाम् । KK03-05-065-012a
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ KK03-05-065-012c
मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम् । KK03-05-065-013a
निबद्धां धूमजालेन प्रभामिव विभावसोः ॥ KK03-05-065-013c
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् । KK03-05-065-014a
तर्कयामास भैमीति कारणैरुपपादयन् ॥ KK03-05-065-014c
सुदेव उवाच KK03-05-065-015
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना । KK03-05-065-015a
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥ KK03-05-065-015c
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् । KK03-05-065-016a
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥ KK03-05-065-016c
चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव । KK03-05-065-017a
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ॥ KK03-05-065-017c
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् । KK03-05-065-018a
मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव ॥ KK03-05-065-018c
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् । KK03-05-065-019a
पतिशोकाकुलां दीनां कृशस्रोतां नदीमिव ॥ KK03-05-065-019c
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् । KK03-05-065-020a
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥ KK03-05-065-020c
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् । KK03-05-065-021a
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम् ॥ KK03-05-065-021c
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् । KK03-05-065-022a
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥ KK03-05-065-022c
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च । KK03-05-065-023a
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया ॥ KK03-05-065-023c
भर्ता नाम परं नार्या भूषणं भूषणैर्विना । KK03-05-065-024a
एषा हि रहिता तेन शोभमाना न शोभते ॥ KK03-05-065-024c
दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः । KK03-05-065-025a
धारयत्यात्मनो देहं न शोकेनापि सीदति ॥ KK03-05-065-025c
इमामसितकेशान्तां शतपत्रायतेक्षणाम् । KK03-05-065-026a
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥ KK03-05-065-026c
कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा । KK03-05-065-027a
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥ KK03-05-065-027c
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति । KK03-05-065-028a
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ KK03-05-065-028c
तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृताम् । KK03-05-065-029a
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥ KK03-05-065-029c
युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया । KK03-05-065-030a
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥ KK03-05-065-030c
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । KK03-05-065-031a
अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम् ॥ KK03-05-065-031c
बृहदश्व उवाच KK03-05-065-032
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् । KK03-05-065-032a
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ KK03-05-065-032c
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा । KK03-05-065-033a
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ KK03-05-065-033c
कुशली ते पिता राज्ञि जननी भ्रातरश्च ते । KK03-05-065-034a
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥ KK03-05-065-034c
त्वत्कृते बन्धुवर्गाश्च गतसत्वा इवासते । KK03-05-065-035a
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ॥ KK03-05-065-035c
बृहदश्व उवाच KK03-05-065-036
अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर । KK03-05-065-036a
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान् ॥ KK03-05-065-036c
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता । KK03-05-065-037a
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ KK03-05-065-037c
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता । KK03-05-065-038a
सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ KK03-05-065-038c
जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम् । KK03-05-065-039a
ब्राह्मणेन सहागम्य तां विद्धि यदि मन्यसे ॥ KK03-05-065-039c
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा । KK03-05-065-040a
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥ KK03-05-065-040c
ततः सुदेवमानाय्य राजमाता विशाम्पते । KK03-05-065-041a
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ KK03-05-065-041c
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना । KK03-05-065-042a
त्वया च विदिता विप्र कथमेवङ्गता सती ॥ KK03-05-065-042c
एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः । KK03-05-065-043a
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥ KK03-05-065-043c
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः । KK03-05-065-044a
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥ KK03-05-065-044c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

3-65-7 अग्रं ब्राह्मणभोजनं तदर्थं ह्रियन्ते राजधनात्पृथक्क्रियन्ते तेऽग्रहाराः क्षेत्रादयः ॥ 3-65-14 कारणैर्लिङ्गैः उपपादयन् इयमेव दमयन्तीति निश्चिन्वन् ॥ 3-65-16 श्यामां सदा षोडशवार्षिकीम् ॥ 3-65-20 पद्मिनीं सरसीम् ॥