अध्यायः 062
दमयन्त्या सार्थेन सह चेदिराजपुरम्प्रति प्रस्थानम् ॥ 1 ॥ वनमध्ये सरस्तीरशायिनि सार्थे निशीथे पानीयपानायागतगजयूथनिहतभूयिष्ठे दिष्ट्या दमयन्त्या अपि शेषीकारः ॥ 2 ॥ हतावशिष्टेन जनेन सह चेदिराजपुरं गताया दमयन्त्या राजमात्रा स्वान्तःपुराधिवासनम् ॥ 3 ॥
बृहृदश्व उवाच KK03-05-062-001
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा । KK03-05-062-001a
जगाम सह तेनैव सार्थेन पतिलालसा ॥ KK03-05-062-001c
अथ काले बहुतिथे वने महति दारुणे । KK03-05-062-002a
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥ KK03-05-062-002c
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् । KK03-05-062-003a
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ॥ KK03-05-062-003c
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम् । KK03-05-062-004a
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ KK03-05-062-004c
सम्मते सार्थवाहस्य विविशुर्वनमुत्तमम् । KK03-05-062-005a
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ॥ KK03-05-062-005c
अथार्धरात्रसमये निःशब्दे तिमिरे तदा । KK03-05-062-006a
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् । KK03-05-062-006c
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ॥ KK03-05-062-006e
[अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ॥ KK03-05-062-007ac
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा । KK03-05-062-008a
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥ KK03-05-062-008c
तेषामापततां वेगः करिणां दुःसहोऽभवत् । KK03-05-062-009a
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ । KK03-05-062-009c
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ॥] KK03-05-062-009e
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् । KK03-05-062-010a
ते तं ममर्दुः सहसा वेष्टमानं महीतले ॥ KK03-05-062-010c
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः । KK03-05-062-011a
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ॥ KK03-05-062-011c
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ॥ KK03-05-062-012ac
निहतोष्ट्राश्वबहुलाः पदातिजनसङ्कुलाः । KK03-05-062-013a
भयादाधावमानाश्च परस्परहतास्तदा ॥ KK03-05-062-013c
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले । KK03-05-062-014a
वृक्षेष्वासज्यसम्भग्नाः पतिता विषमेषु च ॥ KK03-05-062-014c
एवम्प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः । KK03-05-062-015a
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ॥ KK03-05-062-015c
आरावः सुमहांश्चासीत्त्रैलोक्यभयकारकः । KK03-05-062-016a
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ॥ KK03-05-062-016c
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत । KK03-05-062-017a
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ॥ KK03-05-062-017c
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः । KK03-05-062-018a
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ॥ KK03-05-062-018c
तस्मिंस्तथा वर्तमाने दारुणे जनसङ्क्षये । KK03-05-062-019a
दमयन्ती च बुबुधे भयसन्त्रस्तमानसा । KK03-05-062-019c
अपश्यद्वैशसं तत्र सर्वलोकभयङ्करम् ॥ KK03-05-062-019e
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा । KK03-05-062-020a
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ॥ KK03-05-062-020c
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः । KK03-05-062-021a
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ॥ KK03-05-062-021c
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः । KK03-05-062-022a
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ॥ KK03-05-062-022c
न पूजा विघ्नकर्तॄणामथवा प्रथमं कृता ॥ KK03-05-062-023ac
शकुनानां फलं वाऽथ विपरीतमिदं ध्रुवम् । KK03-05-062-024a
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ॥ KK03-05-062-024c
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता । KK03-05-062-025a
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ॥ KK03-05-062-025c
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् । KK03-05-062-026a
तयैवं विहिता पूर्वं माया परमदारुणा ॥ KK03-05-062-026c
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयङ्करी । KK03-05-062-027a
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ॥ KK03-05-062-027c
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् । KK03-05-062-028a
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः । KK03-05-062-028c
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ॥ KK03-05-062-028e
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् । KK03-05-062-029a
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ॥ KK03-05-062-029c
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ॥ KK03-05-062-030ac
अहो ममोपरि विधेः संरम्भो दारुणो महान् । KK03-05-062-031a
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ॥ KK03-05-062-031c
न स्मराम्यशुभं किञ्चित्कृतं कस्यचिदण्वपि । KK03-05-062-032a
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ॥ KK03-05-062-032c
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत् । KK03-05-062-033a
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ॥ KK03-05-062-033c
भर्तृराज्यापहरणं स्वजनाच्च पराजयः । KK03-05-062-034a
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः । KK03-05-062-034c
निर्नाथता वने वासो बहुव्यालनिषेविते ॥ KK03-05-062-034e
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा । KK03-05-062-035a
वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् । KK03-05-062-035c
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥ KK03-05-062-035e
'हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता । KK03-05-062-036a
ब्राह्मणैः सहिता तत्र वने तु न विनाशिता ॥' KK03-05-062-036c
अशोचत्तत्र वैदर्भी किन्नु मे दुष्कतं कृतम् । KK03-05-062-037a
योपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ॥ KK03-05-062-037c
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् । KK03-05-062-038a
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ॥ KK03-05-062-038c
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् । KK03-05-062-039a
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ॥ KK03-05-062-039c
न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते । KK03-05-062-040a
न च मे बालभावेऽपि किञ्चित्पापकृतं कृतम् ॥ KK03-05-062-040c
