अध्यायः 060
वने चरन्त्या दमयन्त्या अजगरेण ग्रहणम् ॥ 1 ॥ वनचरेण व्याधेन तां ग्रसतोऽजगरस्य वधः ॥ 2 ॥ दमयन्त्या आत्मकामुकस्य तद्व्याधस्य स्वपातिव्रत्यमहिम्ना हननम् ॥ 3 ॥
बृहदश्व उवाच KK03-05-060-001
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा । KK03-05-060-001a
अबुध्यत वरारोहा सन्त्रस्ता विजने वने ॥ KK03-05-060-001c
अपश्यमाना भर्तारं शोकदुःखसमन्विता । KK03-05-060-002a
प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ॥ KK03-05-060-002c
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् । KK03-05-060-003a
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने ॥ KK03-05-060-003c
ननु नाम महारज धर्मज्ञः सत्यवागसि । KK03-05-060-004a
कथंविधस्त्वं हि तथा सुप्तामुत्सृज्य मां गतः ॥ KK03-05-060-004c
कथमुत्सृज्य गन्ताऽसि वश्यां भार्यामनुव्रताम् । KK03-05-060-005a
विशेषतो नापकृतः परेणापकृतो ह्यसि ॥ KK03-05-060-005c
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर । KK03-05-060-006a
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा ॥ KK03-05-060-006c
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ । KK03-05-060-007a
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥ KK03-05-060-007c
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ । KK03-05-060-008a
भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥ KK03-05-060-008c
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध । KK03-05-060-009a
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ KK03-05-060-009c
नृशंसां बत राजेन्द्र यन्मामेवङ्गतामिह । KK03-05-060-010a
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ KK03-05-060-010c
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन । KK03-05-060-011a
कथं नु भवितास्येक इति त्वां नृप शोचये ॥ KK03-05-060-011c
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः । KK03-05-060-012a
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ KK03-05-060-012c
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना । KK03-05-060-013a
इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ KK03-05-060-013c
मुहुरुत्पतते बाला मुहुः पतति विह्वला । KK03-05-060-014a
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥ KK03-05-060-014c
अतीव शोकसन्तप्ता मुहुर्निःश्वस्य विह्वला । KK03-05-060-015a
उवाच भैमी निःश्वस्य रोदमाना पतिव्रता ॥ KK03-05-060-015c
यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः । KK03-05-060-016a
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ KK03-05-060-016c
अपापचेतसं पापो य एवं कृतवान्नलम् । KK03-05-060-017a
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम् ॥ KK03-05-060-017c
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः । KK03-05-060-018a
अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ KK03-05-060-018c
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः । KK03-05-060-019a
हाहा राजन्निति मुहुरितश्चेतश्च धावति ॥ KK03-05-060-019c
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् । KK03-05-060-020a
करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम् । KK03-05-060-020c
सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम् । KK03-05-060-021a
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ KK03-05-060-021c
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता । KK03-05-060-022a
नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ KK03-05-060-022c
हा नाथ मामिह वने ग्रस्यमानामनागसम् । KK03-05-060-023a
ग्राहेणानेन विजने किमर्थं नानुधावसि ॥ KK03-05-060-023c
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध । KK03-05-060-024a
[कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो ।] KK03-05-060-024c
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥ KK03-05-060-024e
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध । KK03-05-060-025a
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ ॥ KK03-05-060-025c
बृहदश्च उवाच KK03-05-060-026
तां तु कश्चिन्मृगव्याधो विचरन्गहने वने । KK03-05-060-026a
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥ KK03-05-060-026c
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् । KK03-05-060-027a
त्वरमाणो मृगव्याधः सञ्चरन्गहने वने । KK03-05-060-027c
समभिक्रम्य वेगेन सत्वरः स वनेचरः ॥ KK03-05-060-027e
मुखे तं पाटयामास शस्त्रेण निशितेन च । KK03-05-060-028a
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ॥ KK03-05-060-028c
मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन ह । KK03-05-060-029a
समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥ KK03-05-060-029c
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम् । KK03-05-060-030a
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ KK03-05-060-030c
दमयन्ती तथा तेन पृच्छ्यमाना विशाम्पते । KK03-05-060-031a
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥ KK03-05-060-031c
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् । KK03-05-060-032a
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥ KK03-05-060-032c
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् । KK03-05-060-033a
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान् ॥ KK03-05-060-033c
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया । KK03-05-060-034a
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ KK03-05-060-034c
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता । KK03-05-060-035a
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥ KK03-05-060-035c
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः । KK03-05-060-036a
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ KK03-05-060-036c
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता । KK03-05-060-037a
अतीतवाक्यथे काले शशापैनं रुषा किल ॥ KK03-05-060-037c
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये । KK03-05-060-038a
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः ॥ KK03-05-060-038c
उक्तमात्रे तु वचने तया स मृगजीवनः । KK03-05-060-039a
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ KK03-05-060-039c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
3-60-13 मन्युना शोकेन ॥ 3-60-16 कलिं शपति यस्येति । अभिशापात्र वृथाद्वेषात् ॥ 3-60-20 वाशतीं क्रोशन्तीम् ॥ 3-60-21 ग्राहः सर्पः ॥ 3-60-24 बुद्धिलाभादूर्ध्वं मां विना कथं भविष्यसि कथं जीविष्यसि । शापान्मुक्तः इति क. पाठः ॥ 3-60-28 विशस्य विदार्य ॥ 3-60-33 अरालानि शोभमानानि पक्ष्माणि नयनप्रान्तरोमाणि ययोस्तादृशे नयने यस्या इति तथा ॥ 3-60-35 मन्युना क्रोधेन ॥ 3-60-37 पतिराज्यविनाकृता पत्या राज्येन च रहिता । अतीतवाक्पथे वाचाप्यनिवार्ये सति । काले धूम्रवर्णे व्याधे ॥ 3-60-38 परासुः गतप्राणः ॥ 3-60-39 व्यसुर्विगतप्राणः ॥