अध्यायः 058

द्यूते पुष्करजितेन नलेन दमयन्त्या सह वनप्रवेशः ॥ 1 ॥ अन्तरिक्षे पक्षिरूपेण समुत्पतद्भिरक्षैरात्मजिघृक्षोर्नलस्य अन्तरीयवस्त्रापकर्षणेन पलायनम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-058-001
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः । KK03-05-058-001a
पुष्करेण हृतं राज्यं यच्चापि वसु किञ्चन ॥ KK03-05-058-001c
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् । KK03-05-058-002a
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ KK03-05-058-002c
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया । KK03-05-058-003a
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ KK03-05-058-003c
पुष्रेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना । KK03-05-058-004a
व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ॥ KK03-05-058-004c
ततः पुष्करमालोक्य नलः परममन्युमान् । KK03-05-058-005a
'उवाच विद्यतेऽन्यच्च धनं मम नराधम ॥ KK03-05-058-005c
पणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः । KK03-05-058-006a
उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च' । KK03-05-058-006c
उत्सृज्य सर्वगात्रभ्यो भूषणानि महायशाः ॥ KK03-05-058-006e
एकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः । KK03-05-058-007a
निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम् ॥ KK03-05-058-007c
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात् । KK03-05-058-008a
स तया नगराभ्याशे त्रिरात्रं नैषधोऽवसत् ॥ KK03-05-058-008c
पुष्करस्तु महाराज घोषयामास वै पुरे । KK03-05-058-009a
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ KK03-05-058-009c
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च । KK03-05-058-010a
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥ KK03-05-058-010c
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः । KK03-05-058-011a
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥ KK03-05-058-011c
[पीड्यमानः क्षुधा तत्र फलमृलानि कर्षयन् । KK03-05-058-012a
प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ॥] KK03-05-058-012c
क्षुधया पीड्यमानस्तु नलो बहुतिथेऽहनि । KK03-05-058-013a
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥ KK03-05-058-013c
स चिन्तयामास तदा निषधाधिपतिर्बली । KK03-05-058-014a
अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति ॥ KK03-05-058-014c
ततस्तानन्तरीयेण वाससा स समावृणोत् । KK03-05-058-015a
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥ KK03-05-058-015c
उन्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम् । KK03-05-058-016a
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ KK03-05-058-016c
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः । KK03-05-058-017a
आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ KK03-05-058-017c
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् । KK03-05-058-018a
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत् ॥ KK03-05-058-018c
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते । KK03-05-058-019a
प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः ॥ KK03-05-058-019c
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः । KK03-05-058-020a
इमे ते शकुना भूत्वा वासश्चापहरन्ति मे ॥ KK03-05-058-020c
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः । KK03-05-058-021a
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ KK03-05-058-021c
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् । KK03-05-058-022a
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ KK03-05-058-022c
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा । KK03-05-058-023a
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः ॥ KK03-05-058-023c
एष पन्था विदर्भाणामेष यास्यति कोसलान् । KK03-05-058-024a
अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः ॥ KK03-05-058-024c
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः । KK03-05-058-025a
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥ KK03-05-058-025c
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । KK03-05-058-026a
उवाच दमयन्ती तं नैषधं करुणं वचः ॥ KK03-05-058-026c
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः । KK03-05-058-027a
तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः ॥ KK03-05-058-027c
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम् । KK03-05-058-028a
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥ KK03-05-058-028c
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् । KK03-05-058-029a
वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥ KK03-05-058-029c
न च भार्यासमं किञ्चिन्नरस्यार्तस्य भेषजम् । KK03-05-058-030a
नित्यं हि सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥ KK03-05-058-030c
नल उवाच KK03-05-058-031
एवमेतद्यथाऽऽत्थ त्वं दमयन्ति सुमध्यमे । KK03-05-058-031a
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ KK03-05-058-031c
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे । KK03-05-058-032a
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते ॥ KK03-05-058-032c
दमयन्त्युवाच KK03-05-058-033
यदि मां त्वं महाराज न विहातुमिहेच्छसि । KK03-05-058-033a
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ KK03-05-058-033c
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि । KK03-05-058-034a
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥ KK03-05-058-034c
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम । KK03-05-058-035a
अतो निमित्तं शोकं मे वर्धयस्यमरोपम ॥ KK03-05-058-035c
यदि चायमभिप्रायस्तव राजन्भविष्यति । KK03-05-058-036a
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ KK03-05-058-036c
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद । KK03-05-058-037a
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ KK03-05-058-037c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

3-58-2 प्रतिपाणः पणनीयं द्रव्यम् ॥ 3-58- अपकृष्टेन कलिकर्षितेन ॥