कर्मणा मनसा वाचा यदिदं दुःखमागतम् । KK03-05-062-041a
मन्ये स्वयंवरकृते लोकपाला समागताः ॥ KK03-05-062-041c
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः । KK03-05-062-042a
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ KK03-05-062-042c
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना । KK03-05-062-043a
प्रलापानि तदा तानि दमयन्ती पतिव्रता ॥ KK03-05-062-043c
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः । KK03-05-062-044a
अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ KK03-05-062-044c
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत् । KK03-05-062-045a
सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ॥ KK03-05-062-045c
'सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम् । KK03-05-062-046a
'वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ॥ KK03-05-062-046c
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम् । KK03-05-062-047a
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ KK03-05-062-047c
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा । KK03-05-062-048a
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ॥ KK03-05-062-048c
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः । KK03-05-062-049a
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ॥ KK03-05-062-049c
धात्रीमुवाच गच्छैनामानयेह ममान्तिकम् । KK03-05-062-050a
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ॥ KK03-05-062-050c
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् । KK03-05-062-051a
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ॥ KK03-05-062-051c
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् । KK03-05-062-052a
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ KK03-05-062-052c
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः । KK03-05-062-053a
भासि विद्युदिवाभ्रेषु शंस मे काऽसि कस्य वा ॥ KK03-05-062-053c
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् । KK03-05-062-054a
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ KK03-05-062-054c
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् । KK03-05-062-055a
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ KK03-05-062-055c
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् । KK03-05-062-056a
फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ॥ KK03-05-062-056c
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः । KK03-05-062-057a
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ॥ KK03-05-062-057c
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने । KK03-05-062-058a
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ॥ KK03-05-062-058c
तमेकवसनच्छन्नमुन्मत्तमिव विह्वलम् । KK03-05-062-059a
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥ KK03-05-062-059c
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे । KK03-05-062-060a
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ॥ KK03-05-062-060c
तमेकवसना नग्नमुन्मत्तवदचेतसम् । KK03-05-062-061a
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥ KK03-05-062-061c
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् । KK03-05-062-062a
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥ KK03-05-062-062c
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम् । KK03-05-062-063a
साऽहं कमलगर्भाभमपश्यन्ती हृदिप्रियम् । KK03-05-062-063c
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥ KK03-05-062-063e
'इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत । KK03-05-062-064a
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता' ॥ KK03-05-062-064c
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु । KK03-05-062-065a
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ॥ KK03-05-062-065c
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि । KK03-05-062-066a
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ KK03-05-062-066c
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः । KK03-05-062-067a
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥ KK03-05-062-067c
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् । KK03-05-062-068a
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ॥ KK03-05-062-068c
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् । KK03-05-062-069a
न चाहं पुरुषानन्यान्प्रभाषेयं कथञ्चन ॥ KK03-05-062-069c
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् । KK03-05-062-070a
वध्यश्च ते सकृन्मन्द इति मे व्रतमाहितम् ॥ KK03-05-062-070c
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् । KK03-05-062-071a
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः । KK03-05-062-071c
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ KK03-05-062-071e
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत् । KK03-05-062-072a
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥ KK03-05-062-072c
एवमुक्त्वा ततो भैमीं राजमाता विशाम्पते । KK03-05-062-073a
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ KK03-05-062-073c
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् । KK03-05-062-074a
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् । KK03-05-062-074c
एतया सह मोदस्व निरुद्विग्रमनाः सदा ॥ KK03-05-062-074e
ततः परमसंहृष्टा सुनन्दा गृहणागमत् । KK03-05-062-075a
दमयन्तीमुपादाय सखीभिः परिवारिता ॥ KK03-05-062-075c
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया । KK03-05-062-076a
चिन्तयन्ती नलं वीरमनिशं वामलोचना ॥ KK03-05-062-076c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
3-62-3 यवसं घासः ॥ 3-62-4 श्रान्तवाहाः श्रान्तवाहनाः । निवेशाय वासाय ॥ 3-62-10 पद्मिन्याः सरस्याः ॥ 3-62-28 कृत्यैव कृत्यका । कुत्सिता कृत्या कृत्यकेति वा ताम् ॥ 3-62-33 अपश्चिमाम् अपरावर्तिनीम् ॥ 3-62-40 पापकृतं पापं कर्म ॥ 3-62-47 अमार्जितां धूसरवेणीम् ॥ 3-62-56 भुजिष्यां दासीम् । कामवासिनीं यत्र काम इच्छा तत्रैव वसन्तीम् । यत्र सायङ्कालस्तत्रैव प्रतिश्रयो गृहं यस्यास्ताम् ॥ 3-62-57 भर्तारमपि तं वीरं सीतेवानुगता सदेति क. पाठः । अहं चानुगता वीरं छायेवानपगा सदेति ध. पाठः ॥ 3-62-68 हे वीरप्रजायिनि वीरानेव प्रजायते सूते सा वीरप्रजायिनी ॥ 3-62-71 यद्येवमिह वस्तव्यं वसाम्यहमसंशयमिति ध. पाठः ॥