अध्यायः 064
कर्कोटकवचनान्नलेनायोध्यायां बाहुक इति स्वनामनिर्देशपूर्वकमृतुपर्णनृपसमीपोपसर्पणम् ॥ 1 ॥ ऋतुपर्णेन तस्य सारथ्ये नियोजनम् ॥ 2 ॥
बृहदश्व उवाच KK03-05-064-001
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः । KK03-05-064-001a
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ KK03-05-064-001c
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् । KK03-05-064-002a
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ KK03-05-064-002c
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च । KK03-05-064-003a
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥ KK03-05-064-003c
यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम् । KK03-05-064-004a
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥ KK03-05-064-004c
'इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः । KK03-05-064-005a
उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते' ॥ KK03-05-064-005c
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि । KK03-05-064-006a
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥ KK03-05-064-006c
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । KK03-05-064-007a
भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ॥ KK03-05-064-007c
त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ । KK03-05-064-008a
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ KK03-05-064-008c
बृहदश्व उवाच KK03-05-064-009
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः । KK03-05-064-009a
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ KK03-05-064-009c
स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् । KK03-05-064-010a
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥ KK03-05-064-010c
क्वनु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी । KK03-05-064-011a
स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ॥ KK03-05-064-011c
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् । KK03-05-064-012a
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक । KK03-05-064-012c
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥ KK03-05-064-012e
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् । KK03-05-064-013a
आसीद्बहुमता नारी तस्या दृढतरश्च सः ॥ KK03-05-064-013c
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत । KK03-05-064-014a
विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ॥ KK03-05-064-014c
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः । KK03-05-064-015a
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥ KK03-05-064-015c
स विभ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन । KK03-05-064-016a
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥ KK03-05-064-016c
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने । KK03-05-064-017a
त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ॥ KK03-05-064-017c
एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता । KK03-05-064-018a
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥ KK03-05-064-018c
श्वापदाचरिते नित्यं वने महति दारुणे । KK03-05-064-019a
त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ॥ KK03-05-064-019c
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् । KK03-05-064-020a
अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ॥ KK03-05-064-020c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
3-64-9 मारिष आर्य ॥